सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 416, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 416

मेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ३५३
कोणेषु कूटः कर्तव्यो विविधैः कर्मसम्भ्रमैः ।
विस्तारः स्याच्चतुर्भागस्तेषां षड्भाग उच्छ्रयः ॥ ३३ ॥
कर्णा घण्टासमायुक्ताः कूटमानं विधीयते ।
^४तत्र मृत्युक्रमात्(?)कुर्यादेकैकं च तदूर्ध्वतः ॥ ३४ ॥
तेषां च तुल्यता कार्या विस्तारादुच्छ्रयादपि ।
चत्वार एककर्णे स्युरेवं सर्वेषु षोडश ॥ ३५ ॥
सिंहकर्णस्य विस्तारो(र)^८मानं स्यादष्टभागिकम् ।
^६षड्भागस्तु तथोत्सेधो रथिकैश्च विभूषणम् ॥ ३६ ॥
गुणद्वा(ता)^७र्समायुक्तः शूरसेनाभिधानकः ।
सिंहकर्णो विधातव्यः सर्वकर्मसमाकुलः ॥ ३७ ॥
सिंहकर्णोदयादूर्ध्वमुरोमञ्जरिका भवेत् ।
^१०विस्तारादष्टभागासावुच्छ्रायन(यान्न)वभागिका ॥ ३८ ॥
लतापत्रकसंयुक्ता मञ्जरी स्यात् सुशोभितां^११ ।
ग्रीवा पादोनभागा स्यादाण्डकं भागमुच्छ्रितम् ॥ ३९ ॥
^१२चन्द्रिका सार्धभागेन कलशश्चैव भागिकः ।
कूटमूर्ध्वे^१३(र्ध्नि) द्वितीया स्यादुरोमञ्जरिका तथा ॥ ४० ॥^१४
(^१५भागात्तद्वादशविस्तीर्णा तु सार्धा न त्रिदशावाच्छ्रिता?) ।
भागमेकं भवेद् ग्रीवा सार्धभागेन चाण्डकम् ॥ ४१ ॥
^१७कर्पूरं(?) चार्धभागेन कलशश्च द्विभागिकः ।
उरःशिखरकान्य(र्ण्ये)^१८ष्टौ भवन्त्येवं चतुर्द^२०(र्दि)शम् ॥ ४२ ॥
द्वितीयकूटकस्योर्ध्वे कर्तव्या मूलमञ्जरी ।
^२१भागषोडशविस्तारा पादाष्टादशकोदयः(या) ॥ ४३ ॥
१ द. रं । २ द. र्ण । ३ द. कं । ४ द. तत्र दृक् प्रक्रमात् कुं° । ५ द. रं । ६ द. तद्भागश्च
तथोत्सेधा रथकैकश्च । ७ द. पु. नास्ति । ८ द. रः । ९ द. णै । १० द. विस्तरो दृष्टभागं स्यादुच्छ्रय-
नवभागिकाः ॥ पुस्तकस्य पाठः । ११ द. ताः । १२ द. चंडिका । १३ द. प्रतौ नास्ति । १४ द.
यः । १५ द. भागान् द्वादशविस्तीर्णान् सार्धां त्रिदशोच्च्छ्रितान् ॥ पुस्तकस्य पाठः । १६ 'भागद्वादश-
विस्तीर्णा सार्धोनत्रिंशतोच्छ्रिता' इति स्यान् । १७ द. चंडिकं । १८ द. कर्पूरं चात्र भागेन । १८ द.
पुस्तके नास्ति । २० द. प्रतौ नास्ति । २१ द. गं । २२ द. पराष्टादशकोटे यः ।
वा. ४५