रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 310, कुल 335 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः ३१
(१)त्रिंशोदंशस्तु पिण्ड्याश्च जगत्याश्च परिक्षिपेत् ।
ऊर्द्धाधो (जाड्यकुम्भस्य ?) तन्मध्ये कनकं भवेत् ॥ ९० ॥
(अर्द्धा ?) दैर्घ्यसमा दैर्घ्ये लिङ्गायामयता भवेत् ।
यस्य देवस्य या पत्नी पीठे तां परिकल्पयेत् ॥ ९१ ॥
इति पीठिका ।
मुखलिङ्गं त्रिवक्त्रं वा एकवक्त्रञ्चतुर्मुखम् ।
सम्मुखं चैकवक्त्रं स्यात्त्रिवक्त्रे पृष्ठतो नहि ॥ ९२ ॥
पश्चिमास्यं स्थितं शुभ्रं कुङ्कुमाभं तथोत्तरम् ।
याम्यं कृष्णं करालं स्यात् प्राच्यां दीप्ताग्निसन्निभम् ॥ ९३ ॥
सद्यो वामं तथाऽघोरं तत्पुरुषं चतुर्थकम् ।
पञ्चमञ्च तथेशानं योगिना(२)मथ गोचरम् ॥ ९४ ॥
इति मुखलिङ्गम् ।
वामे गणाधिपः स्थाप्यो दक्षिणे पार्वती तथा ।
नैर्ऋत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ ९५ ॥
मातृभिर्मातृकास्थानं कारयेद्दक्षिणां दिशम् ।
सौम्ये शान्तिगृहं कुर्याद् यक्षाधीशांस्तु पश्चिमे ॥ ९६ ॥
इत्येकद्वारशिवायतनम् ।
(३) वामहस्ते गृहं कुर्याद् यशोध्वारञ्च दक्षिणे ।
मध्ये रुद्रः प्रतिष्ठाप्यो मातृस्थानञ्च दक्षिणे ॥ ९७ ॥
वामे देवी महालक्ष्मीरुमा (४) × भैरवस्तथा ।
(५)ब्रह्मविष्णुस्तथा रुद्रः पृष्ठदेशे तु कारयेत् ॥ ९८ ॥
इन्द्रादित्यौ च (६)कर्णौ च आग्नेयां स्कन्द एव च ।
ईशाने (७)विघ्नराजस्य धूम्र ईशानगोचरे ॥ ९९ ॥
इति चतुर्मुखशिवायतनम् ।
(१) 'त्रिंशदंशन्तु पिण्ड्याञ्च' इति स्यात् । (२) '-मध्यगोचरम्' इत्यन्यत्र ।
(३) 'वामे स्नानगृहं' इति स्यात् । (४) त्रुटितस्थाने 'च' 'वै' वा स्यात् ।
(५) 'ब्रह्मविष्णू तथा रुद्रं' इति स्यात् । (६) 'कर्णे च आग्नेय्यां' इति स्यात् ।
(७) 'विघ्नराजोऽस्य' इति स्यात् ।