सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

३३६ समराङ्गणसूत्रधारे
दिक्सूत्रे कर्णसूत्रे च (कुम्भ ?)+ रथिकाष्टकम् ।
रथिका अपि चैताः स्युर्द्विभागायतविस्तृताः ॥ १६४ ॥
षड्भागविस्तृतिश्चास्य शेषं शिखरमाचरेत् ।
उच्छ्रयश्चास्य कर्तव्यो भागानां सार्धसप्तकम् ॥ १६५ ॥
षड्भागैः स्कन्धविस्तारो ग्रीवा चास्य द्विभागिका ।
रेखा चामलसारं च कलशश्चात्र यो भवेत् ॥ १६६ ॥
सर्वतोभद्रवत् स स्याच्छ्रीवृक्षोऽयमुदाहृतः ।
श्रीवृक्षः ॥
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥ १६७ ॥
द्विभागविस्तृताः कर्णा रथिकास्तेषु कारयेत् ।
उदकान्तरविच्छिन्ना मूलकर्णेषु योजयेत् ॥ १६८ ॥
शेषं भद्रस्य विस्तारस्तदर्धमपि निर्गमः ।
सर्वतोभद्रमप्यस्य भद्रे भद्रे विभज्य च ॥ १६९ ॥
पूर्वैर्गुणैस्तु संयुक्ते चतुर्दिक्षु निवेशयेत् ।
तस्य गर्भस्तु कर्तव्यः (पदापैष्ठक ?) विस्तृतः ॥ १७० ॥
सार्धभागप्रमाणः स्याद् भित्तिर्गर्भस्य मध्यतः ।
बाह्यभित्तिस्तथैवास्य शेषं भ्रमणमाचरेत् ॥ १७१ ॥
जङ्घाषड्भागमुत्सेधात् पीठं तस्य तदर्धतः ।
वरण्डीना(म)न्तरं पत्रं भागेनैकेन कारयेत् ॥ १७२ ॥
रथिकाद्वादशविस्तारानुपर्युपरि योजितां(?) ।
तिस्रस्तिस्रो निवेशाः (श्याः) स्युः कर्णे कर्णेत(य)थाक्रमम् ॥ १७३ ॥
प्रथमा रथिकास्तस्यै कुर्याद् भागत्रयोच्छ्रिताः ।
कुर्यादु(पर्यू)पर्यन्याः पादपादविवर्जिताः ॥ १७४ ॥
१ द. कुर्वीत रथकाष्टकं । २ द. ग । ३ द. पुस्तके नास्ति । ४ द. मिति । ५ द. पदाष्टाष्टक
वि°। ६ द. गे। ७ द. प्रतौ नास्ति। ८ द. थ। ९ द. उ। १० द. ताः। ११ द. शास्या कर्णे
कर्णे यथा°। १२ द. त्र। १३ द. ज्झिताः।

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३३७
अष्टभिर्विस्तृतं भागैः सार्धैर्नवभिरुच्छ्रितम् ।
सर्वतोभद्रकाकारं शिखरं तस्य कारयेत् ॥ १७५ ॥
प्रासादोऽयं विमानाख्यः प्रख्यातश्चामृतोद्भवः ।
विमानेः ॥
द्विसप्तायामविस्तारं हिमवन्तं विभाजयेत् ॥ १७६ ॥
चतुर्धा रथिकास्तत्र कर्णे कर्णे निवेशयेत् ।
द्विभागविस्तृताः सर्वा उपर्युपरि कारयेत् ॥ १७७ ॥
प्रथमा भूमिका तस्य स्याच्च भागत्रयोच्छ्रितां ।
पादपादविहीनास्तु क्रमणोपरिभूमयः ॥ १७८ ॥
नन्दिशालगुणैर्युक्तं शिखरं चात्र कारयेत् ।
सर्वतोभद्रवन्मध्ये भूमिकाश्च समाचरेत् ॥ १७९ ॥
द्विभागाँ रथिकास्तस्य सर्व(र्वा) भागत्रयोच्छ्रिताः ।
द्वितीयभूमि(कां ?)रथिका भूम्यंशं(च्छा)येण कारयेत् ॥ १८० ॥
शिखरस्योच्छ्रयः कार्यः सपादव्यासैसंमितः ।
अमृतोद्भववज्जङ्घा पीठं चात्र तथा भवेत् ॥ १८१ ॥
जातिशुद्धो भवत्येष हिमवान् भुवनोत्तमः ।
हिमवान् ॥
हिमाचलस्य संस्थाने तद्रूपे समवस्थिते ॥ १८२ ॥
तस्य भद्रेषु सर्वेषु वर्धमानं च योजयेत् ।
भागषट्कप्रविस्तारं तदर्धेन विनिर्गतम् ॥ १८३ ॥
भागैः सप्तभिरप्यस्य सार्धैः स्याच्छिखरोच्छ्रयः ।
शिखरस्याग्रतः स्तम्भः(म्भं)सिंहकर्णे वि(र्गैर्वि)भूषयेत् ॥१८४॥
१ द. प्रतौ नास्ति । २ द. चतस्रो रथिं । ३ द. इ । ४ द. म्यान्म । ५ द. ताः । ६ द.
पदे पदे वि° । ७ द. ग । ८ द. प्रतौ नास्ति । ९ द. प्रतौ नास्ति । १० द. प्रतौ नास्ति । ११ द
न्या । १२ द. भ । १३ द. स्तंभं हंसकर्णे विभू° ।
वा. ४३

३३८ समराङ्गणसूत्रधारे।
दिक्‌सूत्रैरस्य सर्वेषु क्रियां प्राग्वत् प्रकल्पयेत् ।
जङ्घोच्छ्सेधश्च२ कर्णश्च शिखरं चास्य यद् भवेत् ॥ १८५ ॥
हिमवत्सदृशं सर्वं विधेयं तद् विजानता ।
हेमकूट इति ख्यातः प्रासादोऽयं जगत्त्रये ॥ १८६ ॥
एष त्रिमूर्तिनिलयः कार्यो नान्यस्य कस्यचित् ।
हेमकूटः ॥
३हिमवत्तुल्यसंस्थानं४ प्रासादं५ परिकल्पयेत् ॥ १८७ ॥
तस्य६ मध्ये विधातव्यः सर्वतोभद्रसंज्ञितः ।
वर्जनीयं तु तन्मध्ये वर्धमानं७निवेशनम् ॥ १८८ ॥
ततः स्थानेषु सर्वेषु खण्डरेखां निवेशयेत् ।
व्यासोच्छ्रितैस्ततः सिंहकर्णैर्भद्रं विभूषयेत् ॥ १८९ ॥
ऊर्ध्वं च शिखरं तस्य वर्जनीयं विचक्षणैः ।
द्वे द्वे च रथिके कार्ये सपादांशकोच्छ्रिती८ ॥ १९० ॥
तयोश्चोपरि विस्ताराच्छिखरं चतुरश्रकम् ।
उच्छ्रयः पञ्चभिः सार्धैर्विधेयः शिखरस्य च ॥ १९१ ॥
दिक्‌सूत्रेषु ९च सर्वेषु क्रियामेवं प्रकल्पयेत् ।
बाह्यरेखा १०तु जङ्घा च हिमवत्सदृशी स्मृता ॥ १९२ ॥
कैलासोऽयमिति ख्यातः कर्तव्यः शूलपाणये ।
कैलासः ॥
एतस्यैव यदा भद्रमुच्छ्रितं११ सिंहकर्णकैः ॥ १९३ ॥
द्वे द्वे च रथिके तत्र दीर्ये(ये)ते १२सुमनोरमे ।
शेषैः१४ शिखरविस्तारः पञ्चभागसमुच्छ्रितः ॥ १९४ ॥
प्राग्ग्रीवकाश्च भद्रेषु भागै१६भागविनिर्गताः ।
विस्तारेण चतुर्भागा दिक्षु सर्वास्वयं विधिः ॥ १९५ ॥
१ द. दिक्‌सूत्रेष्वस्य सर्वेषु । २ द. ॰धस्य कर्णस्य । ३ द. हे । ४ द. ने । ५ द. ॰दे परि-
कल्पिते । ६ द. तस्या । ७ द. नं । ८ द. खां । ९ द. ते । १० द. प्रतौ पाठः नास्ति । ११ द. च ।
१२ द. जितं शंख । १३ द. पुस्तके नास्ति । १४ द. स । १५ द. ष । १६ द. गं । १७ द. स्त ।

रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३३२
विमानसदृशी चास्य बाह्यलेखा विधीयते ।
गुणैरेभिस्तदा युक्तः प्रासादः पृथिवीजयः ॥ १९६ ॥
पृथिवीजयः ॥
भक्ते षोडशभिः क्षेत्रे चतुरश्रे समन्ततः ।
गर्भोऽष्टवर्गः स्यात् तस्य मध्ये भित्तिर्द्विभागिका ॥ १९७ ॥
भ्रमणं बाह्यभित्तिंश्च तत्समे एव कीर्तिते³ ।
कर्णेषु रथिका कार्या सलिलान्तरभूषिताँ ॥ १९८ ॥
तत्तुल्यायामविस्तारा रथिकाः स्युस्तथापराः ।
तद्भूत् तृतीयरथिका भद्रं चतुष्पदायतम् ॥ १९९ ॥
विस्तारार्धेन निष्क्रान्तं क्षोभयेद् वर्धमानतैः ।
⁶वरण्ड्यन्तरपत्रे च सार्धे( र्ध )भागेन कारयेत् ॥ २०० ॥
उपर्युपरि भांगान् हि हीनाः स्युः क्रमशोभवः (?) ।
भद्रे रथिकयोर्मध्ये सिंहकर्णो⁹ विधीयते ॥ २०१ ॥
एतस्य चोच्छ्रयो भागैः पञ्चभिः परिकीर्तितः ।
पार्श्वस्थे सिंहकर्णस्थंरथिके ये निवेशिते ॥ २०२ ॥
तयोरुपरि षड्भागं विस्तृतं शिखरं भवेत् ।
विधेयमुच्छ्रयेणैतत् त्रिं¹¹भागान् सप्ताथ(प्रै¹⁴)वाधिकान् ॥ २०३ ॥
पक्षयोरुभयोस्तस्य रथिके (चैं¹³) तदूर्ध्वतः ।
सिंहं निवेशयेद् दिक्षु निखिलाखप्ययं विधिः ॥ २०४ ॥
मूलकर्णे ततश्चार्धं शिखरं दशविस्तृतम् ।
एकादशोच्छ्रितं कार्यं क्रमवृत्त्या मनोरमम् ॥ २०५ ॥
चतुर्गुणेन सूत्रेण वेणुकोशं ततो लिखेत् ।
पूर्वोक्ता सांतरंभागेरमुष्या(?) विभजेत् त्रिभिः ॥ २०६ ॥

१ द. पुस्तके पाठः नारित । २ द. तेस्तु । ३ द. के( की )र्च्यते । ४ द. ताः । ५ द. कः ।
६ द. इतः पूर्वं-चतुरुष्वपि चाशासु विधातव्यो विधिर्बुधैः । अष्टभागोच्छ्रिता जंघा खुरकश्च तदर्द्धतः ॥
पुस्तकस्य अधिकः पाठः । ७ द. भागांह्रीहीँ । ८ द. भुवः । ९ द. र्णौ । १० द. ०र्णस्तु रथिको ।
११ द. पुस्तके नास्ति । १२ द. पुस्तके नास्ति । १३ द. ०के ये तं । १४ द. श्चोर्द्धं । १५ द.
०ध्या । १६ द. ०क्तास्यांतरं भागैरमुष्य वि० ।

३४० समराङ्गणसूत्रधारे
ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम् ।
पद्मशीर्षं तथार्धेन कलशश्चांशकोदयः ॥ २०७ :
देवानाम्यालयः स स्यादिन्द्रनीलोऽयमीरितः ।
इन्द्रनीलः ॥
एतस्यैव यदोर्ध्वस्थं शिखरं क्रियतेऽन्यथा ॥ २०८ ॥
चतुर्थी रथिका चास्य दीयतेऽतिमनोरमा ।
पूर्वोक्तेन विधानेन पादं वि³ + + वर्जिता ॥ २०९ ॥
शिखरस्याष्टंविस्तारो नव भागास्तथोच्छ्रयः ।
इन्द्रनीलस्य सदृशं शेषमन्यद् विधीयते ॥ २१० ॥
महानीलोऽयमाख्यातः प्रासादस्त्रिदशालयः ।
महानीलँः ॥
इन्द्रनीलस्य संस्थाने दिक्सूत्रेषु समन्ततः ॥ २११ ॥
सर्वतोभद्रशिखरं हित्वा (हो⁷+?)निवेशयेत् ।
विधिरेष समस्तासु ककुप्सु प्रविधीयते ॥ २१२ ॥
भद्रेषु वर्धमानस्य विन्यासं परिवर्जयेत् ।
व्यासोच्छ्रितैः सिंहकर्णैर्भद्रमस्य विभूषयेत् ॥ २१३ ॥
महानीलस्य सदृशं सर्वमस्य प्रकल्पयेत् ।
इन्द्रगोपनिभाकारः प्रासादो भूधरः स्मृतः ॥ २१४ ॥
सुरेश्वरस्य कर्तव्यो नान्येषां कथमप्यसौ ।
भूधरः ॥
भूधरस्य तु संस्थाने तद्रूपे समवस्थिते⁹ ॥ २१५ ॥
भद्रे¹¹ भद्रे पुनः प्राज्ञो वर्धमानं निवेशयेत् ।
चतुर्भागमितैर्व्यासं सार्धचतुःसमुच्छ्रितम् ॥ २१६ ॥


१ द. म्यणि । २ द. माः । ३ द. पादपादविवर्जिताः । ४ द. थ। ५ द. भागे तथो° ।
६ द. प्रतौ नास्ति । ७ द. हित्वा सिंहो निवेश्यते । ८ द. मन्यत् । ९ द. ता । १० द. °तौ ।
११ द. भद्रेषु न प्रा° । १२ द. ति न्यासं सार्ध ।

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३४१
रत्नकूटः समाख्यातः प्रासादः श्रीपतेरयम् ।
रत्नकूटः ॥
चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते१ऽंशकैः ॥ २१७ ॥
कुर्याद् विभागविस्तारौ२ रथिकाः पञ्च कर्णगाः ।
पञ्चोपरि पुनः पञ्च दद्यादेकां तदूर्ध्वतः ॥ २१८ ॥
प्रथमा भूमिका चास्य कार्या भागत्रयोच्छ्रिता३।
पादपादविहीनास्तु क्रमेणापरभूमयः ॥ २१९ ॥
भद्रकर्णान्तरस्थे४ द्वे रथिके ये तदूर्ध्वतः ।
शिखरं दशविस्तारं कुर्यात् सार्धदशोच्छ्रितम् ॥ २२० ॥
मूलकर्णानुसारेण शिखरं तत्र यद्५ भवेत् ।
तस्य द्वादशविस्तारं त्रयोदशसमुच्छ्रितम् ॥ २२१ ॥
भद्रं विभूषयेत् पत्रैः६ सिंहकर्णैर्मनोरमैः७।
पञ्चव्यासेन सूत्रेण वेत्रकोशं समालिखेत् ॥ २२२ ॥
स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।
पद्मशीर्षं तथा ग्रीवां सार्धभागेन कारयेत् ॥ २२३ ॥
कुर्याद् भागेन भागेन कुम्भं चामलसारकम् ।
नवभागोच्छ्रितां जङ्घां तदधंस्वर९पिण्डकाम् ॥ २२४ ॥
वरण्ड्यन्तरपत्रं च कुर्याद् भागद्वयेन च ।
वैदूर्यो१०ऽयं समाख्यातः प्रासादो दानवद्विषः ॥ २२५ ॥
वैडूर्यः ॥
एतस्यैव८ यदा भद्रे भद्रे स्याद् वर्धमानकः ।
पद्मरागस्तथैवै११ स्याद् कार्योऽयं पद्मरागैः१२तः ॥ २२६ ॥
पद्मरागैः१३ ॥
पद्मरागस्य भद्रेषु वर्धमानं विवर्जयेत् ।
भद्रस्य पार्श्वद्वितये प्रदद्याद् रथिकाद्वयम् ॥ २२७ ॥
१ द. कं । २ द. रः । ३ द. ताः । ४ द. कर्णभद्रा० । ५ द. तत् स्याद्वा० । ६ द. ०द्रलैः ।
७ द. हरैः । ८ द. एवं । ९ द. र्धखुरं० । १० द. डूं० । ११ द. ०दैष । १२ द. जन्मनाः । १३ द.
पुस्तके नास्ति ।

३४२ समराङ्गणसूत्रधारे
व्यासोच्छ्रायैश्च भद्राणि सिंहकर्णैर्विभूषयेत् ।
यदन्यदस्य तत् सर्वं पद्मरागसमं भवेत् ॥ २२८ ॥
वज्रकोऽयं समाख्यातो विधेयस्त्रिपुरद्विषः ।
वज्रकः ॥
वज्रकस्यैव भद्रेषु पूर्ववद् रथिकास्थितौ ॥ २२९ ॥
षड्भागविस्तृतं तत्र शिखरं विनिवेशयेत् ।
सप्तभागसमुत्सेधं दिक्षु सर्वास्र्वयं विधिः ॥ २३० ॥
मुकुटोज्ज्वल इत्युक्तः प्रासादोऽयं सुरालयः ।
मुकुटोज्ज्वलः ॥
अस्यैव तु यदा स्थाने भद्रे भद्रे चतुर्दिशम् ॥ २३१ ॥
सिंहकर्णं परित्यज्य वर्धमानो विधीयते ।
ऊर्ध्वाभवत्तृतीयायाः( ? ) सप्तोच्छ्रायैषडायताः ॥ २३२ ॥
ऐरावतोऽयं कर्तव्यः प्रासादस्त्रिदशेशसँतिः( शितुः ) ।
ऐरावतः ॥
ऐरावतस्य संस्थाने प्रासादे पूर्ववत् स्थिते ॥ २३३ ॥
वर्धमानं विहायोर्ध्वं यदा सिंहो निवेश्यते ।
शिखराणि च चत्वारि दिक्षु सर्वासु वर्जयेत् ॥ २३४ ॥
क्षेत्राया( ष्टामे ? )र्विस्तारं गर्भवेश्म निवेशयेत् ।
चतुर्भागायतं भद्रं निर्गमेण विभाजितम् ॥ २३५ ॥
भद्रत्रयं प्रयुञ्जीत भित्तिभागेन वेष्टितम् ।
द्वारोच्छ्रयं स(ख)विस्ताराद् व( द्वा )रार्धेन समुच्छ्रयः ॥ २३६ ॥
गवाक्षस्तत्र कर्तव्यो यथा द्वारं न लङ्घ्यते ।
मध्ये चतुष्किका कार्या द्विभागायामविस्तृता ॥ २३७ ॥
प्रासादो राजहंसोऽयं ब्रह्मादीनां प्रशस्यते ।
राजहंसः ॥
१ द. स्तु । २ द. ऊर्ध्व भवस्तृ˚ । ३ द. यः । ४ द. ˚शालयः । ५ द. माष्ट वि । ६ द. निक्रम् ।
७ द. ˚च्छ्रायं सविस्तारा द्वा˚ । ८ द. ताः ।

रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३४३
राजहंसस्य संस्थाने तृतीये'(य)रथिकोपरि ॥ २३८ ॥
यदोर(स्य)शिखरं सप्तसमुच्छ्रायं षडायसम् ।
स्यात् तदा गरुडो नाम गरुडध्वजवल्लभः ॥ २३९ ॥
प्रासादः सर्व† ³ + + + + + कारयितुस्तथा ।
गरुडः ॥
अस्यैव मूलशिखरं त्यक्त्वा भागद्वयोन्मितम् ॥ २४० ॥
क्रियन्ते रथिकाः पू⁴(क)र्णे तदूर्ध्वं मूलमञ्जरी ।
क्रियते द्वादशोच्छ्राये⁵(या) दशभागायता यदा ॥ २४१ ॥
तदा स्याद् वृषभो नाम वृषभध्वजवल्लभः ।
वृषभैः ॥
स(श)तार्धहस्तविस्तारं ज्येष्ठं मेरुं प्रकल्पयेत् ॥ २४२ ॥
मध्यमे हस्तसंख्या स्यात् (षट्त्र्यं द्विकालाधिकः?) ।
दशत्रिगुणितां (हस्ताभ्यां?)संख्या प्रोक्ता कनीयसि ॥ २४३ ॥
चतुरश्रीकृते क्षेत्रे भागविंशवि¹²(ति)भाजिते ।
विस्तारार्धं भवेद् गर्भगृहं¹³(र्भगृहं)भित्त्या समन्वितम् ॥ २४४ ॥
भागप्रमितविस्तारा गर्भभित्तिर्विधीयते ।
सार्धद्विभागान्या भित्तिस्तदूर्ध्वान्धकारिका( : ? ) ॥ २४५ ॥
द्विभागा रथिका कार्या कर्णे¹⁴ कर्णे विजानता ।
चतुर्भागा रथा भद्रेष्वेतदर्धेन (वि?)निर्गताँ¹⁵ ॥ २४६ ॥
भद्रकर्णान्तयोः कार्या¹⁶ यदाष्टांश(यं¹⁷ तदष्टांशं)जलान्तरम् ।
भद्राणां रथिकाः कार्याः पार्श्वयोरुभयोस्तथा ॥ २४७ ॥
१ द. पुस्तके पाठः नास्ति । २ द. यदोरः शि° । ३ द. कामाप्त्यै कर्तुः । ४ द. पुस्तके नास्ति ।
५ द. पुस्तके 'ये' इति पाठः नास्ति । ६ द. प । ७ द. पुस्तके नास्ति । ८ द. पुस्तके नास्ति ।
९ द. षट्त्रिंशद्विकलाधिका । १० द. गुणिता हस्ता । ११ धनूरेखान्तर्गत 'हस्त' इति स्यात् । १२ द.
'वि' इति पाठः नास्ति । १३ द. गर्भं गृह । १४ द. र्याः । १५ द. विस्तृताः । १६ द. कार्यं
पादाष्टांशजं । १७ द. °का कार्या ।
† 'कामार्थः कर्तुः' इत्येवञ्जातीयं लुप्ताक्षरस्थाने निवेश्यम् ।

३४४ समराङ्गणसूत्रधारे
रथिकानां च सर्वासां स्वभद्रं विस्तारार्धतः ।
शृङ्गं भद्रं यथैकैकं तथा सर्वाणि कारयेत् ॥ २४८ ॥
दिक्सूत्रेषु (चं¹) सर्वेषु वर्धमानं निवेशयेत् ।
अष्टभागोच्छ्रिता जङ्घा खुरपिण्डं² तदर्धतः ॥ २४९ ॥
ये³(मे)खलान्तरपत्रे च स्यातां भागद्वयोद्गते⁴ ।
प्रथमा रथिकास्तत्र (सपादांशात्स्तू⁵ ?) त्रयोच्छ्रिताः ॥ २५० ॥
पदपादविहीनाः स्युः क्रमेणोपरि भूमयः ।
दिक्सूत्रेषु सकर्णेषु क्रिया प्राग्वद् विधीयते ॥ २५१ ॥
शिखरं दशविस्तारं भागैर्दू⁶(गद्वा)दशकोच्छ्रितम् ।
चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ॥ २५२ ॥
स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।
ग्रीवा च पद्मशीर्षं च तावँद्⁷ भागार्धमुच्छ्रयात् ॥ २५३ ॥
र्भागमामा(गं चाम⁸)लसारं स्यात् कलशो भागमेव च ।
सां⁹(श)तशृङ्गावृत्तो मेरुरयं¹⁰ प्रासाद ईरितः ॥ २५४ ॥
प्रदक्षिणीकृते तँस्या¹¹ तत्पुण्यं कनकाद्रिणा(?)
शैलेष्टकामये तन् स्यात् कृतेऽस्मिन्नधिकं ततः ॥ २५५ ॥
मेरुः ॥
नन्दिशालस्य संस्थाने तद्रूपे समवस्थिते ।
द्वितीयाँ¹² रथिका कार्या भागद्वयविनिर्गता¹³ ॥ २५६ ॥
शेषो भद्रस्य विस्तारः खविस्तीरोऽ(रा)र्धनिर्गतः¹⁴ ।
अष्टांशायामविस्तारः स्वै¹⁵विस्तारो(रा)र्धनिर्गतः ॥ २५७ ॥
अष्टांशायामविस्तारः(रा) शाला स्यात् पुरतः पुनः ।
तस्या मध्ये भवेद् गर्भो द्विभागायामविस्तरः¹⁶ ॥ २५८ ॥
१ द. पुस्तके नास्ति । २ द. ण्डस्तं । ३ द. प्रतौ नास्ति । ४ द ॰योन्विते । ५ द. सपादांशश्चं । ६ द. प्रतौ नास्ति । ७ द. भवेद् । ८ द. भागमामलसारस्य । ९ द. प्रतौ नास्ति ।
१० द. ॰ह्वयं । ११ द. नस्यायत्पुण्यं । १२ द. य । १३ द. ताः । १४ द. ॰स्तरोर्द्धं । १५ द. पुस्तके नास्ति । १६ द. स्तृतः ।

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः ३४५
गर्भभित्तिर्भवेच्चास्य भागेनैकेन निर्गता।
बाह्यभित्तिस्तथैव स्यात् तत्समा चान्धकारिका ॥ २६९ ॥
द्विभागौ रथिकास्तस्य सलिलान्तरभूषिताः ।
शेषो भद्रस्य विस्तारो भागेनैकेन निर्गमः ॥ २७० ॥
जङ्घोच्छेधं (चं) पीठं च विदध्यान्नन्दिसौर(शाल)वत् ।
रथिकास्तत्र कर्तव्याः कर्ण(र्णे) भागत्रयोच्छ्रिताः ॥ २७१ ॥
षडंशान् विस्तृतैः(तं) कुर्याच्छिखरं सप्तचो(र्मो)च्छ्रितम् ।
कार्या केसरिवच्चास्य रेखा सामलसारिका ॥ २७२ ॥
एभिर्गुणैर्युतं चैनं पार्श्वयोरपि योजयेत् ।
प्रासादोऽयं लताख्यः स्यात् कर्तव्यो दानवद्विषः ॥ २७३ ॥
लताख्यः ॥
अग्रेननं यदा पश्चान्न्यस्येतं सरिणं तथा ।
भवेत् त्रिपुष्क‌राख्योऽयं प्रासादस्त्रिदशालयः ॥ २७४ ॥
त्रिपुष्कराख्यः ॥
नन्दिशालस्य सर्वासु दिक्षुं(क्ष्व)यं केसरी यदा ।
स्यात् तदा पञ्चवक्त्रोऽसौ विधेयः पद्मजन्मनः ॥ २७५ ॥
पञ्चवक्त्रः ॥
यदा च पञ्चवक्त्रस्य मध्ये गर्भो(भौ) न दीयते ।
बाह्यलेखादिकं प्राग्वैद् दिक्षु सर्वासु कल्पते ॥ २७६ ॥
चतुःस्तम्भसमा कार्या मध्ये चास्य चतुष्किका ।
वितानं चोपरि न्यस्येन्मध्यनस्तस्य भूषणम् ॥ २७७ ॥
हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा ।
एते चतुर्मुखे स्थाप्या नापरेषां भवत्ययम् ॥ २७८ ॥
चतुर्मुखः ॥
१ द. ताः । २ द. काः । ३ द. ग । ४ द. पुस्तके 'च' इति पाठः अस्ति । ५ द. प्रतौ
नास्ति । ६ द. नास्ति । ७ द. नास्ति । ८ द. नास्ति । ९ द. क्तं । १० द. नास्ति । ११ द.
नास्ति । १२ द. नास्ति । १३ द. ग्वा । १४ द. ल्प्यते । १५ द. खाः ।
वा. ४४

३४६ समराङ्गणसूत्रधारे
चतुःषष्टिकरे कुर्यात् क्षेत्रे$^१$ मानैकविंशतिः ( ?) ।
सप्तवर्गपदो गर्भो भित्त्या सह विधीयते ॥ २६९ ॥
स्याद्$^२$ गर्भभित्तिर्भागेन भागेनैवान्धकारिका ।
षड्भागं कर्णविस्तारं दशधा प्रविभाजयेत् ॥ २७० ॥
षड्भिर्भागैर्भवेदस्य$^३$ गर्भो भित्त्या समन्वितः ।
बाह्या भित्तिर्भवेद् भागाद् भागैश्चैवान्धकारिकाौ$^४$ ॥ २७१ ॥
द्विभागं कर्णवैपुल्यमुदकान्तरभूषितम् ।
शेषो भद्रस्य विस्तारश्चतुर्थांशविनिर्गतः ॥ २७२ ॥
क्षोभयेदर्धभागे$^५$ तु तदर्धेन जलान्तरम् ।
मत्तवारणकैर्विद्याँत्$^६$ स्तम्भैरुपरि शोभिताः$^८$ ॥ २७३ ॥
रथिकैका त्रिभागेन पुनः सार्धद्विभागिका$^९$ ।
तासां परस्परक्षेपो भागो भागो विधीयते ॥ २७४ ॥
शेषं शिखरविस्तारः$^१$$^०$ सार्धषट्कं तदुच्छ्रयैः$^१$$^१$ ।
पृथक्सूत्रैस्त्रिगुणितैर्वेणुकोशं समालिखेत् ॥ २७५ ॥
स्कन्धकोशान्तरं भागैश्चतुर्भिस्तस्य भाजयेत्$^१$$^२$ ।
ग्रीवार्धभागमुत्सेधो भागेनामलसारकम् ॥ २७६ ॥
पद्मशीर्षस्तै$^१$$^३$(र्षं त)था भागं कलशो भागसंमितः ।
अर्धभागसमो(मुै$^१$$^४$)त्सेधं कारयेद् बीजपूरकम् ॥ २७७ ॥
सर्वकर्णेषु कर्तव्याः$^१$$^५$ क्रियाश्चैवं विचक्षणैः ।
दिक्‌सूत्रबाह्यभागेषु वलभी$^१$$^६$ संनिवेशयेत् ॥ २७८ ॥
निर्गमे पञ्चभागः स्यात् तिर्यक् प्रैक्षिप्तभागिकाः ( ?) ।
अस्यां$^१$$^८$ द्विभागिको गर्भो मंध्ये$^१$$^९$ भागत्रयोच्छ्रितः ॥ २७९ ॥
१ द. क्षेत्रांशानेकविंशति । २ द. भा । ३ द. ष्ध । ४ द. गा । ५ द. काः । ६ द. गं ।
७ द. ॰वैद्या । ८ द. नः (तः) । ९ द. काः । १० द. र । ११ द. या । १२ द. व । १३ द. प्रतौ
नास्ति । १४ द. नास्ति । १५ द. ॰व्या क्रिया सैवं । १६ द. भां । १७ द. स्यात्सप्तभागिकः ।
१८ द. स्य । १९ द. मध्यभागत्रयायतः ।

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३४७
भागार्ध॑भागं भित्तिः स्यात् तत्समा चान्धकारिका ।
तस्याश्चाग्रे विधातव्यः(?) षड्दारुकसमन्वितम् ॥ २८० ॥
एकैकां रथिकां सार्धभागां कर्णेषु योजयेत् ।
शेषं भद्रस्य विस्तारो भागः स्यादस्यै निर्गमः ॥ २८१ ॥
एवं भद्रं विँ(द्वि)भागं स्यात् स्तम्भद्वयसमन्वितम् ।
वैलभावर्तयोर्मध्ये भागमेकं च विस्तृतम् ॥ २८२ ॥
तँत्रोदकान्तरं कुर्याद् गुणद्वारविभूषितम् ।
नवभागोच्छ्रिता जङ्घा पीठमस्य तदर्धतः ॥ २८३ ॥
मेखलान्तरपत्रे च कुर्याद् भागद्वयोन्मिते ।
रथिका स्याद् द्विभागा च ततः सार्धैकभागिका ॥ २८४ ॥
शेषं शिखरविस्तारः पञ्चांशं शिखरोच्छ्रयः ।
उपर्युपरि कर्तव्यं सर्वतोभद्रकद्वयम् ॥ २८५ ॥
द्वे द्वे च सर्वतोभद्रे कर्णे कर्णे निवेशयेत् ।
दिक्सूत्रेषु समस्तेषु क्रियामेवं प्रकल्पयेत् ॥ २८६ ॥
विस्तार शिखरस्याष्टौ भागांस्तस्यार्धसमुच्छ्रयः(?) ।
पञ्चव्यासेन सूत्रेण +++++++॥ २८७ ॥
वेणुकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।
ग्रीवां च पद्मशीर्षं च भागेन स्यादिदं द्वयम् ॥ २८८ ॥
प्रत्येकं भागिकौ कार्यों कलशामलसारकौ ।
तैँ(न)वात्मकोऽयं कथितः प्रासादस्त्रिदशालयः ॥ २८९ ॥
नवात्मकः ॥
१ द. °र्द्ध भागभित्तिः । २ द. ‘तस्याश्चाग्रं विधातव्यम्’ इति स्यात् । द. पुस्तके ‘तस्य वाग्रं विधातव्यः षद्दारक°’ । ३ द. र्द्ध । ४ द. पुस्तके नास्ति । ५ द. व्यललीकर्णयोर्मध्ये । ६ द. तं° ।
७ द. ज्ज । ८ ‘विस्तारः शिखरस्याष्टौ भागः सार्धे समुच्छ्रयः’ इति स्यान् । ९ द. भागान् सार्धान् सं° । १० द. ‘वेणुकोशं समालिखेत्’ इति चतुर्थपादः स्यान् । द. वेणुकोशं समालिखेन् ॥ ११ द. स्कंध ।
१२ द. वां । १३ द. क । १४ द. पुस्तके नास्ति ।

३४८ समराङ्गणसूत्रधार
विन्यसेद् दिं(दी)शमैशान्यामाग्रेय्यां पुरुषोत्तमम् ।
ब्रह्माणं वायुदिग्भागे नैर्ऋते चं दिवाकरम् ॥ २९० ॥
मध्यगभें शिवः स्थाप्यः प्राच्यामपि पुरन्दरः ।
धर्मोयैमां(याम्यां) प्रतीच्यां च वरुणः सोम उत्तरे ॥ २९१ ॥
(भक्ताठा ?) शक्तिसम्पन्नः पूर्वायतनसन्निधौ ।
प्रासादं कारयेद् यत्नात् तदाद्यं नैव पीडयेत् ॥ २९२ ॥
उत्कृष्टमपंकृष्टं वा यत्र स्थाने निवेशयेत् ।
प्रासादं तत्र कर्माणि यानि तान्यभिदध्महे ॥ २९३ ॥
सम्मुखं नैव कुर्वीत हीनं वा यदि वाधिकम् ।
वेदभागास्तं तव सश्चितस्तंस्या स्यात्प्रासादोऽतिविगर्हितः(?)॥२९४॥
अन्योन्यं दक्षिणे वेधो हीन इत्यभिधीयते ।
वेधभागामृते ( ? )मृत्युं हीने हानिं विनिर्दिशेत् ॥ २९५ ॥
हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा ।
एते देवाः समाख्याताः परस्परविरोधिनः ॥ २९६ ॥
एता न दक्षिणापार्श्वे स्थापयेत् पुरमाश्रितान् (?)।
वामतो नान्यदेवानां ना(स्ति ?)पि हीनालयेषु च ॥ २९७ ॥
नैतेषां दक्षिणे कुर्यादन्येषामपि चालयम् ।
हीनं वा यदि वाहीनं यदिच्छेच्छ्रिय आत्मनः ॥ २९८ ॥
तेषामुत्तरतो नू(ही)नं यदि(दी)च्छेद् देवातालयम् ।
प्रासादपदमानेन नवषट्त्रिंशदा(द)न्तरे ॥ २९९ ॥
प्रासादं कारयेदन्यं मर्मवेधविवर्जितान् (तम्) ।
पुरतः पृष्ठतो वापि पार्श्वयोरुभयोरपि ॥ ३०० ॥
१ द. नास्ति । २ द. मी । ३ द. वा । ४ द. रं । ५ द. पाच्यां । ६ द. अतःपरं नवात्मकः
इति पुस्तकस्य पाठः । ७ द. भक्तीच्छाशक्तिसंपन्न पू० । ८ द. यां । ९ द. व । १० द. वेधभागाश्रित-
स्तस्याप्रा० । ११ द. ०गा सृते नृत्यं ।

रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३४९
महामर्माणि चत्वारि कुर्याद् यैत्ताद्यतोत्तरे (?)।
क्षणमध्येषु सर्वेषु द्रव्यमेकं न दापयेत् ॥ ३०१ ॥
तदा युग्म + + + + वेधमर्म विवर्जयेत् ।
क्षणमध्ये यदा द्रव्यमेकं मोहात् प्रदीयते ॥ ३०२ ॥
कर्तृकारकयोः पीडा भवेत् पूजा न तादृशी ।
तस्मात् सर्वप्रयत्नेन स्थपतिः कारकोऽपि च ॥ ३०३ ॥
मर्माणि वर्जयेद् यत्नात् प्रासादस्य समीपतः ।
अथ मर्मवियुक्तो(क्तं) यः प्रासादं कर्तुमिच्छति ॥ ३०४ ॥
प्रासादतः सदा तेन विधेयं महदन्तरम् ।
(प्रासादां तूत्तरं क्वः) कार्यं फलपुष्पैर्विभूषितम् ॥ ३०५ ॥
य एतैर्लक्षणैर्युक्तं कारयेद् देवतालयम् ।
धनधान्यमवाप्नोति मोदते सुखमेव च ॥ ३०६ ॥
हरो हिरण्यगर्भश्च हरिर्दिनकरोऽपि च ।
एते देवाः समाख्याता देवनामपि पूजिताः ॥ ३०७ ॥
पृथक्त्वेन च कर्तव्या एकरूपसमन्विताः ।
अष्टबाहुश्चतुर्वक्त्रः कुण्डली मुकुटोज्ज्वलः ॥ ३०८ ॥
हारकेयूरसंयुक्तो रत्नमालोपशोभितः ।
ऋष्यागतपुरः कार्यः पद्महस्तो दिवाकरः ॥ ३०९ ॥
शङ्खचक्रधरो देवो वामे च मधुसूदनः ।
कण्ठाभरणसंयुक्तो मूर्धा च मुकुटोज्ज्वलः ॥ ३१० ॥
ब्रह्मा पश्चिमत्तः कार्यो बृहज्जठरमण्डलः ।
कुण्डिकामक्षसूत्रं च दधत् कूर्चविभूषितः ॥ ३११ ॥
प्रासादा रुचकादयोऽत्र ललिताः प्राग् विंशतिः पञ्चयुक्
तावन्तश्च ततोऽनु केसरिमुखाः( स )न्धारकाः कीर्तिताः ।
१ 'यत्नाद्यथोत्तरम्' इति स्यात् ।

३५२ समराङ्गणसूत्रधारे

उभयोरन्तरं कार्यं विस्तारात् पञ्चभागिकम् ।
अन्तरालं च कुर्वीत शृङ्गं तत्तं¹ चतुष्पदम् ॥ २१ ॥
विभागस्तादृशोऽस्य स्याद्² बाह्यशृङ्गस्य याहशः ।
भित्तिकन्दान्तराले च कार्यं षड्दारुकं बुधैः ॥ २२ ॥
इँ³तिकातोरणयुतं चतुर्दिक्षु मनोरमम् ।
पुरतो मण्डपं कुर्यात् सर्वलक्षणसंयुतम् ॥ २३ ॥
भागैः पञ्चाशता कुर्यादस्य मानमिहोर्ध्वगम् ।
एषां मध्ये सँ⁴विंशत्या प्रविधेयास्तुलोदयाः ॥ २४ ॥
तेषां मध्ये⁵ऽशकैः षड्भिर्वेदीबन्धो विधीयते ।
नवधा भाजिते तत्र वेदीबन्धे समैः पदैः ॥ २५ ॥
कुम्भश्चतुष्पदस्तत्र द्विपदस्तु मसूरकैः ।
भागेनान्तरपत्रं स्यान्मेखला द्विपदाः स्मृताः ॥ २६ ॥
मूलभागास्तु ये तैः स्याज्जङ्घा दशभिरुच्छ्रिताः ।
द्विपदा मेखला प्रोक्ता द्वयंशे चान्तरपत्रके ॥ २७ ॥
अधस्तादूर्ध्वपक्षं(ष्ट)स्य तलपट्टस्य चोपरि ।
षोडशांशाँ⁷ विधान्वर्यास्तत्रैतत् कर्म वो⁸र्चयेत् (?) ॥ २८ ॥
भागेन रूपधारा स्यात्⁹ सार्धा सार्धा च सेनकम्¹⁰ (?) ।
वेदी भागत्रयोत्सेधो +¹¹ द्वेनासनपट्टकः ॥ २९ ॥
सोर्ध्व¹²(सार्ध)भागेन कर्तव्यमूँ¹³र्ध्वचन्द्रावलोकनम् ।
आसनस्योर्ध्वतः स्तम्भाः सार्धपञ्चपदाः स्मृताः ॥ ३० ॥
भागेनोच्छौँ¹⁴लकं कार्यं शीष¹⁵(शीर्ष¹⁶) सार्धपदोन्नतम् ।
पट्टः स्याद् द्विपँ¹⁷दोत्सेधस्त्रिपदश्छाद्यविस्तरः ॥ ३१ ॥
लँ¹⁸म्बनं तु तदर्धेन यथाशोभमथापि वा ।
ऊँ¹⁹र्ध्वनान्तरः(र्ध्वेनान्तर)पत्रस्य कस्य(ल्प्य)तेऽप्ययथाक्रमम् ॥

१ द. नु । २ द. र । ३ द. इलिका तोरणैः युक्तं । ४ द. ऽथ । ५ द. काः । ६ द. पुस्तके
नास्ति । ७ द. ᵒशो । ८ द. व्यो । ९ द. चा । १० द. त्यात्साद्धर्शाद्राजसेनकं । ११ द. धं सार्दैना ? ।
१२ द. प्रतौ नास्ति । १३ द. र्ध्वं । १४ द. त्का । १५ द. प्रतौ नास्ति । १६ द. टः । १७ द.
विधी । १८ द. लवणं । १९ द. ऊर्ध्वमन्तरपत्रस्य कथ्यतेऽथ यथागमम् पुस्तकस्य पाठः ।

मेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ३५३
कोणेषु कूटः कर्तव्यो विविधैः कर्मसम्भ्रमैः ।
विस्तारः स्याच्चतुर्भागस्तेषां षड्भाग उच्छ्रयः ॥ ३३ ॥
कर्णा घण्टासमायुक्ताः कूटमानं विधीयते ।
^४तत्र मृत्युक्रमात्(?)कुर्यादेकैकं च तदूर्ध्वतः ॥ ३४ ॥
तेषां च तुल्यता कार्या विस्तारादुच्छ्रयादपि ।
चत्वार एककर्णे स्युरेवं सर्वेषु षोडश ॥ ३५ ॥
सिंहकर्णस्य विस्तारो(र)^८मानं स्यादष्टभागिकम् ।
^६षड्भागस्तु तथोत्सेधो रथिकैश्च विभूषणम् ॥ ३६ ॥
गुणद्वा(ता)^७र्समायुक्तः शूरसेनाभिधानकः ।
सिंहकर्णो विधातव्यः सर्वकर्मसमाकुलः ॥ ३७ ॥
सिंहकर्णोदयादूर्ध्वमुरोमञ्जरिका भवेत् ।
^१०विस्तारादष्टभागासावुच्छ्रायन(यान्न)वभागिका ॥ ३८ ॥
लतापत्रकसंयुक्ता मञ्जरी स्यात् सुशोभितां^११ ।
ग्रीवा पादोनभागा स्यादाण्डकं भागमुच्छ्रितम् ॥ ३९ ॥
^१२चन्द्रिका सार्धभागेन कलशश्चैव भागिकः ।
कूटमूर्ध्वे^१३(र्ध्नि) द्वितीया स्यादुरोमञ्जरिका तथा ॥ ४० ॥^१४
(^१५भागात्तद्वादशविस्तीर्णा तु सार्धा न त्रिदशावाच्छ्रिता?) ।
भागमेकं भवेद् ग्रीवा सार्धभागेन चाण्डकम् ॥ ४१ ॥
^१७कर्पूरं(?) चार्धभागेन कलशश्च द्विभागिकः ।
उरःशिखरकान्य(र्ण्ये)^१८ष्टौ भवन्त्येवं चतुर्द^२०(र्दि)शम् ॥ ४२ ॥
द्वितीयकूटकस्योर्ध्वे कर्तव्या मूलमञ्जरी ।
^२१भागषोडशविस्तारा पादाष्टादशकोदयः(या) ॥ ४३ ॥
१ द. रं । २ द. र्ण । ३ द. कं । ४ द. तत्र दृक् प्रक्रमात् कुं° । ५ द. रं । ६ द. तद्भागश्च
तथोत्सेधा रथकैकश्च । ७ द. पु. नास्ति । ८ द. रः । ९ द. णै । १० द. विस्तरो दृष्टभागं स्यादुच्छ्रय-
नवभागिकाः ॥ पुस्तकस्य पाठः । ११ द. ताः । १२ द. चंडिका । १३ द. प्रतौ नास्ति । १४ द.
यः । १५ द. भागान् द्वादशविस्तीर्णान् सार्धां त्रिदशोच्च्छ्रितान् ॥ पुस्तकस्य पाठः । १६ 'भागद्वादश-
विस्तीर्णा सार्धोनत्रिंशतोच्छ्रिता' इति स्यान् । १७ द. चंडिकं । १८ द. कर्पूरं चात्र भागेन । १८ द.
पुस्तके नास्ति । २० द. प्रतौ नास्ति । २१ द. गं । २२ द. पराष्टादशकोटे यः ।
वा. ४५

३३४ समराङ्गणसूत्रधारे
स्कन्धमानं हि सर्वेषां यथोक्तं शतवास्तुनि ।
ग्रीवा सार्धपदांशा स्यादण्डकं द्विपदान्वितम् ॥ ४४ ॥
कङ्कतीफलतुल्यानि कुर्यात् सर्वाण्डकानि च ।
द्विपदं² च(म)पिण्डिकायुग्मं कार्यं सामलसारकम् ॥ ४५ ॥
तस्योपरि स्यात् कलशो वर्तुलस्त्रिपदोच्छ्रितः ।
तोरणैर्मकरैः पत्रैः साग्रैश्च³ सव(म)रालकैः ॥ ४६ ॥
हस्तिमण्डैः⁴ समाकीर्णमर्धै(प्स)रोगणभूषितम् ।
ईदृशं श्रीधरं कुर्यात् सर्वालङ्कारभूषितम् ॥ ४७ ॥
श्रीधरं कारयेद् यस्तु किञ्चिदर्थमपि मानवः ।
इहैव लभते⁶(वसत:?) सौख्यममुत्रेन्द्रत्वमाप्नुयात् ॥ ४८ ॥
भोगान् भुक्त्वा पुमान् स्वर्गं⁸ नीयते⁹ च परे पदे ।
सर्वपापविनिर्मुक्तः शान्तश्च स्यान्न संशयः ॥ ४९ ॥
श्रीधरः ॥
हेमकूटमथ ब्रूमः शुभलक्षणसंयुतम् ।
सर्वविद्याधरस्थानमाश्रयः स पिनाकिनः ॥ ५० ॥
चतुरश्रीकृते क्षेत्रे षड्विंशत्यंशभाजिते ।
तत्र स्युः षट्पदाः कर्णाः शाला द्वादशभागिकाः ॥ ५१ ॥
निर्गताश्च त्रिभिर्भागैर्भवन्त्येताश्चतुर्दिशम् ।
अष्टभागायतो¹² भूयो निर्गमश्च¹³ त्रिभिः पदैः ॥ ५२ ॥
चतुःस्तम्भाश्चतुष्पार्श्व¹⁴(र्श्वा) दिक्षु सर्वास्र्वयं विधिः ।
कर्णशालान्तरं कार्यं पदेनैकेन¹⁵ विस्तृतम् ॥ ५३ ॥
प्रविष्टं तत् पदेनैकं¹⁶ तदेवात्र जलान्तरम् ।
पदेन कर्णे कोणः स्यात् प्रत्यङ्गे पदविस्तृते ॥ ५४ ॥
१ द. द । २ द. तीयं च । ३ द. ग्रासैश्च स वं । ४ द. तु । ५ द. प्रतौ पाठः नास्ति ।
६-७ द. प्रतौ नास्ति । ८ द. स्व । ९ द. र्गे । १० द. शांतः स्यान्नात्र संशयः । ११ द. पता ।
१२ द. तो । १३ द. ता । १४ द. ष्पाश्च । १५ द. भागे । १६ द. व ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३५५
निर्गते चार्धभागेन सममाने मनोरमे ।
द्विपदा रथिका भद्रे निर्गतार्धपदेन सा ॥ ५५ ॥
चतुष्कं( ष्क )र्णेषु कर्तव्यं ( मानमेवमेवंघुतु ?) धीमता ।
बाह्यभित्तेस्तु विस्तारस्त्रिपदः परिकीर्तितः ॥ ५६ ॥³
चतुःषष्टिपदो गर्भस्तद्द्भित्तिस्त्रिपदा भवेत् ।
त्रिपदं कर्णमानं स्याद् वारिमार्गेण संयुतम् ॥ ५७ ॥
पदार्धं वारिमार्गः स्यात् पदमस्य प्रवेशकः ।
शालाष्टपदविस्तीर्णा भागार्धेन विनिर्गता ॥ ५८ ॥
चतुर्भागायतौ भद्रं पुनर्भागार्धनिर्गतम् ।
तलन्यासौ(सो) हेमकूटे विभक्तपदनिश्चयात् ॥ ५९ ॥
⁶अस्याग्रे मण्डपं कुर्यान्महान्तं गुणपूजितम् ।
ऊर्ध्वं (तु) हेमकूटस्य द्विगुणं स्यात् कलाधिकम् ॥ ६० ॥
अधस्तादासनं तस्य सप्तभागसमुच्छ्रितम् ।
भागेनैकेन खुरके७ न मध्ये पूर्वमानयोः८ ॥ ६१ ॥
अत ऊर्ध्वं पुनर्व्रूमः पादमानमनुक्रमात् ।
सप्तभागोन्नतं कुर्याद् वेदीबन्धे(न्धं)९ सुशोभनम् ॥ ६२ ॥
तस्यार्धं कुम्भकं१०स्यार्ध( ?) भागेन कलशोन्नतिः ।
११पदार्धेनान्तरं पत्रं यथाशोभं विधीयते ॥ ६३ ॥
सार्धं पदं पुनः प्रोक्ता कपोताली सुशोभना ।
दशभागोच्छ्रिता जङ्घा कर्तव्यातिसुलक्षणा ॥ ६४ ॥
अस्योपरि विधातव्यं भरणै१२(णं) द्विपदोच्छ्रितम् ।
मेखलान्तरपत्रे तु विधीयेते पदत्रये ॥ ६५ ॥
अधस्तान्मेखलायास्तु खुरकस्य तथोपरि ।
एकोनविंशतिं भागानन्तरं संप्रचक्षते१३ ॥ ६६ ॥
१ द. पुस्तके नास्ति । २ द. मानमेवं तु धी० । 'मानमेवं तु' इति स्यात् मुद्रिते पुस्तकेऽपि
अयमेव पाठांतरः स्वीकृतः । ३ द. तस्याश्चान्तरः कार्यों भ्रमणी त्रिपदायता । चतुर्दशपदः कंद्रो विस्तरेण
प्रकीर्तितः ॥ पाठः । ४ द. तं । ५ द. प्रतौ नास्ति । ६ द. अथास्य । ७ द. को । ८ द. या ।
९ द. प्रतौ नास्ति । १० द. कः सार्धं । ११ द. पा । १२ द. णैर्द्वि० । १३ द. क्ष्यते ।

३५६ समराङ्गणसूत्रधारे।
कर्मप्रमाणमेतस्य पृथङ् मध्येऽभिधीयते ।
द्विपदं (रोजासेनं स्याद्वेदा + + चतुष्पदा (?) ॥ ६७ ॥
भवत्यासनपट्टस्य कल्पना भागमानतः ।
सार्धं भागद्वयं कार्यमूर्ध्वं चन्द्रावलोकनम् ॥ ६८ ॥
स्तम्भानासनपट्टार्धेन युञ्ज्यादष्टभागिकान् (?) ।
भरणस्तम्भशीर्षे च प्रत्येकं पदके स्मृते ॥ ६९ ॥
द्विपदश्चार्धपट्टः स्याच्छाद्यैकेन सुशोभितः ।
त्रिपदं छाद्यकं तत्र विस्तारेण प्रकीर्तितम् ॥ ७० ॥
एतन्मानं समाख्यातमलिन्देषु चतुर्दिशम् ।
ऊर्ध्वमन्तरपत्रस्य कथयामो यथाक्रमम् ॥ ७१ ॥
षट्पदे कर्णविस्ताराँ(रे) सप्तांशा कर्णमञ्जरी ।
ग्रीवामर्धपदं कुर्यात् पदमेकं तथाण्डकम् ॥ ७२ ॥
अर्धांशा चन्द्रिका च स्यादेकांशः कलशोच्छ्रयः ।
अँस्योरोमञ्जरी कार्या विस्तारेण चतुष्पदा ॥ ७३ ॥
ग्रीवाण्डके११ विधातव्यं(व्ये) भागेनार्धेन कुम्भकः ।
सिंहकर्णस्तु कर्तव्यो द्विपदोऽस्यैव मध्यतः ॥ ७४ ॥
इत्थं पञ्चाण्डकाः कर्णे हेमकूटेषु कीर्तिताः ।
अष्टांशविस्तृतं कुर्यादुदयेन च षट्पदम् ॥ ७५ ॥
अलिन्दस्योर्ध्वभागस्तं(स्थं) सिंहकर्णं मनोरमम् ।
सिंहकर्णे द्विभागस्थो(स्थां) द्वादशांशकविस्तृतै(ताम्) ॥ ७६ ॥
उरोमञ्जरिकां कुर्यात् त्रयोदशपदोच्छ्रिताम् ।
सप्तांशविस्तृतः स्कन्धो ग्रीवा च पदमुच्छ्रिता ॥ ७७ ॥
१ द. वि । २ द. राजसेनं स्यात् वेदी तस्य चतुष्पदा ॥ मुद्रित पुस्तके पाठांतरः तु 'राजासनं स्याद्
वेदी चास्य चतुष्पदा ' इति स्यात् । ३ द. ᵒसनगाशर्वे नियूᵒ । ४ द. दि । ५ द. य । ६ द. य ।
७ द. प्रतौ नास्ति । ८ द. अर्द्धा स्याच्चंᵒ । ९ द. श । १० अस्येरो मंजरी ? ११ द. ᵒकं । १२ द.
ᵒर्णाेऽस्य । १३ द. प्रकीᵒ । १४ द. नास्ति । १५ द. ᵒणे । १६ द. ᵒद्वे । १७-१८ द. प्रतौ नास्ति ।
१९ द. ताः ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३५७
अण्डकं सार्धभागेन चन्द्रिकार्धपदा स्मृता॑ ।
आकाशलिङ्गं कुर्वीत द्विपदं सुमनोरमम् ॥ ७८ ॥
विस्तारो मूलमञ्जर्या भागविंशतिसंमितः ।
उच्छ्रायोऽस्यैकविंशत्या स्कन्धो द्वादशभागिकः ॥ ७९ ॥
पञ्चभौमैस्तु कर्तव्यो यथा चारुः स जायते ।
प्रथमा भूमिका तत्र पञ्चभागा विधीयते ॥ ८० ॥
परा परार्धभागेन न्यूना न्यूना विधीयते ।
स्कन्धमानं विधातव्यं पदेनैकेन चोन्नतम् ॥ ८१ ॥
विभज्य दशधा कुर्याल्लताः पश्चातिसुन्दरीः४।
हेमकूटस्य कर्णेषु प्रत्यङ्गे नरकिन्नराः ॥ ८२ ॥
मै(अ)न्ये तिलककूटाश्च कर्तव्यास्तु निरन्तराः ।
ईदृशी मञ्जरीहै(है)मे विधेया कूटनिर्गता( : ?)७ ॥ ८३ ॥
ग्रीवा सार्धपदा प्रोक्तो८ (क्ता) विस्तारादष्टभागिका( : ?)९ ।
अण्डकं द्विपदोत्सेधमेकादशपदायतम् ॥ ८४ ॥
द॑ण्डिका सार्धभागो वै (चा) विस्तारा १२न(न्न)वभागिका ।
त्रिपदः कलशः कार्यों विस्तारेणोच्छ्रयेण च ॥ ८५ ॥
एवंविधं विधत्ते यो हेमकूटं मनोरमम् ।
स क्रीडति पुमान् स्वर्गे यावत् क्रीडा पिनाकिनः ॥ ८६ ॥
हेमकूटः ॥
सुभद्राख्यमथ ब्रूमः प्रासादं भद्रभद्रकम् ।
सुभद्रोऽयमतः प्रोक्तो भद्रे१३ भद्रे यतोऽन्वितः ॥ ८७ ॥
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ।
गर्भः षोडशभिर्भागैः स्क(क)न्दः षट्पदविस्तृतः ॥ ८८ ॥
१ द. ताः । २ द. भू० । ३ द. रु । ४ द. री । ५ द. मध्यैतिं । ६ द. प्रतौ नास्ति ।
७ द. ताः । ८ द. प्रतौ नास्ति । ९ द. काः । १० द. चंद्रिका । ११ द. प्रतौ नास्ति । १२ द. °रा
न विभा° । १३ द. भद्रै र्भद्रैर्य° ।