रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 318, कुल 335 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः ३६
रक्ताक्षो (१)वाम भेदोऽसौ वामे दक्षे त्रिलोचनः ।
दिग्द्वारपक्षयुग्मे च प्रशस्ता विघ्ननाशनाः ॥ ५६ ॥
इति चण्डिकाष्टकप्रतिहाराः ।
अष्टपत्राम्बुजस्योर्ध्वे लक्ष्मीः सिंहासने शुभे ।
विनायकवदासीना सर्वाभरणभूषिता ॥ ५७ ॥
ऊर्ध्वहस्तौ प्रकर्तव्यौ देव्याः पङ्कजधारिणौ ।
(२)वामे घृतघटं धत्ते दक्षिणे मातुलिङ्गकम् ॥ ५८ ॥
इति लक्ष्म्या मूर्तिः ।
क्षेत्रे कोल्हा(३)पुरे दैत्ये महालक्ष्मीर्यदाऽर्च्यते ।
लक्ष्मीवत् सा सदा कार्या रूपाभरणभूषिता ॥ ५९ ॥
दक्षिणाधःकरे पात्रमूर्ध्वे कौमोदकी भवेत् ।
वामोर्ध्वे खेटकं धत्ते श्रीफलं तदधःकरे ॥ ६० ॥
इति महालक्ष्मीः ।
एकवक्त्रा चतुर्हस्ता मुकुटेन विराजिता ।
प्रभामण्डलसंयुक्ता कुण्डलान्वितशेखरा ॥ ६१ ॥
अक्षाब्जवीणा पुस्तकं महाविद्या प्रकीर्तिता ।
[ इति महाविद्या ]
वराक्षाब्जं पुस्तकञ्च सरस्वती शुभावहा ॥ ६२ ॥
[ इति सरस्वती ]
हंसारूढा प्रकर्तव्या साक्षसूलकमण्डलुः ।
स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ ६३ ॥
इति ब्राह्मी ।
माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता ।
कपालशूलखट्वाङ्गवरदा च चतुर्भुजा ॥ ६४ ॥
इति माहेश्वरी ।
(१) ‘नाम’ इति स्यात् । (२) ‘वामेऽमृतघटं’ इति स्यात् । (३) ‘पुरादन्ये’
इति स्यात् ।