सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 414, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 414

रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३४९
महामर्माणि चत्वारि कुर्याद् यैत्ताद्यतोत्तरे (?)।
क्षणमध्येषु सर्वेषु द्रव्यमेकं न दापयेत् ॥ ३०१ ॥
तदा युग्म + + + + वेधमर्म विवर्जयेत् ।
क्षणमध्ये यदा द्रव्यमेकं मोहात् प्रदीयते ॥ ३०२ ॥
कर्तृकारकयोः पीडा भवेत् पूजा न तादृशी ।
तस्मात् सर्वप्रयत्नेन स्थपतिः कारकोऽपि च ॥ ३०३ ॥
मर्माणि वर्जयेद् यत्नात् प्रासादस्य समीपतः ।
अथ मर्मवियुक्तो(क्तं) यः प्रासादं कर्तुमिच्छति ॥ ३०४ ॥
प्रासादतः सदा तेन विधेयं महदन्तरम् ।
(प्रासादां तूत्तरं क्वः) कार्यं फलपुष्पैर्विभूषितम् ॥ ३०५ ॥
य एतैर्लक्षणैर्युक्तं कारयेद् देवतालयम् ।
धनधान्यमवाप्नोति मोदते सुखमेव च ॥ ३०६ ॥
हरो हिरण्यगर्भश्च हरिर्दिनकरोऽपि च ।
एते देवाः समाख्याता देवनामपि पूजिताः ॥ ३०७ ॥
पृथक्त्वेन च कर्तव्या एकरूपसमन्विताः ।
अष्टबाहुश्चतुर्वक्त्रः कुण्डली मुकुटोज्ज्वलः ॥ ३०८ ॥
हारकेयूरसंयुक्तो रत्नमालोपशोभितः ।
ऋष्यागतपुरः कार्यः पद्महस्तो दिवाकरः ॥ ३०९ ॥
शङ्खचक्रधरो देवो वामे च मधुसूदनः ।
कण्ठाभरणसंयुक्तो मूर्धा च मुकुटोज्ज्वलः ॥ ३१० ॥
ब्रह्मा पश्चिमत्तः कार्यो बृहज्जठरमण्डलः ।
कुण्डिकामक्षसूत्रं च दधत् कूर्चविभूषितः ॥ ३११ ॥
प्रासादा रुचकादयोऽत्र ललिताः प्राग् विंशतिः पञ्चयुक्
तावन्तश्च ततोऽनु केसरिमुखाः( स )न्धारकाः कीर्तिताः ।
१ 'यत्नाद्यथोत्तरम्' इति स्यात् ।