सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 406, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 406

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३४१
रत्नकूटः समाख्यातः प्रासादः श्रीपतेरयम् ।
रत्नकूटः ॥
चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते१ऽंशकैः ॥ २१७ ॥
कुर्याद् विभागविस्तारौ२ रथिकाः पञ्च कर्णगाः ।
पञ्चोपरि पुनः पञ्च दद्यादेकां तदूर्ध्वतः ॥ २१८ ॥
प्रथमा भूमिका चास्य कार्या भागत्रयोच्छ्रिता३।
पादपादविहीनास्तु क्रमेणापरभूमयः ॥ २१९ ॥
भद्रकर्णान्तरस्थे४ द्वे रथिके ये तदूर्ध्वतः ।
शिखरं दशविस्तारं कुर्यात् सार्धदशोच्छ्रितम् ॥ २२० ॥
मूलकर्णानुसारेण शिखरं तत्र यद्५ भवेत् ।
तस्य द्वादशविस्तारं त्रयोदशसमुच्छ्रितम् ॥ २२१ ॥
भद्रं विभूषयेत् पत्रैः६ सिंहकर्णैर्मनोरमैः७।
पञ्चव्यासेन सूत्रेण वेत्रकोशं समालिखेत् ॥ २२२ ॥
स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।
पद्मशीर्षं तथा ग्रीवां सार्धभागेन कारयेत् ॥ २२३ ॥
कुर्याद् भागेन भागेन कुम्भं चामलसारकम् ।
नवभागोच्छ्रितां जङ्घां तदधंस्वर९पिण्डकाम् ॥ २२४ ॥
वरण्ड्यन्तरपत्रं च कुर्याद् भागद्वयेन च ।
वैदूर्यो१०ऽयं समाख्यातः प्रासादो दानवद्विषः ॥ २२५ ॥
वैडूर्यः ॥
एतस्यैव८ यदा भद्रे भद्रे स्याद् वर्धमानकः ।
पद्मरागस्तथैवै११ स्याद् कार्योऽयं पद्मरागैः१२तः ॥ २२६ ॥
पद्मरागैः१३ ॥
पद्मरागस्य भद्रेषु वर्धमानं विवर्जयेत् ।
भद्रस्य पार्श्वद्वितये प्रदद्याद् रथिकाद्वयम् ॥ २२७ ॥
१ द. कं । २ द. रः । ३ द. ताः । ४ द. कर्णभद्रा० । ५ द. तत् स्याद्वा० । ६ द. ०द्रलैः ।
७ द. हरैः । ८ द. एवं । ९ द. र्धखुरं० । १० द. डूं० । ११ द. ०दैष । १२ द. जन्मनाः । १३ द.
पुस्तके नास्ति ।