सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 407, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 407

३४२ समराङ्गणसूत्रधारे
व्यासोच्छ्रायैश्च भद्राणि सिंहकर्णैर्विभूषयेत् ।
यदन्यदस्य तत् सर्वं पद्मरागसमं भवेत् ॥ २२८ ॥
वज्रकोऽयं समाख्यातो विधेयस्त्रिपुरद्विषः ।
वज्रकः ॥
वज्रकस्यैव भद्रेषु पूर्ववद् रथिकास्थितौ ॥ २२९ ॥
षड्भागविस्तृतं तत्र शिखरं विनिवेशयेत् ।
सप्तभागसमुत्सेधं दिक्षु सर्वास्र्वयं विधिः ॥ २३० ॥
मुकुटोज्ज्वल इत्युक्तः प्रासादोऽयं सुरालयः ।
मुकुटोज्ज्वलः ॥
अस्यैव तु यदा स्थाने भद्रे भद्रे चतुर्दिशम् ॥ २३१ ॥
सिंहकर्णं परित्यज्य वर्धमानो विधीयते ।
ऊर्ध्वाभवत्तृतीयायाः( ? ) सप्तोच्छ्रायैषडायताः ॥ २३२ ॥
ऐरावतोऽयं कर्तव्यः प्रासादस्त्रिदशेशसँतिः( शितुः ) ।
ऐरावतः ॥
ऐरावतस्य संस्थाने प्रासादे पूर्ववत् स्थिते ॥ २३३ ॥
वर्धमानं विहायोर्ध्वं यदा सिंहो निवेश्यते ।
शिखराणि च चत्वारि दिक्षु सर्वासु वर्जयेत् ॥ २३४ ॥
क्षेत्राया( ष्टामे ? )र्विस्तारं गर्भवेश्म निवेशयेत् ।
चतुर्भागायतं भद्रं निर्गमेण विभाजितम् ॥ २३५ ॥
भद्रत्रयं प्रयुञ्जीत भित्तिभागेन वेष्टितम् ।
द्वारोच्छ्रयं स(ख)विस्ताराद् व( द्वा )रार्धेन समुच्छ्रयः ॥ २३६ ॥
गवाक्षस्तत्र कर्तव्यो यथा द्वारं न लङ्घ्यते ।
मध्ये चतुष्किका कार्या द्विभागायामविस्तृता ॥ २३७ ॥
प्रासादो राजहंसोऽयं ब्रह्मादीनां प्रशस्यते ।
राजहंसः ॥
१ द. स्तु । २ द. ऊर्ध्व भवस्तृ˚ । ३ द. यः । ४ द. ˚शालयः । ५ द. माष्ट वि । ६ द. निक्रम् ।
७ द. ˚च्छ्रायं सविस्तारा द्वा˚ । ८ द. ताः ।