समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 419, कुल 726 में से
संदर्भ में पढ़ें३५६ समराङ्गणसूत्रधारे।
कर्मप्रमाणमेतस्य पृथङ् मध्येऽभिधीयते ।
द्विपदं (रोजासेनं स्याद्वेदा + + चतुष्पदा (?) ॥ ६७ ॥
भवत्यासनपट्टस्य कल्पना भागमानतः ।
सार्धं भागद्वयं कार्यमूर्ध्वं चन्द्रावलोकनम् ॥ ६८ ॥
स्तम्भानासनपट्टार्धेन युञ्ज्यादष्टभागिकान् (?) ।
भरणस्तम्भशीर्षे च प्रत्येकं पदके स्मृते ॥ ६९ ॥
द्विपदश्चार्धपट्टः स्याच्छाद्यैकेन सुशोभितः ।
त्रिपदं छाद्यकं तत्र विस्तारेण प्रकीर्तितम् ॥ ७० ॥
एतन्मानं समाख्यातमलिन्देषु चतुर्दिशम् ।
ऊर्ध्वमन्तरपत्रस्य कथयामो यथाक्रमम् ॥ ७१ ॥
षट्पदे कर्णविस्ताराँ(रे) सप्तांशा कर्णमञ्जरी ।
ग्रीवामर्धपदं कुर्यात् पदमेकं तथाण्डकम् ॥ ७२ ॥
अर्धांशा चन्द्रिका च स्यादेकांशः कलशोच्छ्रयः ।
अँस्योरोमञ्जरी कार्या विस्तारेण चतुष्पदा ॥ ७३ ॥
ग्रीवाण्डके११ विधातव्यं(व्ये) भागेनार्धेन कुम्भकः ।
सिंहकर्णस्तु कर्तव्यो द्विपदोऽस्यैव मध्यतः ॥ ७४ ॥
इत्थं पञ्चाण्डकाः कर्णे हेमकूटेषु कीर्तिताः ।
अष्टांशविस्तृतं कुर्यादुदयेन च षट्पदम् ॥ ७५ ॥
अलिन्दस्योर्ध्वभागस्तं(स्थं) सिंहकर्णं मनोरमम् ।
सिंहकर्णे द्विभागस्थो(स्थां) द्वादशांशकविस्तृतै(ताम्) ॥ ७६ ॥
उरोमञ्जरिकां कुर्यात् त्रयोदशपदोच्छ्रिताम् ।
सप्तांशविस्तृतः स्कन्धो ग्रीवा च पदमुच्छ्रिता ॥ ७७ ॥
१ द. वि । २ द. राजसेनं स्यात् वेदी तस्य चतुष्पदा ॥ मुद्रित पुस्तके पाठांतरः तु 'राजासनं स्याद्
वेदी चास्य चतुष्पदा ' इति स्यात् । ३ द. ᵒसनगाशर्वे नियूᵒ । ४ द. दि । ५ द. य । ६ द. य ।
७ द. प्रतौ नास्ति । ८ द. अर्द्धा स्याच्चंᵒ । ९ द. श । १० अस्येरो मंजरी ? ११ द. ᵒकं । १२ द.
ᵒर्णाेऽस्य । १३ द. प्रकीᵒ । १४ द. नास्ति । १५ द. ᵒणे । १६ द. ᵒद्वे । १७-१८ द. प्रतौ नास्ति ।
१९ द. ताः ।