सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 171, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 171

पञ्चमोऽध्यायः (१) १७१
अग्निहोत्रे स्वयंकृतहोमस्तुत्यर्थं गौणकर्तृ[प्रदर्शन]पुरःसरम्
उत्तरोत्तरं मुख्यान् कर्तॄन् दर्शयति—
अन्यैः शतहुतान् होमानेकः शिष्यहुतो वरम् ।
शिष्यैः शतहुतान् होमानेकः पुत्रहुतो वरम् ॥
पुत्रैः शतहुतान् होमानेको ह्यात्महुतो वरम् ॥ १३ ॥
अन्यैः शिष्यादिव्यतिरिक्तैः शतहुतान् शतशो हुतान् कृतान् होमान्
अपेक्ष्य शिष्यहुतः शिष्येण कृतः एको होमः वरम् उत्कृष्टः । एवमन्यदपि
व्याख्येयम् ॥ १३ ॥
अस्त्वेवं किं तत इत्याह—
स्वयं होता स्वयं दोही स्वयमेवोपतिष्ठेताग्नि-
होत्रम् ॥ १४ ॥
यत एवमात्मकृतो होमः प्रशस्तः तस्मात् स्वयं होता देवानामाह्वाता
स्वयमेव दोही अग्निहोत्रार्थं पयसो दोग्धा सन् स्वयमेव यजमानः स्वयमेवाग्नि-
होत्रमुपतिष्ठेत ॥ १४ ॥
तत्र दक्षिणां दर्शयति—
हौम्यशेषं दक्षिणा ॥ १५ ॥
हौम्यशेषं हुतावशिष्टं हविरेव दक्षिणा । नान्यदित्यर्थः ॥ १५ ॥

  1. R. ०कृतैकहोम, M. ०कृतो होम०, K. ०कृतेकहोम० T.
    ०कृतकहोम for ०कृतहोम ; M. ०स्तुत्यर्थः for स्तुत्यर्थ.
    3&4. JMK. ०हुताद् होमात् for ०हुतान् होमान् .
  2. T. ०हुतैंहोमान् for हुतान् होमान् .
  3. RKI. शिष्य० for शिष्येण.
  4. J adds. अग्निहोत्रे after दर्शयति.
    16&17. MTK. होम्य० for हौम्य.
    17 R. हुत, MTK. हुत्वाव० for हुताव०.