समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
DevanagariHindipublished726 पृष्ठ
पृष्ठ 404, कुल 726 में से
संदर्भ में पढ़ेंपृष्ठ 404रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३३२
रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३३२
विमानसदृशी चास्य बाह्यलेखा विधीयते ।
गुणैरेभिस्तदा युक्तः प्रासादः पृथिवीजयः ॥ १९६ ॥
पृथिवीजयः ॥
भक्ते षोडशभिः क्षेत्रे चतुरश्रे समन्ततः ।
गर्भोऽष्टवर्गः स्यात् तस्य मध्ये भित्तिर्द्विभागिका ॥ १९७ ॥
भ्रमणं बाह्यभित्तिंश्च तत्समे एव कीर्तिते³ ।
कर्णेषु रथिका कार्या सलिलान्तरभूषिताँ ॥ १९८ ॥
तत्तुल्यायामविस्तारा रथिकाः स्युस्तथापराः ।
तद्भूत् तृतीयरथिका भद्रं चतुष्पदायतम् ॥ १९९ ॥
विस्तारार्धेन निष्क्रान्तं क्षोभयेद् वर्धमानतैः ।
⁶वरण्ड्यन्तरपत्रे च सार्धे( र्ध )भागेन कारयेत् ॥ २०० ॥
उपर्युपरि भांगान् हि हीनाः स्युः क्रमशोभवः (?) ।
भद्रे रथिकयोर्मध्ये सिंहकर्णो⁹ विधीयते ॥ २०१ ॥
एतस्य चोच्छ्रयो भागैः पञ्चभिः परिकीर्तितः ।
पार्श्वस्थे सिंहकर्णस्थंरथिके ये निवेशिते ॥ २०२ ॥
तयोरुपरि षड्भागं विस्तृतं शिखरं भवेत् ।
विधेयमुच्छ्रयेणैतत् त्रिं¹¹भागान् सप्ताथ(प्रै¹⁴)वाधिकान् ॥ २०३ ॥
पक्षयोरुभयोस्तस्य रथिके (चैं¹³) तदूर्ध्वतः ।
सिंहं निवेशयेद् दिक्षु निखिलाखप्ययं विधिः ॥ २०४ ॥
मूलकर्णे ततश्चार्धं शिखरं दशविस्तृतम् ।
एकादशोच्छ्रितं कार्यं क्रमवृत्त्या मनोरमम् ॥ २०५ ॥
चतुर्गुणेन सूत्रेण वेणुकोशं ततो लिखेत् ।
पूर्वोक्ता सांतरंभागेरमुष्या(?) विभजेत् त्रिभिः ॥ २०६ ॥
१ द. पुस्तके पाठः नारित । २ द. तेस्तु । ३ द. के( की )र्च्यते । ४ द. ताः । ५ द. कः ।
६ द. इतः पूर्वं-चतुरुष्वपि चाशासु विधातव्यो विधिर्बुधैः । अष्टभागोच्छ्रिता जंघा खुरकश्च तदर्द्धतः ॥
पुस्तकस्य अधिकः पाठः । ७ द. भागांह्रीहीँ । ८ द. भुवः । ९ द. र्णौ । १० द. ०र्णस्तु रथिको ।
११ द. पुस्तके नास्ति । १२ द. पुस्तके नास्ति । १३ द. ०के ये तं । १४ द. श्चोर्द्धं । १५ द.
०ध्या । १६ द. ०क्तास्यांतरं भागैरमुष्य वि० ।