समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
३१६ समराङ्गणसूत्रधारे
यस्य यत्रोचितं स्थानं तत् तत्र विनिवेशयेत् ।
निर्मितौ^१ वलभेस्तिर्यक् सूत्रं कुर्वीत सप्तधा ॥ १०२ ॥
पञ्चभागांश्च मुखतस्तेनैवांशेन कल्पयेत् ।
मेखलान्तरपत्रे च जम्भाकुम्भकमेव च ॥ १०३ ॥
पञ्चभागोच्छ्रितं कुर्यात् तद्वच्छिखरमुच्छ्रितम् ।
कीर्तितानि विमानानि यान्येव सुरवर्त्मनि ॥ १०४ ॥
तान्येव स्थावरत्वेन प्रासादा इति विश्रुताः ।
महेश्वरस्य कैलासो विष्णोस्तु^३ गरुडाभिधः ॥ १०५ ॥
कार्यः प्रजापतेः पद्मो गणनांथस्य च द्विपः ।
न खल्वेतेऽन्यदेवानां विधातुमुचिताः स्मृताः ॥ १०६ ॥
यस्तु त्रिविष्टपः स स्यात् सर्वदेवनिकेतनः ।
अस्मात् तु येऽन्ये प्रासादाः स्मृतास्तेऽनेकरूपिणः ॥ १०७ ॥
सर्वेषामेव देवानामभेदेन भवन्ति ते ।
जगत्यां^४ विस्तारः कार्यः प्रासादोच्छ्रयसंमितः ॥ १०८ ॥
गर्भाधैनोच्छ्रयस्तस्याः^५ शुभदः परिकीर्तितः ।
मण्डपस्य षडंशाधो( ? ) पञ्चमांशार्दथ^६ स्मृतः ॥ १०९ ॥
कर्णप्रासादकाः कार्याः प्रासादस्य त्रिभागतः ।
पूर्वापरमुखाः कार्या एते^८ याम्योत्तराननाः ॥ ११० ॥
ऐन्द्रे याम्ये वारुणे च कौबेरे च यथाक्रमम् ।
दिग्भागेषु चतुर्ष्वेषां वलभीं ^१०विनिवेशयेत् ॥ १११ ॥
गर्भविस्तारविस्तीर्णौ द्वौ त्रिभागौ मुखायतम् ।
इति बाह्यपरीवारे जङ्घा प्रासादमानतः ॥ ११२ ॥
तीर्थायतमारोप्य सूत्रं गर्भेण मण्डपे ।
(गुरुपक्षोऽर्थे ? ) कर्तव्या गवाक्षस्तम्भसंयुताः ॥ ११३ ॥
१ द. निष्पत्त्यैव लभेति° । २ द. जंघा । ३ द. श्व । ४ द. जगत्या विस्तृतः । ५ द. °स्य ।
६ द. °शाद्वा । ७ द. व । ८ द. नैते । ९ द. र्थे । १० द. च । ११ द. वास्य° । १२ द. °क्षाप्र° ।
मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१७
प्रासादविस्तरात् कार्यो द्विगुणो मण्डपः सदा ।
मण्डपस्यस्(स्व)विस्तारा(द)ज्जगती द्विगुणा बहिः ॥ ११४॥
कर्णप्रासादकाः कार्याः प्रासादस्यार्धतोऽपि वा ।
तेषामध्यर्धतः कुर्याद् वलभीनां निवेशनम् ॥ ११५॥
अनेन क्रमयोगेन बाह्याद् बाह्यं सुसंवृतम् ।
यदा(था) हि शोभते राजा केयूराङ्गदकुण्डलैः ॥ ११६॥
तथा प्रासादराजोऽयं शोभते भूषणैर्निजैः ।
ध्वास्याँहॉस्यातिसौम्यस्य(?) श्रीकीर्तिविजयावहः ॥ ११७॥
अनेन विधिना न्यस्तः प्रासादः स्यात् सदा नृणाम् ।
आदित्यं पूर्वतो न्यस्येत् कुमारं पूर्वदक्षिणे ॥ ११८ ॥
दक्षिणे मातृदेवै(वाँ)स्तु गजास्यं दक्षिणोपरि ।
विन्यसेद् वारुणे गौरीं वायव्येऽपि च चण्डिकाम् ॥ ११९॥
विष्णुं कुबेरदिग्भागे तथैशान्यं महेश्वरम् ।
अन्येषामपि देवानां कथ्यते तु क्रमोऽधुना ॥ १२० ॥
तत्रैशान्यं दिशि न्यस्येदीशामं लोकनायकम् ।
दानवानां निहन्तारं पूर्वस्यामपि वासवम् ॥ १२१ ॥
वैश्वानरं तथाग्नेय्यां धर्मराजं च दक्षिणे ।
नैरृत्यां निर्ऋतिं न्यस्येत् प्रतीच्यां तु प्रचेतसम् ॥ १२२ ॥
वायुं वायव्यदिग्भागे कुवेरमपि चोत्तरे ।
अष्टौ ह्येते महात्मानो लोकपालाः प्रकीर्तिताः ॥ १२३॥
पालयन्ति जगत् सर्वं स्वस्वस्थाने प्रतिष्ठिताः ।
पुर(कर्कट ? कर्वट)दुर्गेषु ग्रामेषु नगरेषु च ॥ १२४॥
क्रमेणानेन विन्यस्ताः स्युः प्रजानां सुखावहाः ।
न यत्र देवताबाधस्तत्र द्वारं प्रकल्पयेत् ॥ १२५ ॥
१ द. तु । २ द. ज्ज । ३ द. ᵒका कार्या । ४ द. ध्वजाक्रश्वातिसौम्यश्च श्रीकीर्त्तिर्विᵒ । ५ द. वी ।
६ द. ᵒणापरे । ७ द. री । ८ द. भवे । ९ द. ईशान्यं दिशि विᵒ । १० द. ᵒन्तु । ११ द. कर्वर्ᵒ ।
३१८ समराङ्गणसूत्रधारे
प्रासादस्यानुसारेण भवेद् द्वारं शुभावहम् ।
अथातः प्रोच्यते सम्यग् द्वारमानमनुक्रमात् ॥ १२६ ॥
ज्येष्ठमध्यकनिष्ठानां द्रव्यं² स्तम्भानुसङ्गतम् ।
एकहस्ते भवेद् द्वारं प्रासादे षोडशाङ्गुलम् ॥ १२७ ॥
द्विकरे द्विगुणं तत् स्यात् त्रिकरे द्विकरं शुभम् ।
चतुष्करे चतुःषष्टिरङ्गुलानि प्रशस्यते ॥ १२८ ॥
अत ऊर्ध्वं प्रतिकरं त्र्यङ्गुला वृद्धिरिष्यते ।
द्वारोदयकरैस्तुल्यान्यङ्गुलानि नियोजयेत् ॥ १२९ ॥
( पोह्यांजयन्यान्यार्ध ? ) ध्रुवके चतुर( र ? )ङ्गुले ।
विस्तारो द्विगुणस्तस्य स्तम्भपिण्डं स एव हि ॥ १३० ॥
एकद्वित्रिचतुष्पञ्चषट्सप्तककरावधिं⁵ ।
द्वारविस्तारभागेन स्तम्भः सम्यग् विधीयते ॥ १३१ ॥
चतुर्भागेन कर्तव्या सीमास्तम्भः प्रमाणतः( ? ) ।
तथा स्तम्भस्य बाहुल्याच्चतुर्भागविभागविनाँ ( ? ) ॥ १३२ ॥
+⁸ भागौ तत्र कर्तव्यौ हीरग्रहणमुच्छ्रितम् ।
भागत्रयेण कर्तव्यः पट्टस्य च समुच्छ्रयः ॥ १३३ ॥¹⁰
भागेनैकैन नीश्यानव्यविस्तारं भत्रिभागरुद्यकिम् ( ? ) ।
पट्टहस्ते विधातव्यमङ्गुलद्वयनिर्गमम् ॥ १३४ ॥
+¹² ऽ + + + + स्तारः स्तम्भतुल्यः प्रशस्यते ।
एकैकमङ्गुलं ( लौं ? )पट्टपार्श्वयोरधिकस्ततः ॥ १३५ ॥
पट्टै¹⁴दस्य विस्तारः( ? )कार्यश्चतुर्भागविभाजितैः ।
भागेनैकैन चोत्सेधस्तुलाधारणमिष्यते ॥ १३६ ॥
१ द. मुपक्रं । २ द. व्य । ३ द. पेया बाह्त्य सेन्यर्थ धुं । ४ द. ण्ड । ५ द. धिः ।
६ द. म्मप्रं । ७ द. विभाजितौ । ८ द. द्वौ भागौ तत्र कर्तव्यं । ९ द. पदस्य । १० द. स्तंभपिंडत्रि-
भागेन पदस्य यदि वोच्छ्रयः । ११ द. भागेनैकैन तीरं स्याद्द्वास्तंभत्रिभागिकं । पदतस्तद्विधातव्यं त्र्यंगुल-
द्वयनिर्गमम् ॥ १२ द. स्तंभशीर्षस्य विस्तारः । १३ द. पाट्ः । १४ द. पदस्य विस्तरः काँ ।
१५ द. तान् ।
मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१९
तुलाधारणकोत्सेधाच्चतुर्भागविभाजितात् ।
भागमेकं परित्यज्य पिण्डस्तस्य विधीयते ॥ १३७ ॥
मात्राहीना भवेन्मेढ्यां तावन्न्यस्येच्छलान्तले (?) ।
द्वौ भागौ मूलभागेन जयन्तीपिण्डविस्तरौ ॥ १३८ ॥
इति हीरग्रहादीनां समासाल्लक्ष्मकीर्तनम् ।
पञ्चांशाभ्यधिकं स्तम्भविस्तारस्थेन कुम्भिका (?) ॥ १३९ ॥
कुर्वीत स्तम्भतः सार्धा गर्गे(?)कुम्भस्य विस्तृतः ।
अथवा स्तम्भकर्णेन स्तम्भाग्राद्विगुणा क्वचित् ॥ १४० ॥
पादोनस्तम्भविस्तारादग्रकुम्भे समुच्छ्रितिः ।
स्तम्भविस्तारकर्णाद् वा यद्वा पिण्डोऽग्रकुम्भके ॥ १४१ ॥
तस्य भागान् प्रवक्ष्यामो यथाकुम्भं स युज्यते ।
विभक्तोऽत्र त्रिधा पिण्डो भागेनैकेन पुत्तली ॥ १४२ ॥
चतुर्भिस्तस्य मध्यस्थं (यखं ?)पद्मं समालिखेत् ।
उच्छ्राले पञ्चधा भक्ते त्रिभिरात्र्तनं + + ॥ १४३ ॥
वर्तनं योषन्त्येत्(?) किञ्चिन्न च खत्वं समाचरेत् ।
वर्तने कुम्भकुम्भौ तु सूत्रं दत्त्वा सुतानितम् ॥ १४४ ॥
पद्मनालौसमा स स्यान्न भवेत् पङ्क्तिवर्जितौ (?) ।
नवाध्रोच्छाहा(?)लके भक्ते वीरगण्डस्तु भागिकैः ॥ १४५ ॥
एकेनैकेन भागेन विधेयाँ पट्टिकाद्विका ।
१६(ध्वसंस्राकाल ?)कर्णव्यं भागद्वितयसंमितम् ॥ १४६ ॥
तलकुम्भकपिण्डं तु पञ्चधा प्रविभाजयेत् ।
भागेनैकेन पद्मं स्याद् भागेन कलशं लिखेत् ॥ १४७ ॥
१ द. ढ्या तां च न्यस्येच्छलाखले । २ द. ॰र्तिंतं । ३ द. पंचास्याभ्यं । ४ द. ॰रस्तेन
कुंभिकाः । ५ द. मग्रं । ६ द. ॰तिः । ७ द. म्मः स युज्यते । ८ द. विभक्तानवधा पिंडदान्भागेनैकेन
त्रुवती । ९ द. मध्यं स्याच्छेलां पद्मा सं० । १० द. त्यां । ११ द. वर्न० । १२ द. ॰यक्षौ । १३ द. ल ।
१४ द. ताः । १५ द. ॰धो कालके । १६ द. दका । १७ द. विधेयं पट्टिकाद्वयं । १८ द. कालकं
तथ कर्त्तव्यं ।
३२० समराङ्गणसूत्रधारे।
द्वाभ्यां समालिखेत् कुम्भं भागेनैकेन पट्टिकाम् ।
वर्तमानां चत्रा(?)कार्या शोभा स्यादस्य यावतैः ॥ १४८ ॥
एष कुम्भक्रमः प्रोक्तः स्तम्भपादे व्यवस्थितः ।
तैलपट्टस्य पिण्डस्तु भागपट्टसमो भवेत् ॥ १४९ ॥
द्रव्येष्वत्र हि सर्वेषु सम्यक् शोभा ४विवक्षिता ।
न्यूनातिरिक्त मप्यस्मान्मानेष्वङ्गलमाचरेत् ॥ १५० ॥
द्वारामुदयविस्तारो द्रव्यसंस्थानमेव च ।
पूर्वमेव यथोद्दिष्टं (य ? त )था सर्वमनुस्मरेत् ॥ १५१ ॥
पिण्डेन त मूलशाखायां द्वितीया र्प विधीयते ।
संपाद्यते सपादेन प्रत्ययदेनाथ सार्धनरूपशाखा प्रशस्यते(?)॥१५२॥
अर्धेन मूलशाखाः समा चैव बाह्यशाखा शाखां प्रकल्पयेत्(?) ।
ऊर्ध्वपञ्चमशाखाया (दु ?) सप्तमी नवमी च सा ॥ १५३ ॥
रूपशा ९+ + + स्यान्न न्यूना नाधिकापि च ।
१०विस्तारार्धं तु कर्तव्यः सर्वांसामेव निर्गमः ॥ १५४ ॥
शाखाविस्तारविस्तीर्णा(नु ? न्यु )त्तरङ्गानि कारयेत् ।
सार्धेन ध्रुवशाखानां पिण्डेनोदुम्बरोदयः ॥ १५५ ॥
उदुम्बरस्य पिण्डेन सिंहवक्त्राणि कारयेत् ।
तदर्धं विलसन्धिः १३ स्यात् तत्समा भूमिरङ्गिका ॥ १५६ ॥
तलन्याससमः पट्टः पिण्डपूर्वव्यवस्थितः ।
कूटाकारैर्विचित्रैश्च शोभनै रूपकर्मभिः ॥ १५७ ॥
पत्रजातैरनेकैश्च कण्ठं कुर्याद् यथेप्सितम् ।
पाचकः कटुतीक्ष्णाद्यैरनुसाररसैर्यथा ॥ १५८ ॥
१ द. ॰नोवताकार्या । २ द. ता । ३ द. तलपट्टस्य पिंडे तु भारपदसमो भवेन् ॥ ४ द. व्यव-
स्थिताः । ५ द. या । ६ द. पि । ७ द. सपादेनाथा सार्धेन रूप॰ । ८ इ. अर्द्धेन मूलशाखाया
खल्वशाखा तु विस्तृताः ॥ ४७ ॥ रूपशाखा समाचैव वाह्यशाखां प्रकल्पयेत् । उर्ध्वं पंचमशाखाया सप्तमी
नवमी च या ॥ (अर्धेन मूलशाखाः ... नवमी च सा ॥ १५३) मुद्रित पाठः । ९ द. ॰शाखा समासा
स्यान् । १० द. स्व विस्तारार्द्धा तु । ११ द. ॰याः । १२ द. चक्राणि । १३ द. न्धी । १४ द. तें ।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२१
अन्वीक्ष्य विपचेत् तद्वत् स्थपतिः सर्वमाचरेत् ।
यदुक्तं यदनुक्तं च तत् समग्रमपि स्फुटम्¹ ॥ १६९ ॥
(युक्ता)²युक्तं समालोच्य यथाशोभं समाचरेत् ।
आरभ्य मेरोरिति षोडशैते प्रासादमुख्याः कथिता यथावत् ।
संक्षेपतो लक्ष्म तथा जगत्यां द्वारादिसम्बन्धि च(द्वा ?)
दारुमानम्४ ॥ १७० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारऽपरनाम्नि वास्तुशास्त्रे
मेर्वादिशोडशप्रासादलक्षणं जगतीलक्षणं द्वारादिकला नाम
( पञ्चमो ? पञ्चपञ्चाशो )ऽध्यायः ॥
अथ रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः ।
अथान्तः सम्प्रवक्ष्यामि प्रासादाञ् शिखरान्वितान् ।
रुचकादींश्चतुःषष्टिं नामलक्षणतः क्रमात् ॥ १ ॥
पूर्वं यानि विमानानि पञ्चोक्तान्यभवंस्ततः ।
तदाकारभृतः सर्वे प्रासादाः पञ्चविंशतिः ॥ २ ॥
शिखरैर्विविधाकारैरेकेनाण्डेन भूषिताः ।
केचिदण्डत्रयोपेताः केचित् पञ्चाण्डकान्विताः ॥ ३ ॥
ईषद्भेदेन ते ज्ञेयाः प्रासादाः सर्वकामदाः ।
सौवर्णा राजताश्चैव देवानां सततं प्रियाः ॥ ४ ॥
मणिमुक्ताप्रवालाद्यैर्भूषणैः सुविभूषिताः ।
रीतिकाताम्रघोषाद्यैः पिशाचोरगरक्षसाम् ॥ ५ ॥
देवलोका भवन्त्येते कामस्वच्छन्दचारिणः ।
पाताले चापि निर्दिष्टाः पाषाणैः स्फटिकैस्तथा ॥ ६ ॥
१ द. स्फटं । २ द. मुक्तामुक्तं । ३ द. न्या । ४ द. नाम् । ५ द. णं । ६ द. णं ।
७ द. पूर्वं । ८ द. राँ ।
वा. ४१
३२२ समराङ्गणसूत्रधारे
इष्टकाकाष्ठपाषाणैर्मर्त्यलोकेऽपि नन्दकाः ।
सुखदाश्च भवन्त्येते कर्तुः कारयितुस्तथा ॥ ७ ॥
लक्षणेनान्वितानेतान् कथयामो यथाविधि ।
पुराणां भूषणार्थाय भुक्तिमुक्तिप्रदा नृणाम् ॥ ८ ॥
रुचको भद्रकश्चैव हंसो हंसोद्भवस्तथा ।
प्रतिहंसस्तथा नन्दो१ नन्द्यावर्तो धराधरः ॥ ९ ॥
वर्धमानोऽद्रिकूटश्च श्रीवत्सोऽथ त्रिकूटकः ।
मुक्तकोणो गजश्चैव गरुडः सिंह एव च ॥ १० ॥
भवश्च विभवश्चैव पद्मो मालाधरस्तथा ।
वज्रकः स्वस्तिकः शङ्कुर्मलयो मकरध्वजः ॥ ११ ॥
इत्येते नामतः प्रोक्ताः प्रासादाः पञ्चविंशतिः ।
एतेषां रूपनिर्माणं कथयामो यथाविधि२ ॥ १२ ॥
रुचका(द्ये३)ष्टादशैषां चतुरश्राः प्रकीर्तिताः ।
भवश्च विभवश्चैव चतुरश्रायतनोऽथर्वा४ ॥ १३ ॥
पद्मो मालाधरश्चैव वृत्तावेतावुदाहृतौ ।
मलयो मकराँ५ख्योऽथ द्वौ तु वृत्तायताविमौ ॥ १४ ॥
वज्रकः स्वस्तिकः शङ्कुरित्थमष्टाश्रयस्त्रयः ।
ललिताँ६: कथिता ह्येते ब्रूमोऽन्यान मिश्रकानथ ॥ १५ ॥
सुभद्रो यौ७किटश्च(?) सर्वतोभद्र एव च ।
सिंहकेसरिसंज्ञोऽन्यश्चित्रकूटो धराधरः८ ॥ १६ ॥
तिलकाख्यः९ श्वेततिलकस्तथा सर्वाङ्गसुन्दरः ।
नवामी मिश्रकाः प्रोक्ताः कथ्यन्ते (सांध१०कारिकाः ?) ॥ १७ ॥
केसरी सर्वतोभद्रो नन्दनो नन्दि११शालकः ।
नन्दीशो१२ मन्दिराख्यश्च श्रीवृक्षश्चामृतोद्भवः ॥ १८ ॥
१ द. न्द । २ द. धिः । ३ द. ˚द्याः षोड˚ । ४ द. तौ तथा । ५ द. मकरांकोऽथ । ६ द.
लतिनः कं । ७ द. ˚द्रोऽथ किरीटश्च सं˚ । ८ द. ˚र । ९ द. श्रीति˚ । १० द. सां˚ । ११ द.
नन्दशा˚ । १२ द. नँदशो मंद˚ ।
हिमवान् हेमकूटश्च कैलासः पृथिवीजयः ।
इन्द्रनीलो महानीलो भूधरो रत्नकूटकः ॥ १९ ॥
वैडूर्यः पद्मरागश्च वज्रको मुकुटोत्कटः ।
ऐरावतो राजहंसो गरुडो वृषभस्तथा ॥ २० ॥
मेरुः प्रासादराजश्च देवानामालयो हि सः ।
१+ संयोगे तु संधारान् कथयामो यथाविधिं२ ॥ २१ ॥
लनात्रिपुष्कराख्यौ च पञ्चवक्त्रश्चतुर्मुखः ।
नवात्मकश्च निर्गूहैः प्रासादाः पञ्च संज्ञिताः ॥ २२ ॥
आद्यः पञ्चाण्डकः कार्यः प्रासादः केसरीति यः ।
सर्वतोभद्रको यस्तु विधेयः स नवाण्डकः ॥ २३ ॥
त्रयोदशाण्डकस्तु स्यान्नन्दनो नाम यो भवेत् ।
नन्दिशालस्तु यः प्रोक्तः स स्यात् सप्तदशाण्डकः ॥ २४ ॥
अण्डकैरेकविंशत्या नन्दीशः परिवारितः ।
पञ्चविंशाण्डकोपेनं मन्दरं कारयेद् बुधः ॥ २५ ॥
श्रीवृक्षः शस्यते चैतेष्वेकोनत्रिंशताण्डकैः ।
स्यात् त्रयस्त्रिंशताण्डैस्तु प्रासादो ह्यमृतोद्भवः ॥ २६ ॥
अण्डकैः क्रियते सप्तत्रिंशता हिमवानपि ।
सैकया हेमकूटस्तु स्याच्चत्वारिंशताण्डकैः ॥ २७ ॥
पञ्चचत्वारिंशताण्डैः कैलासो नाम नामतः ।
भवत्येकोनपञ्चाशदण्डकः पृथिवीजयः ॥ २८ ॥
इन्द्रनीलश्च यः प्रोकारः (क्तः स त्रि)पञ्चशताण्डकैः ।
सप्तपञ्चाशता युक्तो महानीलस्तथाण्डकैः ॥ २९ ॥
एकषष्ट्यण्डकोपेनं प्रासादो भूधरो भवेत् ।
पञ्चषष्ट्यण्डकैर्युक्तो रत्नकूटः प्रशस्यते ॥ ३० ॥
नवषष्ठ्यण्डकः कार्यो वैडूर्यः शुभलक्षणः ।
त्रिसप्तत्यण्डकयुतः पद्मरागो विधीयते ॥ ३१ ॥
१ द. संयोगेन तु सं' । २ द. धिः । ३ द. ˚ड प्रा˚ । ४ द. प्येकोन˚ । ५ द. वैडूर्यः ।
३२४ समराङ्गणसूत्रधारे
अण्डकैः सप्तसप्तत्या प्रासादो विजयाभिधः¹ ।
एकाशीत्यण्डकोपेतो विधेयो मुकुटोत्कटः ॥ ३२ ॥
ऐरावतस्तु पञ्चाशीत्यण्डकः परिकीर्तितः ।
नवाशीत्यण्डकैर्युक्तो राजहंसः प्रशस्यते ॥ ३३ ॥²
नवत्या सप्तयुतया प्रासादो वृषभो³ऽण्डकैः ।
शतेनैकोत्तरेणाण्डैर्मेरुः प्रासादराट् स्मृतः ॥ ३४ ॥
हरेर्हिरण्यगर्भस्य + + +⁴ भास्करस्य च ।
मेरुरेष विधातव्यो नान्यस्य त्रिदिवौकसः ॥ ३५ ॥
मेरोः प्रासादराजस्य देवानामहालयस्य च ।
कर्ता क्षत्रिय एवास्य वैश्यै( द्वयोऽ)स्य स्थपतिर्भवेत् ॥ ३६ ॥
एवं विधीयमानेऽस्मिन् मेरौ द्वावपि नन्दतः ।
वास्तुशास्त्रविधिज्ञोऽपि क्षत्रियः स्थपतिर्यदि ॥ ३७ ॥
तदास्य सत्यं शौचं च विक्रमश्च विनश्यति ।
ईश्वरोऽपि यदा विप्रो मेरुप्रासादकृद् भवेत् ॥ ३८ ॥
कर्तुः कारयितुः पीडा पूजा चास्य न तादृशी ।
ब्राह्मणः स्थपतिश्चास्य वास्तुशास्त्रे विशारदः ॥ ३९ ॥
वणिक्कर्मणि वर्तेत धनवानपि यद्यसौ ।
सर्वविप्रेषु निर्दिष्टः कर्ता स्थपतिरेव सः⁹ ॥ ४० ॥
तत्रस्था¹¹ देवताः सर्वास्तस्य वृद्धिः कथञ्चन ।
वास्तुशास्त्रविधिज्ञोऽपि तच्चैत् कारयिता यदि¹³ ॥ ४१ ॥
राजापि क्षत्रियः कर्ता मेरु( रो )¹²र्भवेत् तदा ।
राष्ट्रभङ्गो भवेत् तस्य प्रजा यान्ति दिशो दश ॥ ४२ ॥
१ द. वज्रकाभिधः। २ द. त्रिनवत्यंडकैर्युक्तो गरुडाख्यः प्रशस्यते। ३ द. भा०। ४ द. ०स्य
हरप्य भा०। ५ द. वैश्यश्च स्थ०। ६ द. वे०। ७ द. ०ति श्तेस्याद्वास्तुशास्त्र त्रि०। ८ वणिग्धर्मेन व०।
९ द विद्विष्टः। १० द. च। ११ द. अपूज्या देवतास्तत्र न स्याद्वृद्धिः कदाचन। १२ द. शूद्रः।
१३ द. दा।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२५
क्षत्रियेण नरेन्द्रेण कर्ता स्थपतिना यदि^१ (?)।
मेरोः पूजा भवेत् तत्र^२ क्षत्रियोऽप्यक्षयं पदम् ॥ ४३ ॥
एकैकस्य च^३ यन्मानं सकर्णस्य^४ च यद्दृशम् ।
प्रासादानां च सर्वेषां तत् सम्यगभिधीयते ॥ ४४ ॥
चतुरश्रीकृते क्षेत्रे चतुर्भागैर्विवर्जिते^५ ।
भागिका सर्वतो भित्तिः शेषं गर्भगृहं भवेत् ॥ ४५ ॥
तस्याग्रतः पुनः कार्यो भागद्वयविनिर्गतः ।
विस्तारेण त्रिभागश्च प्राग्ग्रीवः स्तम्भभूषितः ॥ ४६ ॥
पीठोत्सेधस्य भागेन भवेज्जङ्घा द्विभागिका ।
भागार्थं^६ तरं पत्रं(?) पादेन स्याद् वरण्डिका ॥ ४७ ॥
सपादांश्चतुरो भागान् शिखरस्योच्छ्रयः स्मृतः ।
त्रिगुणेन च सूत्रेण पद्मकोशं समालिखेत् ॥ ४८ ॥
स्कन्धकोशान्तरं चास्य भागैः प्रविभजेत् त्रिभिः ।
भवेद् ग्रीवार्धभागेन भागेनामलसारकम् ॥ ४९ ॥
पद्मशीर्षं च भागार्धाद् भागेन ( + लसी: ?)^८स्मृतः ।
इत्युक्तो रुचकाख्योऽयं
रुचकः ॥
भद्रकाख्योऽथ कथ्यते ॥ ५० ॥
++++++++++++++।^९
++++++++++++++ ॥ ५१ ॥
भद्रक ॥
भद्रं^९ तु कर्णयोर्मध्ये कारयेदुदकान्तरम् ।
तदा हंसो विजानीयात् प्रासादो देवालयः ॥ ५२ ॥
हंसः ॥
१ द. विशा । २ द. तत्र स्यात्तयोश्चाक्षयं पदम् । ३ द. तु । ४ द. ०न लक्षणं यस्य यादृशम् ।
५ द. विभाजिते । ६ द. भागार्द्धं वान्तरं पत्रं । ७ द. ०दं च० । ८ द. कलशः । ९ द. भवेद्रुचक
एवात्र भद्रो भद्रत्रयान्वितः । भद्रं द्विभागविस्तारं पदपड्भागनिर्गमम् ॥ भद्रकः ॥ १० द. तोयान्तरं ते भद्रस्य
मध्ये स्याद्द्रुकर्णयोः । तदा हंस इति ख्यातः प्रासादोऽति मनोहरः ॥
३२६ समराङ्गणसूत्रधारे
हंसस्येवं¹ यदा कुर्याद् भद्रस्यान्ते जलान्तरम् ।
तदा हंसोद्भवो नाम प्रासादः परिकीर्तितः ॥ ५३ ॥
हंसोद्भवः ॥
रथान्तकर्णयोश्चैवं² यदा स्यादुदकान्तरम् ।
प्रतिहंसस्तदा प्रोक्तः प्रासादोऽयं³ मनोरमः ॥ ५४ ॥
प्रतिहंसः ॥
प्राग्ग्रीवा रुचकस्यैव सीमाविस्तारविस्तृता⁴ ।
निर्गता भद्रमानेन तदा नन्दः स उच्यते ॥ ५५ ॥
नन्दः ॥
प्राग्ग्रीवैर्भद्रमानेन नन्दो यदि विभूष्यते ।
निर्गतैर्भागमानेन चतुरश्रैः समन्ततः ॥ ५६ ॥
प्राग्ग्रीवः पुरतः कार्यः स्तम्भद्वयविभूषितः ।
नन्द्यावर्तस्तदा प्रोक्तः प्रासादो विजयावहः ॥ ५७ ॥
नन्द्यावर्तः ॥
नन्द्यावर्ते यदा कुर्याद् भद्रान्ते जलनिर्गमम् ।
धराधरस्तदा ज्ञेयः प्रासादो भुवनोत्तमः ॥ ५८ ॥
धराधरः ॥
दशधा भाजिते क्षेत्रे चतुरश्रे समन्ततः ।
भागद्वयेन कर्णः स्याद् भजेच्छेषं च सप्तधा ॥ ५९ ॥
भागत्रयेण रथको मध्यमोऽस्य विधीयते ।
द्वाभ्यां द्वाभ्यां तु भागाभ्यां रथकौ वामदक्षिणौ ॥ ६० ॥
भागस्यैव त्रिभागेन भवेदस्य विनिर्गमः ।
कथितो वर्धमानोऽयं
वर्धमानः ॥
गिरिकूटोऽथ कथ्यते ॥ ६१ ॥
वर्धमानस्य भद्रस्थमध्यसूत्रेण योजयेत् ।
कर्णिसूत्रं तदग्राभ्यां न्यस्येत् सूत्रचतुष्टयम् ॥ ६२ ॥
१ द. स्यै । २ द. रथान्तयोश्च भद्रे च यदा । ३ द. यमनुत्तमः । ४ द. श्रु ।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२७
तदुत्पन्नैस्तु भद्रस्थकर्णैः स्याच्चित्रकूटकः ।
गिरिकूटः ॥
कर्णान्ते च रथान्ते च यदि स्यात् सलिलान्तरम् ॥ ६३ ॥
वर्धमानस्य भवति श्रीवत्सः स्यात् तदा शुभः ।
श्रीवत्सः ॥
गिरिकूटस्य संस्थाने तद्रूपे विनिवेशिते ॥ ६४ ॥
कर्णा(न्) प्रतिरथेष्वस्य निखिलेष्वपि योजयेत् ।
प्राग्वत् प्रतिरथोद्भूतसूत्राभ्यां कर्णवर्त्मना ॥ ६५ ॥
त्रिकूटाख्यस्तदैव स्यात् प्रासादो देवालयः ।
त्रिकूटः ॥
त्रिकूटस्यैव संस्थाने भद्रकर्णपरिच्युते ॥ ६६ ॥
स्वरूपभद्रसंस्थाने मुक्तकोणः प्रजायते ।
मुक्तकोणः ॥
चतुर्भि(र्वि)स्तृतैर्भागैः क्षेत्रे पञ्चभिरायते ॥ ६७ ॥
भागेन भित्तिः कर्तव्या शेषं गर्भगृहं भवेत् ।
अस्य क्षेत्रार्धसूत्रेण पृष्ठतो वृत्तमालिखेत् ॥ ६८ ॥
पुरतः शूरसेनोऽस्य पृष्ठतोऽपि गजाकृतिः ।
प्रासादोऽयं गजो नाम गणेशस्य विधीयते ॥ ६९ ॥
गजः ॥
वर्धमानस्य संस्थाने गरुडं विनिवेशयेत् ।
तस्य पक्षौ विधातव्यौ प्रासादार्धेन निर्गतौ ॥ ७० ॥
पक्षयोस्तु दशस्तस्य(?) वर्धमानं विभाजयेत् ।
जातिशुद्धा रथाः कार्याः पार्श्वयोर्गरुडो भवेत् ॥ ७१ ॥
गरुडः ॥
वर्धमानस्य संस्थाने प्राग्वत् कर्णौ नियोजयेत् ।
द्विभागा रथिका कार्या शेषं भद्रं प्रकल्पयेत् ॥ ७२ ॥
३२८ समराङ्गणसूत्रधारे
जङ्घास्य पञ्चभिर्भागैः पीठं चास्य तदर्धतः ।
विरण्ड्यर्धांशिकाद्विश्च (?) भागश्चान्तरपत्रयोः ॥ ७३ ॥
तथोत्सेधत्रिभागैश्च नवभिः शिखरोच्छ्रितः ।
कुम्भश्चामलसारश्च सिंहेऽस्मिन्द्रा (स्मिन् भा) गमाग(न)तः ॥७४॥
सिंहः ॥
चतुरश्रीकृते क्षेत्रे चतुर्भिर्भाजितैः पदैः ।
सीमाविस्तारमानेन रथांस्तस्य प्रकल्पयेत् ॥ ७५ ॥
पादेनैकेन निर्यातान् दिक्षु सर्वास्रनुक्रमात् ।
प्राग्ग्रीवान् पुनरस्यैव भागद्वितयविस्तृतान् ॥ ७६ ॥
पदषड्भागनिर्यातान् विदधीन चतुर्दिशम् ।
चतुर्भागायतो गर्भः कार्योऽस्य द्व्यंशविस्तृतः ॥ ७७ ॥
जङ्घोत्सेधश्च पीठं च यथा भद्रे तथा भवेत् ।
प्रासादो भवसंज्ञोऽयं देवतात्रितयाश्रयः ॥ ७८ ॥
भवः ॥
भवस्यैव यदा कुर्याद् रथान् संजलनिर्गमान् ।
द्विभङ्गं संश्रयोऽन्यः सा ( ? ) प्रासादो विभवाभिधः ॥ ७९ ॥
( त्रिलिङ्गः ? )
अष्टधा भाजिते क्षेत्रे चतुरश्रे समन्ततः ।
विदध्याद् गर्भसूत्राणि कर्णसूत्राणि च क्रमात् ॥ ८० ॥
दिक्षूत्रेष्वखिलेष्वस्य सीमार्थं पदमेव च ।
पदस्याष्टादशो भागस्तद्योगाद् वृत्तमालिखेत् ॥ ८१ ॥
विस्तारार्धं भवेद् गर्भो गर्भार्धास्तस्य भित्तयः ।
तद्वृत्तबाह्यसूत्रेण भागान् षोडश कारयेत् ॥ ८२ ॥
दिक्सूत्रकर्णसूत्रेषु रथकान् सम्प्रकल्पयेत् ।
द्विभागा रथिका कार्या सलिलान्तरभूषिता ॥ ८३ ॥
सलिलान्तरमेतस्य श्रीवत्सस्येव कल्पयेत् ।
जङ्घोत्सेधे² च पीठे च शिखरं ( ? )³ च तथा भवेत् ॥ ८४ ॥
१ द. थ । २ द. धश्च पीठं च । ३ द. रतं ।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२९
मालाधारः स विज्ञेयः सबाह्याभ्यन्तरः समः ।
मालाधरः ॥
मालाधरस्य संस्थाने यत् क्षेत्रं पूर्ववत् स्थितम् ॥ ८५ ॥
उदकान्तरविच्छिन्नं पद्मं तत्र निवेशयेत् ।
तथाग्रे कारयेत् कर्ण²व्यासाधैन विनिर्गमान् ॥ ८६ ॥
पद्मपत्रनिभाकारान् जातिशुद्धान् सलक्षणान् ।
पद्मः ॥
षड्भागनायते³ क्षेत्रे विस्तारे⁴ चतुरश्रके ॥ ८७ ॥
द्विभागौ⁵ विपुलो गर्भश्चतुर्भागायतो भवेत् ।
गर्भंवासमितं सूत्रं पदपादसमन्वितम् ॥ ८८ ॥
वृत्ताधं भ्रमयेत् तेन दक्षिणेनोत्तरेण च ।
सीमाविस्तारसूत्रेण पदपाद्युतेन च ॥ ८९ ॥
पुरतः पृष्ठतश्चापि तद्वृत्तमन्वर्तयेत् ।
वृत्तक्षेत्रमिदं तस्य भागैर्द्वादशभिर्भवेत् ॥ ९० ॥
द्विभागो भद्रविस्तारो भागिकी भागविस्तृतिः
भद्राणां च रथान्मध्ये भागेनैकेन विस्तृताँ⁷( ? ) ॥ ९१ ॥
उदकान्तरकं चात्र मालाधरवदाचरेत् ।
वृत्तायतस्तु कर्तव्यः प्रासादो मलयाभिधः ॥ ९२ ॥
मलयः ॥
मलयस्यैव कर्णेषु रथिकांन् यदि कल्पयेत् ।
¹⁰उदकान्तरविच्छिन्नान् पदषड्भागनिर्गतान् ॥ ९३ ॥
पीठोत्सेधश्च जङ्घा च शिखरं चात्र यद् भवेत् ।
एकमात्रौसमायुक्तं लतिनाँ¹² ते(?) प्रतीयते(न्तर्विधीयते ) ॥ ९४ ॥
¹³त्र्यंमाशा(त्र्यश्रा)णां चतुरश्राणां कोणेष्वर्धपरिक्षयात् (?)।
अष्टाश्रं जायते यत्र वाजाग्रमपि तां नरम् (?) ॥ ९५ ॥
१ द. ध । २ द. कर्णा न्यां । ३ द. ता । ४ द. रा । ५ द. ग । ६ द. वृत्तार्ध...वृत्तमन्व-
र्तयेत् । प्रतौ नास्ति । ७ द. नाः । ८ द. भवेत् । ९ द. थ । १० द. उदकान्तरविच्छिन्नान्...चात्र
यद् भवेत् पुस्तके नास्ति । ११ द. न । १२ द. ललिनां तद्विधीयते । १३ द. प्रासादः सर्वकामार्थः
भुक्तिमुक्तिप्रदायकः...सपादमिहधारयेत् । प्रति पाठः ।
वा. ४२
३३० समराङ्गणसूत्रधारे
अष्टाश्रं चतुरो भागान् विदध्यात् तत्र भागिकी ।
भित्तिर्विधेया भागाभ्यां भवेद् गर्भगृहं ततः ॥ ९६ ॥
रथिकासु विधेयोऽस्य परितो जलनिर्गमः ।
वज्रको नाम कथितः प्रासादः शुभलक्षणः १ ॥ ९७ ॥
वज्रकः ॥
वज्रकस्यैव संस्थाने सलिलान्तरवर्जिते ।
चत्वारिंशद्भागभक्ते रथिकाः स्युस्त्रिभागिकाः ॥ ९८ ॥
अष्टासु दिक्षु कर्णाश्च भवन्त्यस्य द्विभागिकाः ।
कर्णैः ३ पद्मकतुल्योऽयं स्वस्तिकः समुदाहृतः ॥ ९९ ॥
स्वस्तिकः ॥
वज्रकस्यैव संस्थाने ये रथाः प्राक् प्रदर्शिताः ।
एकैकस्तेषु कर्तव्यश्चतुरश्चतुरोऽंशकान् ॥ १०० ॥
भागद्वयेन मध्यः स्याद् रथकोशाद् विनिर्गतः ।
शङ्कुर्नामायमुद्दिष्टः प्रासादोऽष्टाभिरश्रिभिः ॥ १०१ ॥
शङ्कुः ॥
चतुरश्राः षोडश प्रोक्ताश्चतुरश्रायतद्वयम् ( ? ) ।
वृत्तवृत्तायतौ द्वौ द्वावुक्ताश्चाष्टाश्रयस्त्रयः ॥ १०२ ॥
पञ्चविंशतिरित्येते प्रासादा ललिताः स्मृताः ।
मिश्रकाणामथ ब्रूमो लक्षणानि यथाक्रमम् ॥ १०३ ॥
भद्रकस्यैव संस्थाने भद्रे शृङ्गं यदा भवेत् ।
सुभद्रो नाम ( ? )संज्ञोऽयं कर्णकूटैः करीद्यसौ ( ? ) ॥ १०४ ॥
पूर्वोक्तस्य यदा शृङ्गं भद्रं केसरिणो भवेत् ।
लतारूढ्योक्तं ( ? ) तदा स स्यात् सर्वतोभद्रसंज्ञितः ॥ १०५ ॥
भद्रे शृङ्गं परित्यज्य सिंहं तत्रैव कारयेत् ।
मिश्रयोगे तयोर्मिश्रः स भवेत् सिंहकेसरी ॥ १०६ ॥
१ द. ॰दोऽयं सुलक्षणः । २ द. थ । ३ द. ॰र्णे । ४ द. ॰शांह्रिनि॰ । ५ द. शो । ६ द.
तं । ७ द. ॰दाः ललिनः स्मृ॰ । ८ द. क्रिरीद्मसौ । ९ द. न । १० द. ॰गेन यो मिश्रः ।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३३१
श्रीवत्सस्यैव संस्थाने भद्रे¹ कूटं निवेशयेत् ।
कर्णे तनैव योगेन प्रतिशृङ्गोपशोभितम् ॥ १०७ ॥
कलशैः सप्तदशभिः पद्मघण्टामलैः सह ।
स चे² त्रिकूट इत्युक्तो विचित्रशिखरान्वितः ॥ १०८ ॥
कर्णे भद्रे प्रतिस्थाने पूर्णे³ शृङ्गे यदा भवेत् ।
अण्डकैः सप्तदशभिस्तदा स्यात् स धराधरः ॥ १०९ ॥
श्रीवत्सस्यैव संस्थाने कर्णे कूटं निवेशयेत् ।
शृङ्गं भद्रो⁴ + भद्रे च तदा तिलक उच्यते ॥ ११० ॥
यथा कर्णे तथा भद्रे यो भवेच्चित्रकूटवत् ।
उत्तमाङ्गे⁵ च यस्तद्वत् स स्यात् सर्वाङ्गसुन्दरः ॥ १११ ॥
प्रतिशृङ्गेषु सर्वेषु यदा कूटं निवेश्यते ।
मिश्रकः स तु विज्ञेयः श्रीनाम्ना चान्तिकोऽन्तिकः ॥ ११२ ॥
सर्वे कूटावृताः कार्याः सर्वे कार्याश्चतुर्मुखाः ।
मिश्रका बहुशृङ्गाश्च कुटीसंज्ञास्ततोऽपरे ॥ ११३ ॥
इदं नवानां मिश्राणामिह लक्षणमीरितम् ।
साधारणमतः स्पष्टं ब्रूमः सम्प्रति लक्षणम् ॥ ११४ ॥
चतुरश्रीकृते क्षेत्रे भागाष्टकविभाजिते ।
तस्य मध्ये भवेद् गर्भो द्विभागो देवालयः ॥ ११५ ॥
भागे निवेशयेद् भित्तिं कुर्याद् भागेन कारिकाम् ।
बाह्यंभित्ति पुनर्भागे विधेयास्तस्य सिद्धये (?) ॥ ११६ ॥
तस्य कर्णेषु कर्तव्या रथिकाश्च द्विभागिकाः¹² ।
शेषं भद्रं प्रकर्तव्यमुदकान्तरभूषितम् ॥ ११७ ॥
भागेन निर्गतं दिक्षु सर्वास्वेवं¹³ भवेद् विधिः ।
चतुर्भागोच्छ्रिता जङ्घा करकश्च तदर्धतः¹⁴ ॥ ११८ ॥
१ द. भटे । २ द. चित्र । ३ द. वे । ४ द. भद्रोपभद्रे च । ५ द. ष्टैव । ६ द. यथा ।
७ द. ष्भ्रतिलकोङ्कितः । ८ द. सांवाराणामथ । ९ द. न्तिः कुर्याद्भागेन कारिका । १० द. बाह्यां-
भित्तिः । ११ द. त । १२ द. विभागिका । १३ द. स्वेष्विति । १४ द. कुं° । १५ द. तः ।
वरण्ड्यन्तरपत्रं च भागेनैकेन कल्पयेत् ।
रथिकैकान्तरं तस्य सार्धभागत्रयोच्छ्रिताः(?) ॥ ११९ ॥
षड्भागे शिखरं मूले शेषांशकसमुच्छ्रितम् ।
तस्योच्छ्रयं त्रिधा कृत्वा वेणुकोशं समालिखेत् ॥ १२० ॥
स्कन्धकोशान्तरं तस्य चतुर्था विभजेत् ततः ।
पद्मशीर्षं तथा ग्री(वां) सार्धेनांशेन कारयेत् ॥ १२१ ॥
कुर्याद् भागेन भागेन कुम्भं^२ चामलसारकम् ।
भागाधेन प्रकुर्वीत तदूर्ध्वं बीजपूरकम् ॥ १२२ ॥
^३प्रासादः कैसरी नाम सर्वतः सन्ततिप्रियः ।
कैसरी ॥
चतुरश्रं समं कृत्वा भूमिभागं विचक्षणः ॥ १२३ ॥
प्रासादो^(४ द)व्यासतः कुर्याज्जगतीं द्विगुणामिह ।
विदध्याज्जगतीपीठं प्रासादार्धसमुच्छ्रितम् ॥ १२४ ॥
पीठस्योपरि संस्थाप्य प्रासादं विभजेत् ततः ।
सर्वतोभद्रसंस्थानं हस्तसंख्या यदा^७ भवेत् ॥ १२५ ॥
हस्तैः सप्तत्रिंशता तु ज्येष्ठः सार्धै(?) उदाहृतः ।
मध्यमः सप्तविंशत्या प्रासादेः^९ स्यात् कलाधिकैः ॥ १२६ ॥
कनीयान् पञ्चदशभिः प्रासादः समुदीरितः ।
तैलच्छन्दो^१० यदा ह्येषां तथा चैवोर्ध्वतो गतिम् ॥ १२७ ॥
ज्येष्ठमध्यकनिष्ठानां तथा सम्यङ् निगद्यते ।
चतुरश्रीकृते क्षेत्रे शतमूलविभाजिते ॥ १२८ ॥
न्यसेत् तन्मध्यतो गर्भं चतुर्वर्गपदान्वितम् ।
गर्भपादेन^१२ भित्तिः स्यात् तद्वदेवान्धकारिका ॥ १२९ ॥
बाह्यभित्तिस्तथवां^१३(थैव) स्याद् देशाशास्युर्द्विभागिका(?)^१४ ।
प्रतिवर्णपदांशेन(?) षोडशेन^१५ जलान्तरम् ॥ १३० ॥
१ द. सा च भां° । २ द. कुंभमामं° । ३ द. प्रासादः केसरी नाम पार्वत्या सततप्रियः । ४ द. के° ।
५ द. °दं । ६ द. उज । ७ द. यथा । ८ द. सार्द्धेरु° । ९ द. दा । १० द. तद्च्छंद्यो यथा चैवोर्द्धतो
गतिः । ११ द. क् । १२ द. °र्भा । १३ द पुस्तके पाठः नास्ति । १४ द. द्वयिका । १५ द. °षु ।
रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३३३
शेषं भद्रं(?)प्रकर्तव्यं गर्भार्धेन विनिर्गतम् ।
भागार्धं क्षोभयेत् पार्श्वे निर्गमं च तथाचरेत् ॥ १३१ ॥
शेषः स्याद् भद्रविस्तारः पञ्चभागायतस्तथा ।
पीठं तस्यैव कर्तव्यं सार्धद्वयसमुच्छ्रितम् ॥ १३२ ॥
द्विगुणां च तथा जङ्घामुच्छ्रायेणास्य कल्पयेत् ।
मेखलामर्धभागेन भागेनान्त(र)पत्रकम् ॥ १३३ ॥
प्रथमा रथिका तत्र कार्या भागत्रयोच्छ्रिता ।
द्वितीया रथिका या सा सार्धभागेन चोच्छ्रिता ॥ १३४ ॥
भागे भागेऽन्तरं कार्यमुपर्य्युपरि चोभयोः ।
षड्भागान् विस्तृतं कुर्याच्छिखरं सप्तमोच्छ्रितम् ॥ १३५ ॥
एवं भूमिभिरष्टाभिः कुर्यादेनं विचक्षणः ।
जलनिर्गमविच्छिन्ना रथाः प्रतिरथास्तथा ॥ १३६ ॥
चतुर्गुणैः पृथक्सूत्रं (त्रैः) पद्मकोशं समालिखेत् ।
मञ्जरी ललिता कार्या नीलोत्पलदलाकृतिः ॥ १३७ ॥
ग्रीवा चैकार्धभागेन(भागेना)मलैसारकम् ।
पद्मशीर्षं च कर्तव्यं ग्रीवामानेन धीमता ॥ १३८ ॥
सार्धभागेन सोष्णीषः पद्मस्योपरिकुम्भकः ।
सर्वतोभद्र इत्युक्तो रेथीनानाम्(?) एष शेखरः ॥ १३९ ॥
विधाय सर्वतोभद्रं देवानामालयं शुभम् ।
लभते परमं लोकं दिवि स्वच्छन्दभाषितम् ॥ १४० ॥
सर्वतोभद्रः ॥
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
व्यासपादेन गर्भस्तं (स्यात् त)दर्धादन्धकारिका ॥ १४१ ॥
१ द. °र्धे । २ द. °तिः । ३ द. प्रतिमा । ४ द. सार्धभागद्वयोच्छ्रिता । ५ द. भागं भागोत्तरं ।
६ द. चैतयोः । ७ द. च्छ्रितं । ८ द. चो । ९ द. रथो प्रतिरथस्तथा । १० द. प्रतौ नास्ति । ११ द.
वा । १२ द. र । १३ द. रथिनामेष शेपरः । १४ द. कारिणं । १५ द. स्थस्तदर्थाभ्यन्धकारिकाः ।
३३४ समराङ्गणसूत्रधारे
जङ्घा स्कन्धश्च तं कर्ण(?) भद्रं चाप्यस्य यद् भवेत् ।
सर्वतोभद्रवत् सर्वं तद् विधेयं चतुर्दिशम् ॥ १४२ ॥
तस्य भद्राणि सर्वाणि भित्तिभिः परिवेष्टयेत् ।
भद्रे भद्रे पुनश्चास्य वर्धमानं निवेशयेत् ॥ १४३ ॥
पञ्चभागास्तथा सार्धाः शिखरस्योदयो भवेत् ।
सर्वतोभद्रकाकारा रथिकांश्चात्र कारयेत् ॥ १४४ ॥
कुर्यात् षडंशो विस्तीर्णशिखरं प्र+धोच्छ्रितम्(?) ।
सर्वतोभद्रसंस्थानादेशां चास्वत्र योजयेत्(?) ॥ १४५ ॥
ग्रीवा चामलसारं च कुम्भश्चापि तथा भवेत् ।
प्रासादो नन्दनो नाम कर्तव्यो देवातालयः ॥ १४६ ॥
कृतेऽस्मिन् नन्दति स्वामी दुरितानि च निर्दहेत् ।
नन्दनः ॥
भक्ते द्वादशधा क्षेत्रे चतुरश्रीकृते ततः ॥ १४७ ॥
सप्तवर्गपदो^७ गर्भो भित्त्या सह विधीयते ।
सपादपादिकां भित्तिगर्भे(?)कुर्याद् विचक्षणः ॥ १४८ ॥
बाह्यभित्तिश्च तद्वत् स्यात् तद्वच्चाप्यन्धकारिकां ।
पीठोच्छ्रयस्तथा जङ्घा कर्णेषु रथिकाश्च यांः ॥ १४९ ॥
सर्वतोभद्रकाकारान्मूलकर्णांश्च योजयेत् ।
एकैकां रथिकां चान्यां विन्यसेत् पक्षयोर्द्वयोः ॥ १५० ॥
चतस्रो रथिकाश्चैवं कर्णे कर्णे निवेशयेत् ।
शेषो भद्रस्य विस्तारः स्वविस्तारार्धनिर्गतः ॥ १५१ ॥
भूषयेत् सिंहकर्णैश्च भद्रव्यासार्धमुन्नतैः ।
विन्यसेच्छिखरं तत्र भागैर्विस्तृतमष्टभिः ॥ १५२ ॥
चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ।
स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ॥ १५३ ॥
१ द. जंघा स्कंधश्च भद्रं वा......प्यस्य । २ द. पुनः स्वास्य । ३ द. रतिका° । ४ द. °शान् विस्तीर्णं शिखरं सप्त वोच्छ्रितम् । ५ द. °ना प्रपां चाम्य प्र° । ६ द. निर्हरेत् । ७ द. °प्रदो । ८ द. °कां मित्तिं गर्भे । ९ द °काः । १० द. या । ११ द. °की । १२ द. विन्यासात् । १३ द. स्तु । १४ द. समुच्छ्रित तद्दशाभिर्विधेयमतिसुन्दरम् । चतुर्गुणेन...।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३३३
ग्रीवार्धभागिकोत्सेधा (द्वि?) भागेनामलसारकः ।
पद्मशीर्षं तथाऽर्धेन¹ भागेन कलशः स्मृतः ॥ १५४ ॥
त्रिपादौ² रथिकास्तिस्र उच्चायेण प्रकीर्तिताः³ ।
सर्वतोभद्रकाकारो नन्दिशालः प्रकीर्तितः ॥ १५५ ॥
नन्दिशालः ॥
नँन्दिशालस्य संस्थाने तद्रूपे समवस्थिते ।
तस्य भद्राणि सर्वाणि भित्तिभिः परिवेष्टयेत् ॥ १५६ ॥
भद्रे भद्रे तस्यै तस्य वर्धमानं निवेशयेत् ।
अर्धषष्ठांस्तथा भागान् स्याद् भद्रशिखरोच्छ्रयः ॥ १५७ ॥
पीठोच्छ्रायं च जङ्घां च तथास्य शिखरोच्छ्रयम् ।
नन्दिशालसमाकारं सर्वमेव प्रकल्पयेत् ॥ १५८ ॥
कार्योऽयं सर्वदेवानां प्रासादो नन्दिवर्धनः ।
नन्दिवर्धनः ॥
नन्दिवर्धनसंस्थानं पूर्ववत् परिकल्पयेत् ॥ १५९ ॥
उभयोः कर्णयोर्मध्ये ये तत्र रथिके स्थिते¹¹ ।
तयोश्चोपरि कर्तव्यं शिखरं लक्षणान्वितम् ॥ १६० ॥
षडंशाविस्तृतं चैतत्¹² सार्धषट्कसमुच्छ्रितम् ।
चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ॥ १६१ ॥
ग्रीवा चामलसारं च कुम्भकस्याँश्रयो भवेत् ।
कार्यः स सर्वतोभद्रसंस्थान इति निश्चयः ॥ १६२ ॥
मन्दिरोऽयमिति ख्यातः¹⁴ प्रासादः क्षितिभूषणः ।
मन्दिरः ॥
नन्दिवर्धनसंस्थाने तद्रूपसमवस्थिते ॥ १६३ ॥
१ द. ऽर्धस्तदार्धेन । २ द. त्रिपदा रथिकास्तत्र । ३ द. तः । ४ द. अयं श्लोकः पुस्तके
नास्ति । ५ द. ऽर्थे । ६ द. ष्टा । ७ द. यां । ८ द. ऽर्धं । ९ द. प्रतौ नास्ति । १० द. ने ।
११ द. ता । १२ द. व सार्धं । १३ द. ऽर्कश्चास्य यो । १४ द. मिति प्रोक्तः प्रां ।