सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 305, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 305

२६ रूपमण्डने
समस्तमणिजातीनां (१)दीप्तसान्निध्यकारकम् ।
( मनोन्मानं प्रमाणानि तेषु ग्राह्यं नवाम्बुदैः ? ) ॥ ४४ ॥*
[ इति लिङ्गोचिता मणयः ]
शैलेयं भोगदं लिङ्गं मृन्मयं सर्वकामदम् ।
दारुजं वसुसिद्ध्यर्थं सर्वमेतच्चलाचलम् ॥ ४५ ॥
[ इति चलाचललिङ्गम् ]
एकाङ्गुलादिपञ्चान्तं चललिङ्गञ्च कन्यसम् ।
षट्पर्वादिदशान्तञ्च मध्यमेकादशादितः ॥ ४६ ॥
[ इति चललिङ्गम् ]
नैकहस्तादधो(२)वाद्यं प्रासादे स्थिरतां नयेत् ।
स्थिरं तत् स्थापयेद् गेहे (३)गृण्यां हे दूरकृद् यतः ॥ ४७ ॥
[ इति स्थिरलिङ्गम् ]
(४)वाणलक्षणहीनेऽपि यत्न वै रोचते मनः ।
तत्र पूजां प्रकुर्वीत धर्मकामार्थमोक्षदम् ॥ ४८ ॥
[ इति लक्षणादिहीनस्यापि पूज्यत्वम् ]
रत्नमेकाङ्गुलं लिङ्गमङ्गुलाङ्गुलवृद्धितः ।
नवान्तं नवलिङ्गञ्च वृद्धिर्वा मुद्गमानिका ॥ ४९ ॥
[ इति रत्नलिङ्गमानम् ]
धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् ।
त्रिहस्तान्तं नवैव स्युर्लिङ्गानि च यथाक्रमम् ॥ ५० ॥
[ इति धातुलिङ्गमानम् ]
दृढकाष्ठमयं लिङ्गं कर्तव्यं षोडशाङ्गुलम् ।
षोडशाङ्गुलिका वृद्धिः षट्करान्तं नवैव हि ॥ ५१ ॥
[ इति दारुवलिङ्गमानम् ]
(१) ‘दीप्तिः सान्निध्यकारणम्’ इति स्यात् । (२) ‘लिङ्गं’ इति स्यात् ।
(३) ‘गृहांहोदूरकृद्’ इति स्यात् । (४) ‘वर्ण-’ इति स्यात् ।

  • अत्राऽऽदर्श चतुश्चत्वारिंशसंख्याबोधकोऽङ्को नोपलभ्यते, तत्संख्याकः श्लोकः
    पतितो न वेति चिन्तनीयम् । अस्माभिस्तु यथाक्रममेवाङ्का निवेशिताः ।