सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 402, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 402

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३३७
अष्टभिर्विस्तृतं भागैः सार्धैर्नवभिरुच्छ्रितम् ।
सर्वतोभद्रकाकारं शिखरं तस्य कारयेत् ॥ १७५ ॥
प्रासादोऽयं विमानाख्यः प्रख्यातश्चामृतोद्भवः ।
विमानेः ॥
द्विसप्तायामविस्तारं हिमवन्तं विभाजयेत् ॥ १७६ ॥
चतुर्धा रथिकास्तत्र कर्णे कर्णे निवेशयेत् ।
द्विभागविस्तृताः सर्वा उपर्युपरि कारयेत् ॥ १७७ ॥
प्रथमा भूमिका तस्य स्याच्च भागत्रयोच्छ्रितां ।
पादपादविहीनास्तु क्रमणोपरिभूमयः ॥ १७८ ॥
नन्दिशालगुणैर्युक्तं शिखरं चात्र कारयेत् ।
सर्वतोभद्रवन्मध्ये भूमिकाश्च समाचरेत् ॥ १७९ ॥
द्विभागाँ रथिकास्तस्य सर्व(र्वा) भागत्रयोच्छ्रिताः ।
द्वितीयभूमि(कां ?)रथिका भूम्यंशं(च्छा)येण कारयेत् ॥ १८० ॥
शिखरस्योच्छ्रयः कार्यः सपादव्यासैसंमितः ।
अमृतोद्भववज्जङ्घा पीठं चात्र तथा भवेत् ॥ १८१ ॥
जातिशुद्धो भवत्येष हिमवान् भुवनोत्तमः ।
हिमवान् ॥
हिमाचलस्य संस्थाने तद्रूपे समवस्थिते ॥ १८२ ॥
तस्य भद्रेषु सर्वेषु वर्धमानं च योजयेत् ।
भागषट्कप्रविस्तारं तदर्धेन विनिर्गतम् ॥ १८३ ॥
भागैः सप्तभिरप्यस्य सार्धैः स्याच्छिखरोच्छ्रयः ।
शिखरस्याग्रतः स्तम्भः(म्भं)सिंहकर्णे वि(र्गैर्वि)भूषयेत् ॥१८४॥
१ द. प्रतौ नास्ति । २ द. चतस्रो रथिं । ३ द. इ । ४ द. म्यान्म । ५ द. ताः । ६ द.
पदे पदे वि° । ७ द. ग । ८ द. प्रतौ नास्ति । ९ द. प्रतौ नास्ति । १० द. प्रतौ नास्ति । ११ द
न्या । १२ द. भ । १३ द. स्तंभं हंसकर्णे विभू° ।
वा. ४३