रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 323, कुल 335 में से
संदर्भ में पढ़ें४४ रूपमण्डने
कन्दर्पी निर्वाणी बाला धारिणी (१)धरणाप्रिया ।
नादरक्ता च गन्धर्वीऽम्बिका (२)पद्मवती तथा ।
सिद्धायका चेति जैन्यः(३)क्रमा वासवदेवताः ॥ १६ ॥
इति जिनानां (४)यक्षणीनामानि ।
[ एतेषां लक्षणम् , तत्र गोमुखः ]
(५)रिषभो गोमुखो यक्षो(६)हेमवर्णो गजानना ।
(७)वराक्षसूत्रमाशाञ्च उभबीजपुरेषु च ॥ १७ ॥
[ चक्रेश्वरी ]
चक्रेश्वरी हेमवर्णा तार्क्ष्यारूढाऽष्टबाहुका ।
वरं बाणं (८)चक्रं ( शक्तिशूलमनाकुलम् ? ) ॥ १८ ॥*
[ अम्बिका ]
सिंहारूढाऽम्बिका पीता(मलुंबि ?)नागपाशकम् ।
अङ्कुशञ्च तथा(९)पुत्रं तथा हस्तेष्वनुक्रमात् ॥ १९ ॥
[ पार्श्वः ]
(१०)पार्श्वे स्यात् पार्श्वनानाथस्य कूर्मारूढा गजानना ।
बीजपूरोरगं नागं नकुलं श्यामवर्णकैः ॥ २० ॥
[ पद्मावती ]
(११)रक्तायसावती पूर्णा कुर्कुटोरगचतुर्भुजा ।
(१२)पद्मपाशोंशो बीजपूरं हस्तेषु कारयेत् ॥ २१ ॥
(१) 'धरणप्रिया' इति स्यात् । (२) 'पद्मावती' इति साधु । (३) 'क्रमात्
शासनदेवताः' इति स्यात् । (४) 'यक्षयक्षिणी-' इति स्यात् । (५) 'ऋषभे' इति
स्यात् । (६) 'हेमवर्णो गजाननः' इति स्यात् । (७) 'वरोऽक्षसूत्रं पाशञ्च बीजपूरं
करेषु च' इति स्यात् । (८) 'पाशचक्रं' 'चक्रपाशं' वा स्यात् । (९) 'फलं' इति
स्यात् । (१०) 'पार्श्वः स्यात् पार्श्वनाथस्य कूर्मारूढो गजाननः' इति स्यात् । (११) 'पद्मा-
वती रक्तवर्णा कुक्कुटस्था' इति स्यात् । (१२) 'पद्मं पाशाङ्कुशौ' इति स्यात् ।
- अत्रैतदनन्तरं नेमिनाथोपासकस्य 'गोमेघ'यक्षस्य लक्षणं लेखकप्रमादात् त्रुटितम् इति
सम्भाव्यते । यतोऽत्र ग्रन्थकृता संक्षेपबुद्ध्या जिनोपासकानां यक्षाणां यक्षिणीनाञ्च तावन्ति
लक्षणान्यनभिधाय 'चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः' ( २९) इत्यग्रिमप्रतिज्ञाग्रन्थानु-
सारेण आदिनाथ (ऋषभ)-नेमिनाथ-पार्श्वनाथ-महावीराणामुपासकान् गोमुख-गोमेध-पार्श्व-
मातङ्गाह्नो यक्षान्, चक्रेश्वर्यम्बिका-पद्मावती-सिद्धायकाख्या यक्षिणीश्च लक्षयितुं प्रवृत्तम् इति
विज्ञायते । नास्ति चास्य 'गोमेध'मलक्षयतः प्रतिज्ञाताथपरिसमाप्तिरित्यवसेयम् ।