रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 313, कुल 335 में से
संदर्भ में पढ़ें३४ रूपमण्डने
वक्ष्यामि (१)गौर्यायतनं देवतानामनुक्रमात् ।
वामे सिद्धिः श्रिया याम्ये सावित्री चैव पश्चिमे ॥ ८ ॥
पृष्ठकर्णद्वये कार्या भगवती सरस्वती ।
ईशाने तु गणेशः स्यात् कुमारौ चाग्निकोणके ॥ ९ ॥
कुण्डलाभ्यामलंकृता चेश्वरस्य सदा प्रिया ।
मध्ये गौरी प्रतिष्ठाप्या सर्वाभरणभूषिता ॥ १० ॥
इति गौर्यायतनम् ।
अभयाङ्कुशपाशदण्डैर्जया चैव तु पूर्वतः ।
सव्यापसव्ययोगेन विजया (२)तामसा भवेत् ॥ ११ ॥
अभयाम्बुज(३)पोदण्ड अजिता चापराजिता ।
अभयवज्राङ्कुशदण्डैर्विभक्ता (४)मण्डलाऽपि च ॥ १२ ॥
अभयं शङ्खपद्मदण्डैर्मोहिनी स्तम्भिनी तथा ।
जया च विजया चैव अजिता त्वपराजिता ॥ १३ ॥
विभक्ता (५)विमला चैव मोहिनी स्तम्भिनी तथा ।
गौर्या आयतने श्रेष्ठा(६)अष्टा स्युर्द्वारपालिका(:) ॥ १४ ॥
इति गौर्या अष्टौ द्वारपालिकाः ।
दन्तञ्च परशुं पद्मं मोदकञ्च गजाननः ।
गणेशो मूषकारूढो बिभ्राणः सर्वकामदः ॥ १५ ॥
इति गणेशः ।
वरं तथाऽङ्कुशं दन्तं दक्षिणे (७)पार्श्वधाभयौ ।
वामे कपालं बाणाक्षं पाशं (८)कौमोदकी तथा ॥ १६ ॥
(१) ‘गौर्यायतनदेवतानामनुक्रमम्’ इति स्यात् । (२) ‘नाम सा’ इति स्यात् ।
(३) ‘-पाशदण्डैरजिता’ इति स्यात् । (४) ‘मङ्गला’ इति स्यात् । (५) पूर्वत्र (१२)
‘मङ्गला’ ‘मण्डला’ वेत्युपलम्भादत्रापि तयोरन्यतरदेव नाम स्यात् । (६) ‘अष्ट’
‘अष्टौ’ वा स्यात् । (७) ‘पर्श्वधाभये’ इति स्यात्, एवञ्चात्र पर्श्वधशब्दः ‘पर्शु’-
शब्दवत् परशुपर्यायो द्रष्टव्यः । (८) ‘कौमोदकीं’ इति साधुः ।