रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 317, कुल 335 में से
संदर्भ में पढ़ें३८ रूपमण्डने
अथ (१)कात्यायिनीं वक्ष्ये (२)दशहस्तां महुर्भुजाम् ।
तेजःप्रतापदां नित्यं नृपाणां सुखबोधिनी(म्) ॥ ४५ ॥
त्रिभङ्गीस्थानसंस्थानां महिषासुरसूदनीम् ।
(३)दक्षत्रिशूलं खड्गञ्च चक्रं बाणं च शक्तिकाम् ॥ ४६ ॥
खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ।
घण्टाञ्च वामतो दद्याद् दैत्यमूर्धजधृक्कराम् ॥ ४७ ॥
हृदि शूलेन निर्भिन्नं तिर्यग्दन्तविभूषितम् ।
रक्तरक्तीकृताङ्गञ्च रक्तविस्फारितेक्षणम् ॥ ४८ ॥
वेष्टितं नागपाशैश्च भ्रुकुटीभीषणाननाम् ॥ ४९ ॥
देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् ।
किञ्चिदूर्ध्वं तथा (४)वाममङ्गुष्ठो महिषोपरि ॥ ५० ॥
इति श्रीकात्यायनीमूर्तिः ।
चण्डिकायाः प्रतीहारान् कथयिष्याम्यनुक्रमात् ।
वेताल(:)करटश्चैव पिङ्गाक्षो भ्रुकुटिस्तथा ॥ ५१ ॥
धूम्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः ।
दंष्ट्राननविक(५)टास्यसस्फुरद्दशनोज्ज्वलः ॥ ५२ ॥
बर्बरीव्यक्तदेहश्च रक्ताक्षश्च महाबलः ।
तर्जनी चैव खट्वाङ्गमूर्ध्वं डमरुदण्डकौ ॥ ५३ ॥
वेतालः सुसमाख्यातोऽपसव्ये करटः पुनः ।
अभयं खड्गखेटञ्च दण्डः पिङ्गललोचनः ॥ ५४ ॥
(६)वामापसव्ययोगेन भवेद् भ्रुकुटिनामकः ।
तर्जनी च त्रिशूलञ्च खट्वाङ्गं दण्ड एव च ॥ ५५ ॥
(१) 'कात्यायनीं' इति साधुः । (२) 'दशहस्तां सुदुर्जयम्' इति स्यात् ।
(३) 'दक्षे' इति स्यात् । (४) 'वाममङ्गुष्ठं' इति मात्स्ये (२६०।६५) देवतामूर्त्तौ च
(न११७) पाठः । (५) '-टास्यः संस्फुर-' इति स्यात् । (६) 'वामेऽपसव्य-'
इति स्यात् ।