समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 405, कुल 726 में से
संदर्भ में पढ़ें३४० समराङ्गणसूत्रधारे
ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम् ।
पद्मशीर्षं तथार्धेन कलशश्चांशकोदयः ॥ २०७ :
देवानाम्यालयः स स्यादिन्द्रनीलोऽयमीरितः ।
इन्द्रनीलः ॥
एतस्यैव यदोर्ध्वस्थं शिखरं क्रियतेऽन्यथा ॥ २०८ ॥
चतुर्थी रथिका चास्य दीयतेऽतिमनोरमा ।
पूर्वोक्तेन विधानेन पादं वि³ + + वर्जिता ॥ २०९ ॥
शिखरस्याष्टंविस्तारो नव भागास्तथोच्छ्रयः ।
इन्द्रनीलस्य सदृशं शेषमन्यद् विधीयते ॥ २१० ॥
महानीलोऽयमाख्यातः प्रासादस्त्रिदशालयः ।
महानीलँः ॥
इन्द्रनीलस्य संस्थाने दिक्सूत्रेषु समन्ततः ॥ २११ ॥
सर्वतोभद्रशिखरं हित्वा (हो⁷+?)निवेशयेत् ।
विधिरेष समस्तासु ककुप्सु प्रविधीयते ॥ २१२ ॥
भद्रेषु वर्धमानस्य विन्यासं परिवर्जयेत् ।
व्यासोच्छ्रितैः सिंहकर्णैर्भद्रमस्य विभूषयेत् ॥ २१३ ॥
महानीलस्य सदृशं सर्वमस्य प्रकल्पयेत् ।
इन्द्रगोपनिभाकारः प्रासादो भूधरः स्मृतः ॥ २१४ ॥
सुरेश्वरस्य कर्तव्यो नान्येषां कथमप्यसौ ।
भूधरः ॥
भूधरस्य तु संस्थाने तद्रूपे समवस्थिते⁹ ॥ २१५ ॥
भद्रे¹¹ भद्रे पुनः प्राज्ञो वर्धमानं निवेशयेत् ।
चतुर्भागमितैर्व्यासं सार्धचतुःसमुच्छ्रितम् ॥ २१६ ॥
१ द. म्यणि । २ द. माः । ३ द. पादपादविवर्जिताः । ४ द. थ। ५ द. भागे तथो° ।
६ द. प्रतौ नास्ति । ७ द. हित्वा सिंहो निवेश्यते । ८ द. मन्यत् । ९ द. ता । १० द. °तौ ।
११ द. भद्रेषु न प्रा° । १२ द. ति न्यासं सार्ध ।