सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

॥ ४२ ॥`
All clear.

Line 22:
ताम्रजं पुष्परागस्य स्फटिकस्य तु (७)राजितम् ।
Footnote (७): (७) 'राजतम्' इति स्यात् ।
Text has (७)राजितम् ।

Line 23:
ताम्रजं मौक्तिकस्यापि शेषाणां हेमजं मतम् ॥ ४३ ॥
All clear.

Line 24:
[ इति पीठविधिः ]
All clear.

Let's check the footnotes at the bottom:
Divider line:
────────────────────────────────────────
(१) 'रजतञ्चैव राज्यदम्' इति स्यात् । (२) 'राङ्गं ताम्रमायुःप्रवर्धनम्' इत्याकरे ।
(३) 'विद्वेष-' इति स्यात् । (४) 'वंशकृल्लिङ्ग-' इति स्यात् । (५) 'रिपु-' इति
स्यात् । (६) '-वहम्' इति स्यात् । (७) 'राजतम्' इति स्यात् ।
रूप—४

Wait, let's verify footnote (२):
(२) 'राङ्गं ताम्रमायुःप्रवर्धनम्' इत्याकरे ।
Yes, perfectly matches!

Wait, let's verify footnote

२६ रूपमण्डने
समस्तमणिजातीनां (१)दीप्तसान्निध्यकारकम् ।
( मनोन्मानं प्रमाणानि तेषु ग्राह्यं नवाम्बुदैः ? ) ॥ ४४ ॥*
[ इति लिङ्गोचिता मणयः ]
शैलेयं भोगदं लिङ्गं मृन्मयं सर्वकामदम् ।
दारुजं वसुसिद्ध्यर्थं सर्वमेतच्चलाचलम् ॥ ४५ ॥
[ इति चलाचललिङ्गम् ]
एकाङ्गुलादिपञ्चान्तं चललिङ्गञ्च कन्यसम् ।
षट्पर्वादिदशान्तञ्च मध्यमेकादशादितः ॥ ४६ ॥
[ इति चललिङ्गम् ]
नैकहस्तादधो(२)वाद्यं प्रासादे स्थिरतां नयेत् ।
स्थिरं तत् स्थापयेद् गेहे (३)गृण्यां हे दूरकृद् यतः ॥ ४७ ॥
[ इति स्थिरलिङ्गम् ]
(४)वाणलक्षणहीनेऽपि यत्न वै रोचते मनः ।
तत्र पूजां प्रकुर्वीत धर्मकामार्थमोक्षदम् ॥ ४८ ॥
[ इति लक्षणादिहीनस्यापि पूज्यत्वम् ]
रत्नमेकाङ्गुलं लिङ्गमङ्गुलाङ्गुलवृद्धितः ।
नवान्तं नवलिङ्गञ्च वृद्धिर्वा मुद्गमानिका ॥ ४९ ॥
[ इति रत्नलिङ्गमानम् ]
धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् ।
त्रिहस्तान्तं नवैव स्युर्लिङ्गानि च यथाक्रमम् ॥ ५० ॥
[ इति धातुलिङ्गमानम् ]
दृढकाष्ठमयं लिङ्गं कर्तव्यं षोडशाङ्गुलम् ।
षोडशाङ्गुलिका वृद्धिः षट्करान्तं नवैव हि ॥ ५१ ॥
[ इति दारुवलिङ्गमानम् ]
(१) ‘दीप्तिः सान्निध्यकारणम्’ इति स्यात् । (२) ‘लिङ्गं’ इति स्यात् ।
(३) ‘गृहांहोदूरकृद्’ इति स्यात् । (४) ‘वर्ण-’ इति स्यात् ।

  • अत्राऽऽदर्श चतुश्चत्वारिंशसंख्याबोधकोऽङ्को नोपलभ्यते, तत्संख्याकः श्लोकः
    पतितो न वेति चिन्तनीयम् । अस्माभिस्तु यथाक्रममेवाङ्का निवेशिताः ।

चतुर्थोऽध्यायः २७
हस्तादिनवहस्तान्तं शैलं लिङ्गं विधीयते ।
हस्तवृद्ध्या नवैव स्युर्मध्ये वृद्धिर्यदृच्छया ॥ ५२ ॥
[ इति शैललिङ्गमानम् ]
मृद्दारुलोहशैलानां दैर्घ्ये भक्ते जिनांशकैः [२४] ।
कुर्यात् षट्सार्धसप्ताष्टनवांशै(१)स्तरं शुभम् ॥ ५३ ॥
[ इति लिङ्गमानम् ]
श्रीपर्णी (२)शिंशपाशोकशिरीषः (३)खादिनोऽर्जुनः ।
चन्दनः श्रीफलो निम्बो रक्तचन्दनबीजकौ ॥ ५४ ॥
कर्पूरो देवदारुश्च चन्दनः पारिजातकः ।
चम्पको मधुवृक्षश्च हिन्तालश्चागुरुः शुभाः ॥ ५५ ॥
[ इति लिङ्गवृक्षाः ]
(४)निर्व्रणाः × × × सर्वे लिङ्गार्थे सौख्यदायकाः ।
ग्रन्थिकोटरसंयुक्तान् शाखोद्भूतान् परित्यजेत् ॥ ५६ ॥
[ इति वृक्षलक्षणम् ]
निलयं दारुलिङ्गानामिष्टकादारुजं शुभम् ।
शैलजं धातुरत्नानां स्वरूपं चाधिकं शुभम् ॥ ५७ ॥
[ इति दार्वादिलिङ्गोचिताः प्रासादाः ]
धातुजे रत्नजे बाणे दारुजे च स्वयम्भुवि ।
(५)गृह्नूनाधिकं वाऽपि (६)वक्तृलिङ्गिषु पार्थिवः ॥ ५८ ॥
हस्तमानं भवेल्लिङ्गं वेदहस्ते सुरालये ।
(७)ज्येष्ठलिङ्गे तु वेदांशं षट्त्रिंशं नवहस्तकम् ॥ ५९ ॥
पञ्चादिभूतवेदांशे प्रासादे हस्तसंख्यया ।
मध्यमं पञ्चमांशेन हस्तादिनवहस्तकम् ॥ ६० ॥
(१) '-र्विस्तरं' इति स्यात् । (२) 'शिंशपाऽशोकः' 'शिशुकाऽशोकः' इति वा
स्यात् । (३) 'खादिरो-' इति स्यात् । (४) 'निर्व्रणाः' इत्यनन्तरं 'सुदृढा' इति
त्रुटितं स्यात् । (५) 'गृहं न्यूनाधिकं' इति स्यात् । (६) 'वक्त्रलिङ्गेषु पार्थिवे'
इति स्यात् । (७) 'ज्येष्ठलिङ्गन्तु वेदांशे षट्त्रिंशे' इति स्यात् ।

२८ रूपमण्डने
(कृत्वादियुगल्त्वान्तं ?) हस्तसंख्ये शिवालये ।
षष्ठांशेन प्रकर्त्तव्यं हस्तादिनवहस्तकम् ॥ ६१ ॥
(१) कनिष्ठाज्येष्ठलिङ्गेषु मध्यममध्यमेषु च ।
प्रासादाः कन्यसे ज्येष्ठाः सीमामानमिदं स्मृतम् ॥ ६२ ॥
गर्भे पञ्चांशके ल्यंशो ज्येष्ठलिङ्गं तु मध्यमम् ।
नवांशं पञ्चभागं स्याद् गर्भार्धं कन्यसोदयम् ॥ ६३ ॥
[ इति प्रासादमानेन लिङ्गमानम् ]
पद्मं शङ्खो ध्वजा छत्रं (२) खड्गशक्तिरुचामरे ।
वज्रं (३)दण्डोर्ध्वभागञ्च चक्रं मत्स्यौ घटः शुभः ॥ ६४ ॥
सौख्यदं चिह्न(४)मित्याद्यामावर्त्तो दक्षिणेऽपि यः ।
श्वेतरक्ता पीतकृष्णा रेखा वर्णेषु सौख्यदा ॥ ६५ ॥
[ इति लिङ्गे शुभचिह्नानि ]
ब्रह्मांशश्चतुरस्रोऽधो मध्येऽष्टास्रस्तु वैष्णवः ।
पूजाभागः सुवृत्त(:) स्यात् पीठोर्ध्वं शङ्करस्य च ॥ ६६ ॥
[ इति लिङ्गे ब्रह्मादिभागाः ]
पूजायामे कलांशे च (५)लिङ्गचित्रं दशांशकैः ।
पीठस्यार्धे द्विभागे च रेखा कार्या प्रदक्षिणे ॥ ६७ ॥
(मस्तकं मानमध्ये तु बाह्येऽङ्गे राष्ट्रविभ्रमः ।?)
(६)छत्राभमष्टमांशेन (७)सार्धे द्वयंशषडङ्गके ॥ ६८ ॥
त्रपुषाभं विस्तारार्धं कुक्कुटाण्डं शिरो मतम् ।
त्रिभागे लिङ्गविस्तारे एकांशोनार्धचन्द्रकम् ॥ ६९ ॥
सार्धव्यंशेन तुल्यं स्यादष्टांशे बुद्बुदाकृति(?): ।
ऊर्ध्वाधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् ॥ ७० ॥
[ इति लिङ्गस्योर्ध्वादिभागाः ]
(१) 'कनिष्ठ-' इति स्यात् । (२) 'खड्गः' इति स्यात् । (३) 'दण्डोऽर्ध-चन्द्रश्च' इत्यन्यत्र । (४) '-मित्याद्यमावर्त्तो' इति स्यात् । (५) 'लिङ्गं चिह्नं' इति स्यात् । (६) 'छत्राभमि'ति स्यात् । (७) 'सार्धद्व्यंशे षडंशके' इति स्यात् ।

चतुर्थोऽध्यायः २६
दीर्घे वा सन्धिरेखाभिर्युक्तकाकपदाकृति(:?) ।
लिङ्गं नान्याश्रितं लिङ्गमाश्रिताः सर्वदेवताः ।
स्थापयेन्मुख्यदेवस्य (१)स्कन्दमेढ्रान्तरे सुरान् ॥ ७१ ॥
इति घटितरत्नलिङ्गलक्षणम् ।
वाराणस्यां प्रयागे च गङ्गायाः सङ्गमेषु च ।
कुरुक्षेत्रे सरस्वत्यां बाणलिङ्गं सुखावहम् ॥ ७२ ॥
यानि वै नर्मदायाञ्च अन्तर्वेद्याञ्च सङ्गमे ।
केदारे च प्रभासे च बाणलिङ्गं सुखावहम् ॥ ७३ ॥
[ इति बाणोत्पत्तिस्थानम् ]
त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते ।
तदा बाणः समाख्यातः शेषं पाषाणसम्भवम् ॥ ७४ ॥
[ इति बाणपरीक्षा ]
स्थूलं (२)खण्डञ्च दीर्घञ्च स्फुटितं छिद्रसंयुतम् ।
बिन्दुयुक्तं च शूलाग्रं कृष्णं च चिपिटं तथा ॥ ७५ ॥
(३)चक्रञ्च मध्यहीनञ्च बहुवर्णञ्च यद् भवेत् ।
वर्जयेन्मतिमाँल्लिङ्गं सर्वदोषकरं यतः ॥ ७६ ॥
[ इति वर्ज्यलिङ्गानि ]
ग्रन्थान्तरे ;—
महानदीसमुद्(४)भूतसिद्धक्षेत्रादिसम्भवम् ।
पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सुधीः ॥ ७७ ॥
सदोषं गुणसंयुक्तं बाणं पूज्यं हि नित्यशः ।
बलालक्ष्मीं समाकृष्य भुज्यते बाणलिङ्गतः ॥ ७८ ॥
(५) सर्वं व्रततपो दानं तीर्थे देवेषु यत् फलम् ।
तत् फलं कोटिगुणितं प्राप्यते लिङ्गपूजनात् ॥ ७९ ॥


(१) 'स्कन्ध-' इति स्यात् । (२) 'खर्वञ्च' इति स्यात् । (३) 'वक्रञ्च'
इति स्यात् । (४) '-भूतमि'ति स्यात् । (५) 'सर्वव्रततपोदानतीर्थदेवेषु' इति स्यात् ।

३० रूपमण्डने
शतवारं कुरुक्षेत्रे सहस्रं जाह्नवीजले ।
लक्षवारं नर्मदायां कोटिं च कुरुजाङ्गले ॥ ८० ॥
कृत्वा स्नानं तथा पिण्डं होमं दानं च भोजनम् ।
(१)गुणिते कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ८१ ॥
(२) पद्मे वै शतहस्तेषु (३)बाणेषु च शतेषु च ।
स्वयम्भुवि सहस्रान्तं शिवतीर्थोदकं स्मृतम् ॥ ८२ ॥
[ इति बाणलिङ्गप्रशंसा ]
लिङ्गायामसमं दैर्घ्ये उच्छ्रायः पीठिकासमः ।
(४)समभागयतो वृष(:)पञ्चभागोन्नतो भवेत् ॥ ८३ ॥
बाणलिङ्गे वृषं कुर्यात् (५)स्वयम्भूर्मुखमृन्मये ।
शते सहस्रलिङ्गे च वृषं न्यूनाधिकं विदुः ॥ ८४ ॥
[ इति वाहनविधिः ]
विस्तारस्य विभागेन प्रणालं चाधिकं मतम् ।
(६)तदर्धे नम्रविस्तारं त्रिभागो जलवाहकः ॥ ८५ ॥
इति लिङ्गानि ।
पृथुत्वं पीठिकायास्तु लिङ्गायामसमं भवेत् ।
उदयो विष्णुभागान्ते उमावत् पीठिका स्मृता ॥ ८६ ॥
जात्यैकया विधातव्यं (७)नित्यमन्यन्योसंकुलम् ।
आहुः शैलद्रुमे केचित् पीठं पक्केष्टकामयम् ॥ ८७ ॥
उपर्युपरि पीठानां सन्धिरङ्गावसानके ।
(८)जालस्य मध्यमध्ये च कर्णे सन्धि न सन्धयेत् ॥ ८८ ॥
चतुरस्रादिवृत्तान्ता पीठिका दशधा स्मृता ।
उन्नता दर्पणाकारा बाह्ये मेखलयाऽन्विता ॥ ८९ ॥
(१) ‘गुणितं’ इति स्यात् । (२) ‘धातवे’ इति ‘घटे वै’ इति वा स्यात् ।
(३) ‘बाणे पञ्चशतेषु च’ इति स्यात् । (४) ‘समभागायतो वृषः’ इति स्यात् ।
(५) ‘स्वयम्भूमुख-’ इति स्यात् । (६) ‘तदर्धेनाग्रविस्तारं’ इति स्यात् ।
(७) ‘नेष्टमन्योन्य-’ इति स्यात् । (८) ‘नालस्य’ इति स्यात् ।

चतुर्थोऽध्यायः ३१
(१)त्रिंशोदंशस्तु पिण्ड्याश्च जगत्याश्च परिक्षिपेत् ।
ऊर्द्धाधो (जाड्यकुम्भस्य ?) तन्मध्ये कनकं भवेत् ॥ ९० ॥
(अर्द्धा ?) दैर्घ्यसमा दैर्घ्ये लिङ्गायामयता भवेत् ।
यस्य देवस्य या पत्नी पीठे तां परिकल्पयेत् ॥ ९१ ॥
इति पीठिका ।
मुखलिङ्गं त्रिवक्त्रं वा एकवक्त्रञ्चतुर्मुखम् ।
सम्मुखं चैकवक्त्रं स्यात्त्रिवक्त्रे पृष्ठतो नहि ॥ ९२ ॥
पश्चिमास्यं स्थितं शुभ्रं कुङ्कुमाभं तथोत्तरम् ।
याम्यं कृष्णं करालं स्यात् प्राच्यां दीप्ताग्निसन्निभम् ॥ ९३ ॥
सद्यो वामं तथाऽघोरं तत्पुरुषं चतुर्थकम् ।
पञ्चमञ्च तथेशानं योगिना(२)मथ गोचरम् ॥ ९४ ॥
इति मुखलिङ्गम् ।
वामे गणाधिपः स्थाप्यो दक्षिणे पार्वती तथा ।
नैर्ऋत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ ९५ ॥
मातृभिर्मातृकास्थानं कारयेद्दक्षिणां दिशम् ।
सौम्ये शान्तिगृहं कुर्याद् यक्षाधीशांस्तु पश्चिमे ॥ ९६ ॥
इत्येकद्वारशिवायतनम् ।
(३) वामहस्ते गृहं कुर्याद् यशोध्वारञ्च दक्षिणे ।
मध्ये रुद्रः प्रतिष्ठाप्यो मातृस्थानञ्च दक्षिणे ॥ ९७ ॥
वामे देवी महालक्ष्मीरुमा (४) × भैरवस्तथा ।
(५)ब्रह्मविष्णुस्तथा रुद्रः पृष्ठदेशे तु कारयेत् ॥ ९८ ॥
इन्द्रादित्यौ च (६)कर्णौ च आग्नेयां स्कन्द एव च ।
ईशाने (७)विघ्नराजस्य धूम्र ईशानगोचरे ॥ ९९ ॥
इति चतुर्मुखशिवायतनम् ।
(१) 'त्रिंशदंशन्तु पिण्ड्याञ्च' इति स्यात् । (२) '-मध्यगोचरम्' इत्यन्यत्र ।
(३) 'वामे स्नानगृहं' इति स्यात् । (४) त्रुटितस्थाने 'च' 'वै' वा स्यात् ।
(५) 'ब्रह्मविष्णू तथा रुद्रं' इति स्यात् । (६) 'कर्णे च आग्नेय्यां' इति स्यात् ।
(७) 'विघ्नराजोऽस्य' इति स्यात् ।

३२ रूपमण्डने
मातुलिङ्गञ्च नागेन्द्रं डमरुं बीजपूरकम् ।
नन्दी मुकुटशोभाढ्यः (१)सर्वाभरणभूषितः ॥ १०० ॥
खट्वाङ्गञ्च कपालञ्च डमरुं बीजपूरकम् ।
दंष्ट्राकरालवदनो महाकालस्तु दक्षिणे ॥ १०१ ॥
इति पूर्वप्रतिहारौ ।
तर्जनी च त्रिशूलञ्च डमरुं गजमेव च ।
हेरम्बो वामभागे स्याद् भृङ्गी दक्षिणतः स्मृतः ॥ १०२ ॥
गजं डमरुखट्वाङ्गं तर्जनीं वामहस्ततः ।
उभौ च दक्षिणे द्वारे भृङ्गी दक्षिणतः स्मृतः ॥ १०३ ॥
इति दक्षिणप्रतिहारौ ।
लिशूलं डमरुञ्चैव खट्वाङ्गं च कपालकम् ।
कपालं डमरुं दन्तं बीजपूरं तथा दधत् ॥ १०४ ॥
दुर्मुखः पश्चिमे वामे पाण्डुरो दक्षिणे तथा ।
[ इति पश्चिमप्रतीहारौ ]
मातुलिङ्गं मृणालञ्च खट्वाङ्गं पद्मदण्डकौ ॥ १०५ ॥
सितो वामेऽसितो दक्षे उत्तरद्वारसंस्थितौ ।
पद्मदण्डञ्च खट्वाङ्गं मृणालं बीजपूरकम् ॥ १०६ ॥
[ इत्युत्तरप्रतीहारौ ]
इति (२)शिवप्रतिहारौ ।
इति श्रीसूत्र × × मण्डनविरचिते वास्तुशास्त्रे रूपमण्डने शिवमूर्त्तिशिवलिङ्ग-
लक्षणाधिकारश्चतुर्थोऽध्यायः ॥ ४ ॥
(१) 'सर्पाभरण-' इति स्यात् । (२) 'शिवप्रतीहाराः' इति स्यात् ।

पञ्चमोऽध्यायः
[ शाक्ताधिकारः ]
अथ गौर्याः प्रवक्ष्यामि प्रमाणं मूर्त्तिनिर्णयम् ।
चतुर्भुजा त्रिनेत्रा या सर्वाभरणभूषणा ॥ १ ॥
[ इति गौरीमूर्त्तेः सामान्यलक्षणम् ]
अक्षसूत्राम्बुजं धत्ते दर्पणञ्च कमण्डलुम् ।
उमा-नाम्नी भवेन्मूर्त्तिर्वन्दिता त्रिदशैरपि ॥ २ ॥
[ इत्युमा ]
(१)अक्षसूलां शिवां देवीं गणाध्यक्षकमण्डलुम् ।
पक्षद्वयेऽग्निकुण्डञ्च पार्वती पर्वतोद्भवा ॥ ३ ॥
[ इति पार्वती ]
अक्षसूत्रं तथा पद्ममभयञ्च वरन्तथा ।
गोधासना(२)प्रियामूर्त्तिर्गृहे पूज्या श्रिये सदा ॥ ४ ॥
[ इति श्रिया ]
कमण्डल्वक्षसूत्रञ्च बिभ्राणा वज्रमङ्कुशम् ।
गजासनस्थिता रम्भा कर्त्तव्या सर्वकामदा ॥ ५ ॥
[ इति रम्भा ]
शूलाक्षसूत्रदण्डञ्च बिभ्राणा चैव चामरम् ।
तोतला कथिता चेयं सर्वकोपप्रणाशनी ॥ ६ ॥
[ इति तोतला ]
नागपाशाङ्कुशौ (३)चैव भयदं वरदं करम् ।
त्रिपुरा नाम सा पूज्या वन्दिता त्रिदशैरपि ॥ ७ ॥
[ इति त्रिपुरा ]
इति गौर्या मूर्त्तयः ।
(१) 'अक्षसूत्रं शिवं देवं गणाध्यक्षं' इति देवतामूर्त्तौ (८।४) । (२) 'श्रिया-'
इति स्यात् । (३) 'चैवाभयदं' इति स्यात् ।
रूप-५

३४ रूपमण्डने
वक्ष्यामि (१)गौर्यायतनं देवतानामनुक्रमात् ।
वामे सिद्धिः श्रिया याम्ये सावित्री चैव पश्चिमे ॥ ८ ॥
पृष्ठकर्णद्वये कार्या भगवती सरस्वती ।
ईशाने तु गणेशः स्यात् कुमारौ चाग्निकोणके ॥ ९ ॥
कुण्डलाभ्यामलंकृता चेश्वरस्य सदा प्रिया ।
मध्ये गौरी प्रतिष्ठाप्या सर्वाभरणभूषिता ॥ १० ॥
इति गौर्यायतनम् ।
अभयाङ्कुशपाशदण्डैर्जया चैव तु पूर्वतः ।
सव्यापसव्ययोगेन विजया (२)तामसा भवेत् ॥ ११ ॥
अभयाम्बुज(३)पोदण्ड अजिता चापराजिता ।
अभयवज्राङ्कुशदण्डैर्विभक्ता (४)मण्डलाऽपि च ॥ १२ ॥
अभयं शङ्खपद्मदण्डैर्मोहिनी स्तम्भिनी तथा ।
जया च विजया चैव अजिता त्वपराजिता ॥ १३ ॥
विभक्ता (५)विमला चैव मोहिनी स्तम्भिनी तथा ।
गौर्या आयतने श्रेष्ठा(६)अष्टा स्युर्द्वारपालिका(:) ॥ १४ ॥
इति गौर्या अष्टौ द्वारपालिकाः ।
दन्तञ्च परशुं पद्मं मोदकञ्च गजाननः ।
गणेशो मूषकारूढो बिभ्राणः सर्वकामदः ॥ १५ ॥
इति गणेशः ।
वरं तथाऽङ्कुशं दन्तं दक्षिणे (७)पार्श्वधाभयौ ।
वामे कपालं बाणाक्षं पाशं (८)कौमोदकी तथा ॥ १६ ॥
(१) ‘गौर्यायतनदेवतानामनुक्रमम्’ इति स्यात् । (२) ‘नाम सा’ इति स्यात् ।
(३) ‘-पाशदण्डैरजिता’ इति स्यात् । (४) ‘मङ्गला’ इति स्यात् । (५) पूर्वत्र (१२)
‘मङ्गला’ ‘मण्डला’ वेत्युपलम्भादत्रापि तयोरन्यतरदेव नाम स्यात् । (६) ‘अष्ट’
‘अष्टौ’ वा स्यात् । (७) ‘पर्श्वधाभये’ इति स्यात्, एवञ्चात्र पर्श्वधशब्दः ‘पर्शु’-
शब्दवत् परशुपर्यायो द्रष्टव्यः । (८) ‘कौमोदकीं’ इति साधुः ।

पञ्चमोऽध्यायः ३५
धारयन्तं करै रम्यैः पञ्चवक्त्रं त्रिलोचनम् ।
हेरम्बं मूषकारूढं कुर्यात् सर्वार्थकामदम् ॥ १७ ॥
इति हेरम्बः ।
लम्बोदरं त्रिनयनं पाशाङ्कुशधरं परम् ।
वरदाभयहस्तञ्च (१)लसत्कर्णं सचामरम् ॥ १८ ॥
[ इति वक्त्रतुण्डः ]
वामाङ्गे गजकर्णं तु सिद्धिं दद्याच्च दक्षिणे ।
पृष्ठकर्णे तथा द्वौ च धूमको बालचन्द्रमाः ॥ १९ ॥
उत्तरे तु सदा गौरी याम्ये चैव सरस्वती ।
पश्चिमे यक्षराजश्च बुद्धिः पूर्वे सुसंस्थिता ॥ २० ॥
इति गणेशायतनम् ।
सर्वे च वामनाकाराः सौम्याश्च पुरुषाननाः ।
तर्जनीपरशुपद्ममविघ्नो दण्डहस्तकः ॥ २१ ॥
तर्जनीदण्डापसव्ये स भवेद् विघ्नराजकः ।
तर्जनीखड्गखेटञ्च दण्डहस्तः सुवक्त्रकः ॥ २२ ॥
तर्जनीदण्डापसव्ये दक्षिणे बलवान् भवेत् ।
तर्जनीबाणचापञ्च दण्डञ्च गजकर्णकः ॥ २३ ॥
तर्जनीदण्डापसव्ये गोकर्णः पश्चिमे स्थितः ।
(२)तर्जनीपद्माङ्कुशं दण्डहस्तः सुसौम्यकः ॥ २४ ॥
तर्जनीदण्डापसव्ये स चैव शुभदायकः ।
पक्षद्वारादिके सर्वे प्राच्यादिष्वष्ट संस्थिताः ॥ २५ ॥
इति गणेशप्रतिहाराः ।
कार्तिकेयं प्रवक्ष्यामि तरुणादित्यसन्निभम् ।
कमलोदरवर्णाभं कुमारं सुकुमारकम् ॥ २६ ॥
(१) ‘चलत्कर्णे’ इत्युचितः पाठो देवतामूर्त्तौ ( अ० ८, श्लो० २५) ।
(२) ‘तर्जनीपद्माङ्कुशं च’ इति देवतामूर्त्तौ ( अ० ८, श्लो० ३३) ।

३६ रूपमण्डने
गण्डकैश्चीरकैर्युक्तं मयूरवरवाहनम् ।
(१)स्थापनीयाखेटनगरे भुजान् द्वादश कल्पयेत् ॥ २७ ॥
चतुर्भुजः (२)कर्पटे स्याद् वने ग्रामे द्विबाहुकः ।
दक्षिणे शक्तिपाशञ्च खड्गं बाणं त्रिशूलकम् ॥ २८ ॥
(३)वरदैश्चैकहस्तस्यादथवाऽभयदो भवेत् ।
एते दक्षिणतो ज्ञेयाः केयूर(४)वनकोज्ज्वलाः ॥ २९ ॥
धनुः पताका मुष्टिश्च तर्जनी तु प्रसारिता ।
(५)खेटकं ताम्रचूडञ्च वामहस्तेषु शस्यते ॥ ३० ॥
(६)द्विभुजश्च करे शक्तिर्वाम ऊर्ध्वे च (७)कर्कुटम् ।
चतुर्भुजे शक्तिपाशौ वामतो दक्षिणे त्वसिः ॥ ३१ ॥
वरदोऽभयदो वाऽपि (८)दक्षिणस्यात्तुरीयकम् ।
कार्तिकेयमनुं शुभ्रं कर्तव्यं सर्वकामदम् ॥ ३२ ॥
इति कार्तिकेयः ।
अक्षसूत्राम्बुपात्रे च अधोहस्ते प्रकारयेत् ।
सर्वांसामीदृशौ हस्तौ द्वावूर्ध्वौ कथयाम्यथ ॥ ३३ ॥
पद्मे युग्मे लीलया स्याल्लीला पद्मं च पुस्तकम् ।
लीलाङ्गी पाशपद्माभ्यां ललिता वज्रमङ्कुशम् ॥ ३४ ॥
पाशाङ्कुशौ लीलावती लीलया(:) पञ्च कीर्तिता(:) ।
इति पञ्च लीलाः ।
वरं त्रिशूलं खेटञ्च पानपात्रं च बिभ्रती ।
नीलकण्ठं तथा नागा महालक्ष्मीः प्रकीर्तिता ॥ ३५ ॥
[ इति महालक्ष्मीः ]
(१) ‘स्थानीयखेट-’ इति स्यात् । (२) ‘खर्वटे’ इति स्यात् । (३) ‘वरदश्चैक-
हस्तः’ इति स्यात् । (४) ‘-कनकोज्ज्वलाः’ इति ‘-कटकोज्ज्वलाः’ इति वा स्यात् ।
(५) ‘खेटकस्ताम्रचूडश्च’ इति साधुः । (६) ‘द्विभुजस्य’ इति स्यात् । (७) ‘कुक्कुटः’
इति साधुः । (८) ‘दक्षिणः स्यात्तुरीयकः’ इति स्यात् ।

पञ्चमोऽध्यायः ३७
वरं त्रिशूलं खेटञ्च पानपात्रञ्च बिभ्रती ।
क्षेमङ्करी तदा नाम क्षेमारोग्यप्रदायिनी ॥ ३६ ॥
[ इति क्षेमङ्करी ]
कमण्डलुञ्च खड्गञ्च (१)मरुं पानञ्च पात्रकम् ।
हरसिद्धिस्तदा नाम सर्वेषां सिद्धिहेतवे ॥ ३७ ॥
[ इति हरसिद्धिः ]
इति दुर्गा-मूर्तयः ।
गोधासना भवेद् गौरी लीलया हंसवाहना(ः) ।
सिंहारूढा भवेद् दुर्गा मातरः स्वस्ववाहनाः ॥ ३८ ॥
[ इति गौर्यादीनां वाहनानि ]
चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी ।
रक्ताक्षी (२)भयनेत्रा च निर्मांसा विकृतानना ॥ ३९ ॥
(३)चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी ।
व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता ॥ ४० ॥
कपालमालिनी कृष्णा शवारूढा भयावहा ।
त्रिशूलं खेटकं खड्गं धनुः पाशाङ्कुशौ शरः ॥ ४१ ॥
कुठारो दर्पणं घण्टा शङ्खं वस्त्रं गदा पविः ।
दण्डमुद्गर इत्येतैर्यथास्थानायुधैर्युता ॥ ४२ ॥
बाहुषोडशसंयुक्ता चण्डमुण्डविघातिनी ।
इति चामुण्डा ।
खड्गं पात्रञ्च मुशलं लाङ्गलञ्च बिभर्ति सा ।
आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ ४३ ॥
अधीते य इमं नित्यं रक्तदन्त्या वपुस्तवम् ।
तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥ ४४ ॥
[ इति रक्तचामुण्डा.]
(१) 'डमरुं पानपात्रकम्' इति स्यात् । (२) 'भीमनेत्रा' इति स्यात् ।
(३) इदमर्धं सम्पातायातं स्यात् ।

३८ रूपमण्डने
अथ (१)कात्यायिनीं वक्ष्ये (२)दशहस्तां महुर्भुजाम् ।
तेजःप्रतापदां नित्यं नृपाणां सुखबोधिनी(म्) ॥ ४५ ॥
त्रिभङ्गीस्थानसंस्थानां महिषासुरसूदनीम् ।
(३)दक्षत्रिशूलं खड्गञ्च चक्रं बाणं च शक्तिकाम् ॥ ४६ ॥
खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ।
घण्टाञ्च वामतो दद्याद् दैत्यमूर्धजधृक्कराम् ॥ ४७ ॥
हृदि शूलेन निर्भिन्नं तिर्यग्दन्तविभूषितम् ।
रक्तरक्तीकृताङ्गञ्च रक्तविस्फारितेक्षणम् ॥ ४८ ॥
वेष्टितं नागपाशैश्च भ्रुकुटीभीषणाननाम् ॥ ४९ ॥
देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् ।
किञ्चिदूर्ध्वं तथा (४)वाममङ्गुष्ठो महिषोपरि ॥ ५० ॥
इति श्रीकात्यायनीमूर्तिः ।
चण्डिकायाः प्रतीहारान् कथयिष्याम्यनुक्रमात् ।
वेताल(:)करटश्चैव पिङ्गाक्षो भ्रुकुटिस्तथा ॥ ५१ ॥
धूम्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः ।
दंष्ट्राननविक(५)टास्यसस्फुरद्दशनोज्ज्वलः ॥ ५२ ॥
बर्बरीव्यक्तदेहश्च रक्ताक्षश्च महाबलः ।
तर्जनी चैव खट्वाङ्गमूर्ध्वं डमरुदण्डकौ ॥ ५३ ॥
वेतालः सुसमाख्यातोऽपसव्ये करटः पुनः ।
अभयं खड्गखेटञ्च दण्डः पिङ्गललोचनः ॥ ५४ ॥
(६)वामापसव्ययोगेन भवेद् भ्रुकुटिनामकः ।
तर्जनी च त्रिशूलञ्च खट्वाङ्गं दण्ड एव च ॥ ५५ ॥
(१) 'कात्यायनीं' इति साधुः । (२) 'दशहस्तां सुदुर्जयम्' इति स्यात् ।
(३) 'दक्षे' इति स्यात् । (४) 'वाममङ्गुष्ठं' इति मात्स्ये (२६०।६५) देवतामूर्त्तौ च
(न११७) पाठः । (५) '-टास्यः संस्फुर-' इति स्यात् । (६) 'वामेऽपसव्य-'
इति स्यात् ।

पञ्चमोऽध्यायः ३६
रक्ताक्षो (१)वाम भेदोऽसौ वामे दक्षे त्रिलोचनः ।
दिग्द्वारपक्षयुग्मे च प्रशस्ता विघ्ननाशनाः ॥ ५६ ॥
इति चण्डिकाष्टकप्रतिहाराः ।
अष्टपत्राम्बुजस्योर्ध्वे लक्ष्मीः सिंहासने शुभे ।
विनायकवदासीना सर्वाभरणभूषिता ॥ ५७ ॥
ऊर्ध्वहस्तौ प्रकर्तव्यौ देव्याः पङ्कजधारिणौ ।
(२)वामे घृतघटं धत्ते दक्षिणे मातुलिङ्गकम् ॥ ५८ ॥
इति लक्ष्म्या मूर्तिः ।
क्षेत्रे कोल्हा(३)पुरे दैत्ये महालक्ष्मीर्यदाऽर्च्यते ।
लक्ष्मीवत् सा सदा कार्या रूपाभरणभूषिता ॥ ५९ ॥
दक्षिणाधःकरे पात्रमूर्ध्वे कौमोदकी भवेत् ।
वामोर्ध्वे खेटकं धत्ते श्रीफलं तदधःकरे ॥ ६० ॥
इति महालक्ष्मीः ।
एकवक्त्रा चतुर्हस्ता मुकुटेन विराजिता ।
प्रभामण्डलसंयुक्ता कुण्डलान्वितशेखरा ॥ ६१ ॥
अक्षाब्जवीणा पुस्तकं महाविद्या प्रकीर्तिता ।
[ इति महाविद्या ]
वराक्षाब्जं पुस्तकञ्च सरस्वती शुभावहा ॥ ६२ ॥
[ इति सरस्वती ]
हंसारूढा प्रकर्तव्या साक्षसूलकमण्डलुः ।
स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ ६३ ॥
इति ब्राह्मी ।
माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता ।
कपालशूलखट्वाङ्गवरदा च चतुर्भुजा ॥ ६४ ॥
इति माहेश्वरी ।


(१) ‘नाम’ इति स्यात् । (२) ‘वामेऽमृतघटं’ इति स्यात् । (३) ‘पुरादन्ये’
इति स्यात् ।

४० रूपमण्डने
कुमाररूपा कौमारी मयूरवरवाहना ।
रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥ ६५ ॥
इति कौमारी ।
वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता ।
चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥ ६६ ॥
इति वैष्णवी ।
वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिताम् ।
(१)वाराहसदृशी घण्टानादा चामरधारिणी ॥ ६७ ॥
गदा चक्रगदा तद्वद्दानवेन्द्रविघातिनी ।
लोकानाञ्च हितार्थाय सर्वव्याधिविनाशिनी ॥ ६८ ॥
इति वाराही ।
इन्द्राणी त्विन्द्रसदृशी वज्रशूलगदाधरा ।
गजासनगता देवी लोचनैर्बहुभिर्वृता ॥ ६९ ॥
इति इन्द्राणी ।
दंष्ट्राला क्षीणदेहा च गर्त्ताक्षा भीमरूपिणी ।
दिग्बाहुः क्षामकुक्षिश्च मुशलं चक्रमार्गणौ ॥ ७० ॥
अङ्कुशं बिभ्रती खड्गं दक्षिणेष्वथ वामतः ।
खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ॥ ७१ ॥
चामुण्डा प्रेतगा रक्ता विकृता(२)स्यादिभूषणा ।
द्विभुजा वा प्रकर्तव्या ( कृत्तिकाकार्यरान्विता ? ) ॥ ७२ ॥
इति चामुण्डा ।
वीरेश्वरस्तु भगवान् वृषारूढो धनुर्धरः ।
वीणाहस्तं त्रिशूलञ्च मातृणामग्रतो भवेत् ।
मध्ये च मातृका कार्या अन्ते (३)तेषां विनायकः ॥ ७३ ॥
इति सप्त मातरः ।
(१) 'वराह-' इति स्यात् । (२) '-स्याहिभूषणा' इति स्यात् । (३) 'तासां'
इति स्यात् ।

पञ्चमोऽध्यायः ४१
क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः ।
कर्तिकां डमरुं बिभ्रद्दक्षिणे तु करद्वये ॥ ७४ ॥
वामे शूलं कपालञ्च मुण्डमालोपवीतकम् ।
(१)करोतिकटितोदारसर्पग्रन्थिसशेखरः ॥ ७५ ॥
इति क्षेत्रपालः ।
खट्वाङ्गमसिपाशञ्च शूलञ्च दधतः करैः ।
डमरुञ्च कपालञ्च वरदं भुजगं तथा ॥ ७६ ॥
आत्मवर्णसमोपेतसारमेयसमन्वितम् ।
ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ॥ ७७ ॥
इति वटुकभैरवः ।
इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे गौर्याः
प्रमाणमूर्तिलक्षणाधिकारः पञ्चमोऽध्यायः ।
(१) ‘करोटिनिकरोदार-’ इति देवतामूर्त्तौ पाठः ( अ० ८, श्लो० ६० ) ।
रूप—६

षष्ठोऽध्यायः
अथ जैनमूर्त्तिलक्षणाधिकारप्रारम्भः
[ चतुर्विंशतिरर्हन्तः ]
एतस्या(१)मिषसर्पिण्या ऋषभोऽ(२)जिनसम्भवः ।
अभिनन्दस्तु (३)सुमूत्तिस्ततः पद्मप्रभाभिधः ॥ १ ॥
सुपार्श्वश्चन्द्र(४)प्रभेव(५)स्तुविधिस्त्याथ शीतलः ।
(६)श्रियांशो वासपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ २ ॥
धर्मशान्ति(७)कुप्यरोममल्लिश्च मुनि(८)सुवृतः ।
(९)नेमि-नेमि-पार्श्व-वीरश्चतुर्विंशति अर्हताः (?) ॥ ३ ॥
[ जिनानां वर्णाः ]
(१०)रक्तो च पद्म(११)प्रभु....भवासंपूज्यौ
(१२) शुक्लं च चन्द्रप्रभपुष्पदन्तौ ।
कृष्णौ पुनर्नेमि(१३) षुगुणेर्विलीनै
(१४)श्रीमल्लिः पार्श्वे कनकत्विषोऽन्ये ॥ ४ ॥
[ यथाक्रमं जिनानां ध्वजाः ]
वृषो गजोऽश्व(१५)जो मृगवक्त्रोंचोब्जः स्वस्तिकः शशी ।
मकरवत्सखङ्गीशमहिषः शूकरस्तथा ॥ ५ ॥
श्येनो वज्रं (१६)मृगछागो नन्द्यावर्त्तो घटोऽपि च ।
कूर्मो नीलोत्पलं शङ्खः (१७)फाणी सिंहोऽर्हतां ध्वजाः ॥ ६ ॥
(१) ‘-मवसर्पिण्याम्’ इति स्यात् । (२) ‘-जित-’ इति स्यात् । (३) ‘सुमति-’
इति स्यात् । (४) ‘-प्रभश्च’ इति स्यात् । (५) ‘सुविधिश्चाथ’ इति स्यात् ।
(६) ‘श्रेयांसो’ इति स्यात् । (७) ‘कुन्थरयो’ इति स्यात् । (८) ‘-सुव्रतः’ इति स्यात् ।
(९) ‘नमि-’ इति स्यात् । (१०) ‘रक्तौ’ इति स्यात् । (११) ‘-प्रभवासपूज्यौ’
इति स्यात् । (१२) ‘शुक्लौ’ इति स्यात् । (१३) ‘-मुनी च नीलौ’ इति स्यात् ।
(१४) ‘श्रीमल्लिपार्श्वौ’ इति स्यात् । (१५) ‘-श्वः प्लवगः क्रौञ्चोऽब्जः’ इति स्यात् ।
(१६) ‘मृगश्छागो’ इति साधु । (१७) ‘फणी’ इति स्यात् ।

षष्ठोऽध्यायः ४३
अथ नक्षत्राणि
उत्तराषाढरोहिण्यौ मृगशीर्षं पुनर्वसुः ।
मघा चित्रा विशाखा चानुराधा मूलमेव च ॥ ७ ॥
पूर्वाषाढा श्रुतिश्चैव शतभिषोत्तरं पदम् ।
रेवती पुष्यभरणी कृत्तिका रेवती क्रमात् ॥ ८ ॥
अश्विनी श्रवणाश्विन्यौ तथा चित्रा विशाखिका ।
उत्तरा फल्गुनी चेति जिनानां जन्मभानि वै ॥ ९ ॥
अथ राशयः
धनुर्वृषोऽथ (१)मिथुनौ मिथुनं सिंह(२)कन्यकैः ।
तुलावृश्चिकचापानि धनुर्मकर(३)कुम्भकैः ॥ १० ॥
(४)मीनामीने कर्कमेषा वृषो मीनोऽप्यजः क्रमात् ।
मकरो मेष-कन्ये तु तुला कन्येति राशयः ॥ ११ ॥
[ जिनोपासकयक्षनामानि ]
(५)यक्षिणी स्याद् गोमुखो महायक्षस्त्रिमुखो यक्षनायकः ।
तुम्बरुः कुसुमश्चापि मातङ्गो विजयो जयः ॥ १२ ॥
ब्रह्मा यक्षेद् कुमारः षण्मुखपातालकिन्नराः ।
गरुडो गन्धर्वो यक्षेद् कुबेरो वरुणोऽपि च ॥ १३ ॥
भृकुटि(६)र्गोंऽभिधः पार्श्वे वा मातङ्गोऽर्हदुपासकाः
[ जिनानां शासनदेवताः ]
चक्रेश्व(७)र्यजिनबला दुरितारिश्च कालिका ॥ १४ ॥
महाकाली(८)शमा शांता (९)भृगुढद्यश्च सुतारिका ।
अशोका मानवी चण्डी विदिता चाङ्कुशी तथा ॥ १५ ॥
(१) मिथुनं' इति स्यात् । (२) '-कन्यके' इति स्यात् । (३) '-कुम्भकौ' इति
स्यात् । (४) 'मीनो मीन-' इति स्यात् । (५) अत्र 'यक्षिणी'ति सम्पातायातं स्यात् ;
'स्याद् गोमुखो महायक्ष-' इतिक्रमेण पाठ्यम् । (६) '-गौमेघपार्श्वौ मातङ्गोऽ-' इति
स्यात् । (७) '-र्यनितबला' इति देवतामूर्त्तौ (७।१४) । (८) 'श्यामा' इति स्यात् ।
(९) 'भृकुटिश्च' इति स्यात् ।

४४ रूपमण्डने
कन्दर्पी निर्वाणी बाला धारिणी (१)धरणाप्रिया ।
नादरक्ता च गन्धर्वीऽम्बिका (२)पद्मवती तथा ।
सिद्धायका चेति जैन्यः(३)क्रमा वासवदेवताः ॥ १६ ॥
इति जिनानां (४)यक्षणीनामानि ।
[ एतेषां लक्षणम् , तत्र गोमुखः ]
(५)रिषभो गोमुखो यक्षो(६)हेमवर्णो गजानना ।
(७)वराक्षसूत्रमाशाञ्च उभबीजपुरेषु च ॥ १७ ॥
[ चक्रेश्वरी ]
चक्रेश्वरी हेमवर्णा तार्क्ष्यारूढाऽष्टबाहुका ।
वरं बाणं (८)चक्रं ( शक्तिशूलमनाकुलम् ? ) ॥ १८ ॥*
[ अम्बिका ]
सिंहारूढाऽम्बिका पीता(मलुंबि ?)नागपाशकम् ।
अङ्कुशञ्च तथा(९)पुत्रं तथा हस्तेष्वनुक्रमात् ॥ १९ ॥
[ पार्श्वः ]
(१०)पार्श्वे स्यात् पार्श्वनानाथस्य कूर्मारूढा गजानना ।
बीजपूरोरगं नागं नकुलं श्यामवर्णकैः ॥ २० ॥
[ पद्मावती ]
(११)रक्तायसावती पूर्णा कुर्कुटोरगचतुर्भुजा ।
(१२)पद्मपाशोंशो बीजपूरं हस्तेषु कारयेत् ॥ २१ ॥


(१) 'धरणप्रिया' इति स्यात् । (२) 'पद्मावती' इति साधु । (३) 'क्रमात्
शासनदेवताः' इति स्यात् । (४) 'यक्षयक्षिणी-' इति स्यात् । (५) 'ऋषभे' इति
स्यात् । (६) 'हेमवर्णो गजाननः' इति स्यात् । (७) 'वरोऽक्षसूत्रं पाशञ्च बीजपूरं
करेषु च' इति स्यात् । (८) 'पाशचक्रं' 'चक्रपाशं' वा स्यात् । (९) 'फलं' इति
स्यात् । (१०) 'पार्श्वः स्यात् पार्श्वनाथस्य कूर्मारूढो गजाननः' इति स्यात् । (११) 'पद्मा-
वती रक्तवर्णा कुक्कुटस्था' इति स्यात् । (१२) 'पद्मं पाशाङ्कुशौ' इति स्यात् ।


  • अत्रैतदनन्तरं नेमिनाथोपासकस्य 'गोमेघ'यक्षस्य लक्षणं लेखकप्रमादात् त्रुटितम् इति
    सम्भाव्यते । यतोऽत्र ग्रन्थकृता संक्षेपबुद्ध्या जिनोपासकानां यक्षाणां यक्षिणीनाञ्च तावन्ति
    लक्षणान्यनभिधाय 'चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः' ( २९) इत्यग्रिमप्रतिज्ञाग्रन्थानु-
    सारेण आदिनाथ (ऋषभ)-नेमिनाथ-पार्श्वनाथ-महावीराणामुपासकान् गोमुख-गोमेध-पार्श्व-
    मातङ्गाह्नो यक्षान्, चक्रेश्वर्यम्बिका-पद्मावती-सिद्धायकाख्या यक्षिणीश्च लक्षयितुं प्रवृत्तम् इति
    विज्ञायते । नास्ति चास्य 'गोमेध'मलक्षयतः प्रतिज्ञाताथपरिसमाप्तिरित्यवसेयम् ।