समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 409, कुल 726 में से
संदर्भ में पढ़ें३४४ समराङ्गणसूत्रधारे
रथिकानां च सर्वासां स्वभद्रं विस्तारार्धतः ।
शृङ्गं भद्रं यथैकैकं तथा सर्वाणि कारयेत् ॥ २४८ ॥
दिक्सूत्रेषु (चं¹) सर्वेषु वर्धमानं निवेशयेत् ।
अष्टभागोच्छ्रिता जङ्घा खुरपिण्डं² तदर्धतः ॥ २४९ ॥
ये³(मे)खलान्तरपत्रे च स्यातां भागद्वयोद्गते⁴ ।
प्रथमा रथिकास्तत्र (सपादांशात्स्तू⁵ ?) त्रयोच्छ्रिताः ॥ २५० ॥
पदपादविहीनाः स्युः क्रमेणोपरि भूमयः ।
दिक्सूत्रेषु सकर्णेषु क्रिया प्राग्वद् विधीयते ॥ २५१ ॥
शिखरं दशविस्तारं भागैर्दू⁶(गद्वा)दशकोच्छ्रितम् ।
चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ॥ २५२ ॥
स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ।
ग्रीवा च पद्मशीर्षं च तावँद्⁷ भागार्धमुच्छ्रयात् ॥ २५३ ॥
र्भागमामा(गं चाम⁸)लसारं स्यात् कलशो भागमेव च ।
सां⁹(श)तशृङ्गावृत्तो मेरुरयं¹⁰ प्रासाद ईरितः ॥ २५४ ॥
प्रदक्षिणीकृते तँस्या¹¹ तत्पुण्यं कनकाद्रिणा(?)
शैलेष्टकामये तन् स्यात् कृतेऽस्मिन्नधिकं ततः ॥ २५५ ॥
मेरुः ॥
नन्दिशालस्य संस्थाने तद्रूपे समवस्थिते ।
द्वितीयाँ¹² रथिका कार्या भागद्वयविनिर्गता¹³ ॥ २५६ ॥
शेषो भद्रस्य विस्तारः खविस्तीरोऽ(रा)र्धनिर्गतः¹⁴ ।
अष्टांशायामविस्तारः स्वै¹⁵विस्तारो(रा)र्धनिर्गतः ॥ २५७ ॥
अष्टांशायामविस्तारः(रा) शाला स्यात् पुरतः पुनः ।
तस्या मध्ये भवेद् गर्भो द्विभागायामविस्तरः¹⁶ ॥ २५८ ॥
१ द. पुस्तके नास्ति । २ द. ण्डस्तं । ३ द. प्रतौ नास्ति । ४ द ॰योन्विते । ५ द. सपादांशश्चं । ६ द. प्रतौ नास्ति । ७ द. भवेद् । ८ द. भागमामलसारस्य । ९ द. प्रतौ नास्ति ।
१० द. ॰ह्वयं । ११ द. नस्यायत्पुण्यं । १२ द. य । १३ द. ताः । १४ द. ॰स्तरोर्द्धं । १५ द. पुस्तके नास्ति । १६ द. स्तृतः ।