सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 408, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 408

रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३४३
राजहंसस्य संस्थाने तृतीये'(य)रथिकोपरि ॥ २३८ ॥
यदोर(स्य)शिखरं सप्तसमुच्छ्रायं षडायसम् ।
स्यात् तदा गरुडो नाम गरुडध्वजवल्लभः ॥ २३९ ॥
प्रासादः सर्व† ³ + + + + + कारयितुस्तथा ।
गरुडः ॥
अस्यैव मूलशिखरं त्यक्त्वा भागद्वयोन्मितम् ॥ २४० ॥
क्रियन्ते रथिकाः पू⁴(क)र्णे तदूर्ध्वं मूलमञ्जरी ।
क्रियते द्वादशोच्छ्राये⁵(या) दशभागायता यदा ॥ २४१ ॥
तदा स्याद् वृषभो नाम वृषभध्वजवल्लभः ।
वृषभैः ॥
स(श)तार्धहस्तविस्तारं ज्येष्ठं मेरुं प्रकल्पयेत् ॥ २४२ ॥
मध्यमे हस्तसंख्या स्यात् (षट्त्र्यं द्विकालाधिकः?) ।
दशत्रिगुणितां (हस्ताभ्यां?)संख्या प्रोक्ता कनीयसि ॥ २४३ ॥
चतुरश्रीकृते क्षेत्रे भागविंशवि¹²(ति)भाजिते ।
विस्तारार्धं भवेद् गर्भगृहं¹³(र्भगृहं)भित्त्या समन्वितम् ॥ २४४ ॥
भागप्रमितविस्तारा गर्भभित्तिर्विधीयते ।
सार्धद्विभागान्या भित्तिस्तदूर्ध्वान्धकारिका( : ? ) ॥ २४५ ॥
द्विभागा रथिका कार्या कर्णे¹⁴ कर्णे विजानता ।
चतुर्भागा रथा भद्रेष्वेतदर्धेन (वि?)निर्गताँ¹⁵ ॥ २४६ ॥
भद्रकर्णान्तयोः कार्या¹⁶ यदाष्टांश(यं¹⁷ तदष्टांशं)जलान्तरम् ।
भद्राणां रथिकाः कार्याः पार्श्वयोरुभयोस्तथा ॥ २४७ ॥
१ द. पुस्तके पाठः नास्ति । २ द. यदोरः शि° । ३ द. कामाप्त्यै कर्तुः । ४ द. पुस्तके नास्ति ।
५ द. पुस्तके 'ये' इति पाठः नास्ति । ६ द. प । ७ द. पुस्तके नास्ति । ८ द. पुस्तके नास्ति ।
९ द. षट्त्रिंशद्विकलाधिका । १० द. गुणिता हस्ता । ११ धनूरेखान्तर्गत 'हस्त' इति स्यात् । १२ द.
'वि' इति पाठः नास्ति । १३ द. गर्भं गृह । १४ द. र्याः । १५ द. विस्तृताः । १६ द. कार्यं
पादाष्टांशजं । १७ द. °का कार्या ।
† 'कामार्थः कर्तुः' इत्येवञ्जातीयं लुप्ताक्षरस्थाने निवेश्यम् ।