सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 321, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 321

षष्ठोऽध्यायः
अथ जैनमूर्त्तिलक्षणाधिकारप्रारम्भः
[ चतुर्विंशतिरर्हन्तः ]
एतस्या(१)मिषसर्पिण्या ऋषभोऽ(२)जिनसम्भवः ।
अभिनन्दस्तु (३)सुमूत्तिस्ततः पद्मप्रभाभिधः ॥ १ ॥
सुपार्श्वश्चन्द्र(४)प्रभेव(५)स्तुविधिस्त्याथ शीतलः ।
(६)श्रियांशो वासपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ २ ॥
धर्मशान्ति(७)कुप्यरोममल्लिश्च मुनि(८)सुवृतः ।
(९)नेमि-नेमि-पार्श्व-वीरश्चतुर्विंशति अर्हताः (?) ॥ ३ ॥
[ जिनानां वर्णाः ]
(१०)रक्तो च पद्म(११)प्रभु....भवासंपूज्यौ
(१२) शुक्लं च चन्द्रप्रभपुष्पदन्तौ ।
कृष्णौ पुनर्नेमि(१३) षुगुणेर्विलीनै
(१४)श्रीमल्लिः पार्श्वे कनकत्विषोऽन्ये ॥ ४ ॥
[ यथाक्रमं जिनानां ध्वजाः ]
वृषो गजोऽश्व(१५)जो मृगवक्त्रोंचोब्जः स्वस्तिकः शशी ।
मकरवत्सखङ्गीशमहिषः शूकरस्तथा ॥ ५ ॥
श्येनो वज्रं (१६)मृगछागो नन्द्यावर्त्तो घटोऽपि च ।
कूर्मो नीलोत्पलं शङ्खः (१७)फाणी सिंहोऽर्हतां ध्वजाः ॥ ६ ॥
(१) ‘-मवसर्पिण्याम्’ इति स्यात् । (२) ‘-जित-’ इति स्यात् । (३) ‘सुमति-’
इति स्यात् । (४) ‘-प्रभश्च’ इति स्यात् । (५) ‘सुविधिश्चाथ’ इति स्यात् ।
(६) ‘श्रेयांसो’ इति स्यात् । (७) ‘कुन्थरयो’ इति स्यात् । (८) ‘-सुव्रतः’ इति स्यात् ।
(९) ‘नमि-’ इति स्यात् । (१०) ‘रक्तौ’ इति स्यात् । (११) ‘-प्रभवासपूज्यौ’
इति स्यात् । (१२) ‘शुक्लौ’ इति स्यात् । (१३) ‘-मुनी च नीलौ’ इति स्यात् ।
(१४) ‘श्रीमल्लिपार्श्वौ’ इति स्यात् । (१५) ‘-श्वः प्लवगः क्रौञ्चोऽब्जः’ इति स्यात् ।
(१६) ‘मृगश्छागो’ इति साधु । (१७) ‘फणी’ इति स्यात् ।