सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 411, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 411

३४६ समराङ्गणसूत्रधारे
चतुःषष्टिकरे कुर्यात् क्षेत्रे$^१$ मानैकविंशतिः ( ?) ।
सप्तवर्गपदो गर्भो भित्त्या सह विधीयते ॥ २६९ ॥
स्याद्$^२$ गर्भभित्तिर्भागेन भागेनैवान्धकारिका ।
षड्भागं कर्णविस्तारं दशधा प्रविभाजयेत् ॥ २७० ॥
षड्भिर्भागैर्भवेदस्य$^३$ गर्भो भित्त्या समन्वितः ।
बाह्या भित्तिर्भवेद् भागाद् भागैश्चैवान्धकारिकाौ$^४$ ॥ २७१ ॥
द्विभागं कर्णवैपुल्यमुदकान्तरभूषितम् ।
शेषो भद्रस्य विस्तारश्चतुर्थांशविनिर्गतः ॥ २७२ ॥
क्षोभयेदर्धभागे$^५$ तु तदर्धेन जलान्तरम् ।
मत्तवारणकैर्विद्याँत्$^६$ स्तम्भैरुपरि शोभिताः$^८$ ॥ २७३ ॥
रथिकैका त्रिभागेन पुनः सार्धद्विभागिका$^९$ ।
तासां परस्परक्षेपो भागो भागो विधीयते ॥ २७४ ॥
शेषं शिखरविस्तारः$^१$$^०$ सार्धषट्कं तदुच्छ्रयैः$^१$$^१$ ।
पृथक्सूत्रैस्त्रिगुणितैर्वेणुकोशं समालिखेत् ॥ २७५ ॥
स्कन्धकोशान्तरं भागैश्चतुर्भिस्तस्य भाजयेत्$^१$$^२$ ।
ग्रीवार्धभागमुत्सेधो भागेनामलसारकम् ॥ २७६ ॥
पद्मशीर्षस्तै$^१$$^३$(र्षं त)था भागं कलशो भागसंमितः ।
अर्धभागसमो(मुै$^१$$^४$)त्सेधं कारयेद् बीजपूरकम् ॥ २७७ ॥
सर्वकर्णेषु कर्तव्याः$^१$$^५$ क्रियाश्चैवं विचक्षणैः ।
दिक्‌सूत्रबाह्यभागेषु वलभी$^१$$^६$ संनिवेशयेत् ॥ २७८ ॥
निर्गमे पञ्चभागः स्यात् तिर्यक् प्रैक्षिप्तभागिकाः ( ?) ।
अस्यां$^१$$^८$ द्विभागिको गर्भो मंध्ये$^१$$^९$ भागत्रयोच्छ्रितः ॥ २७९ ॥
१ द. क्षेत्रांशानेकविंशति । २ द. भा । ३ द. ष्ध । ४ द. गा । ५ द. काः । ६ द. गं ।
७ द. ॰वैद्या । ८ द. नः (तः) । ९ द. काः । १० द. र । ११ द. या । १२ द. व । १३ द. प्रतौ
नास्ति । १४ द. नास्ति । १५ द. ॰व्या क्रिया सैवं । १६ द. भां । १७ द. स्यात्सप्तभागिकः ।
१८ द. स्य । १९ द. मध्यभागत्रयायतः ।