रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 311, कुल 335 में से
संदर्भ में पढ़ें३२ रूपमण्डने
मातुलिङ्गञ्च नागेन्द्रं डमरुं बीजपूरकम् ।
नन्दी मुकुटशोभाढ्यः (१)सर्वाभरणभूषितः ॥ १०० ॥
खट्वाङ्गञ्च कपालञ्च डमरुं बीजपूरकम् ।
दंष्ट्राकरालवदनो महाकालस्तु दक्षिणे ॥ १०१ ॥
इति पूर्वप्रतिहारौ ।
तर्जनी च त्रिशूलञ्च डमरुं गजमेव च ।
हेरम्बो वामभागे स्याद् भृङ्गी दक्षिणतः स्मृतः ॥ १०२ ॥
गजं डमरुखट्वाङ्गं तर्जनीं वामहस्ततः ।
उभौ च दक्षिणे द्वारे भृङ्गी दक्षिणतः स्मृतः ॥ १०३ ॥
इति दक्षिणप्रतिहारौ ।
लिशूलं डमरुञ्चैव खट्वाङ्गं च कपालकम् ।
कपालं डमरुं दन्तं बीजपूरं तथा दधत् ॥ १०४ ॥
दुर्मुखः पश्चिमे वामे पाण्डुरो दक्षिणे तथा ।
[ इति पश्चिमप्रतीहारौ ]
मातुलिङ्गं मृणालञ्च खट्वाङ्गं पद्मदण्डकौ ॥ १०५ ॥
सितो वामेऽसितो दक्षे उत्तरद्वारसंस्थितौ ।
पद्मदण्डञ्च खट्वाङ्गं मृणालं बीजपूरकम् ॥ १०६ ॥
[ इत्युत्तरप्रतीहारौ ]
इति (२)शिवप्रतिहारौ ।
इति श्रीसूत्र × × मण्डनविरचिते वास्तुशास्त्रे रूपमण्डने शिवमूर्त्तिशिवलिङ्ग-
लक्षणाधिकारश्चतुर्थोऽध्यायः ॥ ४ ॥
(१) 'सर्पाभरण-' इति स्यात् । (२) 'शिवप्रतीहाराः' इति स्यात् ।