सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 307, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 307

२८ रूपमण्डने
(कृत्वादियुगल्त्वान्तं ?) हस्तसंख्ये शिवालये ।
षष्ठांशेन प्रकर्त्तव्यं हस्तादिनवहस्तकम् ॥ ६१ ॥
(१) कनिष्ठाज्येष्ठलिङ्गेषु मध्यममध्यमेषु च ।
प्रासादाः कन्यसे ज्येष्ठाः सीमामानमिदं स्मृतम् ॥ ६२ ॥
गर्भे पञ्चांशके ल्यंशो ज्येष्ठलिङ्गं तु मध्यमम् ।
नवांशं पञ्चभागं स्याद् गर्भार्धं कन्यसोदयम् ॥ ६३ ॥
[ इति प्रासादमानेन लिङ्गमानम् ]
पद्मं शङ्खो ध्वजा छत्रं (२) खड्गशक्तिरुचामरे ।
वज्रं (३)दण्डोर्ध्वभागञ्च चक्रं मत्स्यौ घटः शुभः ॥ ६४ ॥
सौख्यदं चिह्न(४)मित्याद्यामावर्त्तो दक्षिणेऽपि यः ।
श्वेतरक्ता पीतकृष्णा रेखा वर्णेषु सौख्यदा ॥ ६५ ॥
[ इति लिङ्गे शुभचिह्नानि ]
ब्रह्मांशश्चतुरस्रोऽधो मध्येऽष्टास्रस्तु वैष्णवः ।
पूजाभागः सुवृत्त(:) स्यात् पीठोर्ध्वं शङ्करस्य च ॥ ६६ ॥
[ इति लिङ्गे ब्रह्मादिभागाः ]
पूजायामे कलांशे च (५)लिङ्गचित्रं दशांशकैः ।
पीठस्यार्धे द्विभागे च रेखा कार्या प्रदक्षिणे ॥ ६७ ॥
(मस्तकं मानमध्ये तु बाह्येऽङ्गे राष्ट्रविभ्रमः ।?)
(६)छत्राभमष्टमांशेन (७)सार्धे द्वयंशषडङ्गके ॥ ६८ ॥
त्रपुषाभं विस्तारार्धं कुक्कुटाण्डं शिरो मतम् ।
त्रिभागे लिङ्गविस्तारे एकांशोनार्धचन्द्रकम् ॥ ६९ ॥
सार्धव्यंशेन तुल्यं स्यादष्टांशे बुद्बुदाकृति(?): ।
ऊर्ध्वाधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् ॥ ७० ॥
[ इति लिङ्गस्योर्ध्वादिभागाः ]
(१) 'कनिष्ठ-' इति स्यात् । (२) 'खड्गः' इति स्यात् । (३) 'दण्डोऽर्ध-चन्द्रश्च' इत्यन्यत्र । (४) '-मित्याद्यमावर्त्तो' इति स्यात् । (५) 'लिङ्गं चिह्नं' इति स्यात् । (६) 'छत्राभमि'ति स्यात् । (७) 'सार्धद्व्यंशे षडंशके' इति स्यात् ।