रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 319, कुल 335 में से
संदर्भ में पढ़ें४० रूपमण्डने
कुमाररूपा कौमारी मयूरवरवाहना ।
रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥ ६५ ॥
इति कौमारी ।
वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता ।
चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥ ६६ ॥
इति वैष्णवी ।
वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिताम् ।
(१)वाराहसदृशी घण्टानादा चामरधारिणी ॥ ६७ ॥
गदा चक्रगदा तद्वद्दानवेन्द्रविघातिनी ।
लोकानाञ्च हितार्थाय सर्वव्याधिविनाशिनी ॥ ६८ ॥
इति वाराही ।
इन्द्राणी त्विन्द्रसदृशी वज्रशूलगदाधरा ।
गजासनगता देवी लोचनैर्बहुभिर्वृता ॥ ६९ ॥
इति इन्द्राणी ।
दंष्ट्राला क्षीणदेहा च गर्त्ताक्षा भीमरूपिणी ।
दिग्बाहुः क्षामकुक्षिश्च मुशलं चक्रमार्गणौ ॥ ७० ॥
अङ्कुशं बिभ्रती खड्गं दक्षिणेष्वथ वामतः ।
खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ॥ ७१ ॥
चामुण्डा प्रेतगा रक्ता विकृता(२)स्यादिभूषणा ।
द्विभुजा वा प्रकर्तव्या ( कृत्तिकाकार्यरान्विता ? ) ॥ ७२ ॥
इति चामुण्डा ।
वीरेश्वरस्तु भगवान् वृषारूढो धनुर्धरः ।
वीणाहस्तं त्रिशूलञ्च मातृणामग्रतो भवेत् ।
मध्ये च मातृका कार्या अन्ते (३)तेषां विनायकः ॥ ७३ ॥
इति सप्त मातरः ।
(१) 'वराह-' इति स्यात् । (२) '-स्याहिभूषणा' इति स्यात् । (३) 'तासां'
इति स्यात् ।