समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 420, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३५७
अण्डकं सार्धभागेन चन्द्रिकार्धपदा स्मृता॑ ।
आकाशलिङ्गं कुर्वीत द्विपदं सुमनोरमम् ॥ ७८ ॥
विस्तारो मूलमञ्जर्या भागविंशतिसंमितः ।
उच्छ्रायोऽस्यैकविंशत्या स्कन्धो द्वादशभागिकः ॥ ७९ ॥
पञ्चभौमैस्तु कर्तव्यो यथा चारुः स जायते ।
प्रथमा भूमिका तत्र पञ्चभागा विधीयते ॥ ८० ॥
परा परार्धभागेन न्यूना न्यूना विधीयते ।
स्कन्धमानं विधातव्यं पदेनैकेन चोन्नतम् ॥ ८१ ॥
विभज्य दशधा कुर्याल्लताः पश्चातिसुन्दरीः४।
हेमकूटस्य कर्णेषु प्रत्यङ्गे नरकिन्नराः ॥ ८२ ॥
मै(अ)न्ये तिलककूटाश्च कर्तव्यास्तु निरन्तराः ।
ईदृशी मञ्जरीहै(है)मे विधेया कूटनिर्गता( : ?)७ ॥ ८३ ॥
ग्रीवा सार्धपदा प्रोक्तो८ (क्ता) विस्तारादष्टभागिका( : ?)९ ।
अण्डकं द्विपदोत्सेधमेकादशपदायतम् ॥ ८४ ॥
द॑ण्डिका सार्धभागो वै (चा) विस्तारा १२न(न्न)वभागिका ।
त्रिपदः कलशः कार्यों विस्तारेणोच्छ्रयेण च ॥ ८५ ॥
एवंविधं विधत्ते यो हेमकूटं मनोरमम् ।
स क्रीडति पुमान् स्वर्गे यावत् क्रीडा पिनाकिनः ॥ ८६ ॥
हेमकूटः ॥
सुभद्राख्यमथ ब्रूमः प्रासादं भद्रभद्रकम् ।
सुभद्रोऽयमतः प्रोक्तो भद्रे१३ भद्रे यतोऽन्वितः ॥ ८७ ॥
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ।
गर्भः षोडशभिर्भागैः स्क(क)न्दः षट्पदविस्तृतः ॥ ८८ ॥
१ द. ताः । २ द. भू० । ३ द. रु । ४ द. री । ५ द. मध्यैतिं । ६ द. प्रतौ नास्ति ।
७ द. ताः । ८ द. प्रतौ नास्ति । ९ द. काः । १० द. चंद्रिका । ११ द. प्रतौ नास्ति । १२ द. °रा
न विभा° । १३ द. भद्रै र्भद्रैर्य° ।