सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

द्वितीयः सर्गः । १७
कान्तिर्येषां तैस्तथोक्तैः । क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्ज-
नराशिः कज्जलसमूहस्तेन संनिभैः सदृशैः । क्वचित्सगर्भाणां
गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्र-
भा कान्तिर्येषां तैस्तथोक्तैर्घनैर्मेघैर्व्योमाकाशं समन्तत इतस्त-
तः समाचितं व्याप्तमित्यर्थः ॥
तृषाकुलैश्चातकपक्षिणां कुलैः
प्रयाचितास्तोयभरावलम्बिनः ।
प्रयान्ति मन्दं बहुधोरवर्षिणो
बलाहकाः श्रोत्रमनोहरस्वनाः ॥ ३ ॥
तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां
कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणा-
वलम्बन्त इति तथोक्ताः । बह्व्यो धारा यस्यां क्रियायां
यथा भवति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य
मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाह-
का मेघाः । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्य-
मरः । मन्दं प्रयान्ति गगने संचरन्तीत्यर्थः ॥
बलाहकाश्चाशनिशब्दमर्दलैः
सुरेन्द्रचापं दधतस्तडिद्गुणम् ।
सुतीक्ष्णधारापतनोग्रसायकै-
स्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ ४ ॥
बलाहका इति ॥ अशनिशब्दमर्दला अशनिर्वज्रस्तस्य
शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः ।
तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । 'मौर्वी ज्या
१. 'नव.' २. 'वारि.' ३. 'भीषणाः'; 'भूषणाः.' ४. 'सायकाः.'
५. 'ध्वनिभिः.'

१८ ऋतुसंहारे
शिञ्जिनी गुणः' इत्यमरः । सुरेन्द्रचापमिन्द्रधनुः । 'धनुश्चापौ
धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । दधतो धारयन्तो
बलाहका मेघाश्च सुतीक्ष्णानां धाराणां जलधाराणां पतनान्ये-
वोग्रसायकास्तीक्ष्णबाणास्तैः कृत्वा प्रवासिनां प्रोषितानां
चेतोऽन्तःकरणं प्रसभमत्यन्तं तुदन्ति व्यथयन्तीत्यर्थः ॥
प्रभिन्नवैदूर्यनिभैस्तृणाङ्कुरैः
समाचिता प्रोत्थितकन्दलीदलैः ।
विभाति शुक्लेतररत्नभूषिता
वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ ५ ॥
प्रभिन्नेति ॥ प्रभिन्नेन वैदूर्येण नीलमणिना निभाः सदृ-
शास्तैस्तथोक्तैस्तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः प्रोत्थितानि
निर्गतानि यानि कन्दलीनां दलानि पत्राणि तैः । 'द्रोणपर्णी
स्निग्धकन्दा कन्दली' इति शब्दार्णवः । इन्द्रगोपकैः कृमि-
विशेषैश्च समाचिता व्याप्ता क्षितिर्धरित्री । 'धरा धरित्री
धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । शुक्लेतरैः
कृष्णादिवर्णै रत्नैर्मणिभिर्भूषिता शोभिता वराङ्गनेवोत्तम-
नायिकेव विभाति शोभत इत्यर्थः ॥
सदा मनोज्ञं स्वनदुत्सवोत्सुकं
विकीर्णविस्तीर्णकलापशोभितम् ।
ससंभ्रमालिङ्गनचुम्बनाकुलं
प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ ६ ॥
१. 'मनोज्ञस्तनितोत्सुखोन्मुखम्'; 'मनोज्ञाम्बुदनादसोत्सुकम्.'
२. 'विभाति.' ३. 'सविभ्रमा.'

द्वितीयः सर्गः । १९
सदेति ॥ सदा सर्वदा मनोज्ञं सुन्दरं स्वनच्छब्दायमा-
नमुत्सवोत्सुकं हर्षेणोत्कण्ठितम् । यद्गोत्सवे हर्ष उत्सुकमु-
त्कण्ठितम् । विकीर्णः प्रसारितो विस्तीर्णो लम्बमानो यः
कलापो बर्हस्तेन शोभितम् । ससंभ्रमं ससंवेगं यदालिङ्गनं
परिरम्भणं चुम्बनं च तत्राकुलं व्याकुलं बर्हिणां कलापिनां
कुलं प्रवृत्तमारब्धं नृत्यं नर्तनं येन तत्तादृशमद्यास्तीत्यर्थः ॥
निपातयन्त्यः १ परितस्तटद्रुमा-
न्प्रवृद्धवेगैः २ सलिलैरनिर्मलैः ।
स्त्रियः ३ सुदुष्टा इव ४ जातिविभ्रमाः
प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ७ ॥
निपातयन्त्य इति ॥ प्रवृद्धो वेगः प्रवाह उत्साहो वा
येषां तैस्तथोक्तैः । अनिर्मलैः कलुषैर्मलिनैर्वा सलिलैर्जलैर्ला-
वण्यजलैर्वा । 'सलिलं कमलं जलम्' इत्यमरः । परितः स-
मन्ततस्तटद्रुमांस्तटप्ररूढवृक्षान्पितृमातृकुलजनाभिभावकान्वा
निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्यो वा सुदुष्टाः स्त्रिय
इव जात उत्पन्नो विभ्रमः शृङ्गारादिचेष्टाभेदो यासां तास्त-
थोक्ताः । जातविभ्रमाः समुत्पन्नभ्रमविशिष्टाः नद्यस्त्वरितं
शीघ्रं पयोनिधिं समुद्रं प्रयान्ति गच्छन्तीत्यर्थः ॥
तृणोत्करैरुद्गतकोमलाङ्कुरै- ३
र्विचित्रैनीलैर्हरिणीमुखक्षतैः ।
१. 'विपाटयन्त्यः' २. 'प्रहृष्टाः'; 'प्रकामाः'. ३. 'तृणोद्गमैः'
४. 'चितानि.' ५. 'लेखैः'.

२० ऋतुसंहारे
वनानि वैन्ध्यानि हरन्ति मानसं
विभूषितान्युद्गतपल्लवैर्द्रुमैः ॥ ८ ॥
तृणोत्करैरिति ॥ उद्गता निर्गताः कोमला अङ्कुरा येषां
तैस्तथोक्तैः । विचित्रनीलैर्हरिणीमुखैः क्षता खण्डितास्तैस्त-
थोक्तैस्तृणोत्करैरुद्गता निर्गताः पल्लवाः किसलयानि येषां
तैस्तथोक्तैः । ‘पल्लवोऽस्त्री किसलयम्’ इत्यमरः । द्रुमैर्वृक्षैः
कृत्वा विभूषितानि शोभितानि वैन्ध्यानि विन्ध्यसंबंधीनि
वनानि काननानि । ‘गहनं काननं वनम्’ इत्यमरः । मान-
समन्तःकरणं हरन्तीत्यर्थः ॥
विलोलनेत्रोत्पलशोभिताननै-
र्मृगैः समन्तादुपजातसाध्वसैः ।
समाचिता सैकतिनी वनस्थली
समुत्सुकत्वं प्रकरोति चेतसः ॥ ९ ॥
विलोलेति ॥ विलोलानि चञ्चलानि यानि नेत्रोत्पला-
न्युत्पलसदृशानि नेत्राणि तैः शोभितानि भूषितान्याननानि
वदनानि येषां तैस्तथोक्तैः । ‘वक्त्रास्ये वदनं तुण्डमाननं
लपनं मुखम्’ इत्यमरः । उपजातसाध्वसैः संजातभयैर्मृगैर्ह-
रिणैः । ‘मृगे कुरङ्गवातायुहरिणाजिनयोनयः’ इत्यमरः ।
समन्तादितस्ततः समाचिता व्याप्ता सैकतिनी सिकतासंब-
न्धिनी वनस्थल्यकृत्रिमारण्यभूमिश्चेतसोऽन्तःकरणस्य समुत्सु-
कत्वमौत्सुक्यं प्रकरोति प्रकर्षेण जनयतीत्यर्थः ॥
१. ‘रम्याणि’. २. ‘पल्लवद्रुमैः’. ३. ‘शैवलिनी’.

द्वितीयः सर्गः । २१
^१अभीक्ष्णमुच्चैर्ध्व^२नता प^३योमुचा
घ^४नान्धकारीकृतशर्वरीष्वपि ।
तडित्प्रभादर्शितमार्गभूमयः
प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ १० ॥
अभीक्ष्णमिति ॥ अभीक्ष्णं मुहुर्मुहुः । 'मुहुर्मुहुः पुनः
शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः । उच्चैरुच्चस्वरेण ध्वनता
शब्दं कुर्वता पयोमुचा मेघेन घनान्धकारीकृतशर्वरीष्वप्यघना-
न्धकारा घनान्धकारा यथा संपद्यन्ते तथा कृताश्च ताः शर्वर्यो
रात्रयो यथा तथाभूतासु तडित्प्रभया विद्युत्कान्त्या दर्शिता
मार्गभूमयो यासां तास्तथोक्ता अभिसारिकाः स्त्रियो रागा-
त्कान्तानुरागेण । संकेतमिति शेषः । प्रयान्ति गच्छन्ती-
त्यर्थः । अभिसारिकालक्षणमुक्तममरसिंहेन—'कान्तार्थिनी
तु या याति संकेतं साभिसारिका' इति ॥
पयोधरैर्भीमगभीरनिस्वनै-
स्त^५डिद्भिरुद्वेजितचेतसो भृशम् ।
कृतापराधानपि योषितः प्रिया-
न्परिष्वजन्ते शयने निरन्तरम् ॥ ११ ॥
पयोधरैरिति ॥ भीमो भयानकोगभीरो गम्भीरो निस्वनो
निर्घोषो येषां तैस्तथोक्तैः । 'स्वाननिर्घोषनिर्ह्रादनादनिस्वान-
निस्वनाः' इत्यमरः । पयोधरैर्मेघैस्तडिद्भिर्विद्युद्भिश्च भृशम-
त्यन्तमुद्वेजितमुद्विग्नं चेतोऽन्तःकरणं यासां तास्तथोक्ता यो-
षितो नार्यः । 'स्त्री योषिदबला योषा नारी सीमन्तिनी
१ 'सुतीक्ष्णम्'. २ 'ध्वनताम्'. ३ 'पयोमुचाम्'. ४ 'घनान्ध-
कारावृत'. ५ 'ध्वनद्भिः'.
३

२२ ऋतुसंहारे
वधूः' इत्यमरः । कृतोऽपराधोऽन्यायः परवनितानिरीक्षणा-
दियैस्तांस्तथोक्तानपि प्रियाञ्शयने निरन्तरं निरवकाशं यथा
भवति तथा परिष्वजन्त आलिङ्गन्त इत्यर्थः ॥
विलोचनेन्दीवरवारिविन्दुभि-
र्निषिक्तबिम्बाधरचारुपल्लवाः ।
निरस्तमाल्याभरणानुलेपनाः
स्थि¹ता निराशाः प्रमदाः प्रवासिनाम् ॥१२॥
विलोचनेति ॥ विलोचनानि नेत्राणीन्दीवराणीव नीलो-
त्पलानीवेति विलोचनेन्दीवराणि तेषां ये वारिविन्दवो जल-
बिन्दवस्तैः कृत्वा निषिक्ताः संसिक्ताः बिम्बाधरा बिम्बसदृ-
शाधराश्चारुपल्लवा इवेति ते यासां तास्तथोक्ताः । बिम्बप-
देनारक्तत्वं पल्लवपदेन च कोमलत्वं व्यज्यते । निरस्तानि
त्यक्तानि माल्यान्याभरणानि भूषणान्यनुलेपनानि चन्दना-
दीनि याभिस्तास्तथोक्ताः प्रवासिनां प्रोषितानां प्रमदाः स्त्रियो
निजरमणसमागमसङ्गजनितसुखे निराशा आशारहिताः स्थि-
ता आसन्नित्यर्थः ॥
विपा²ण्डुरं कीटरजस्तृणान्वितं
भुजंगवद्वक्रगतिप्रसर्पितम् ।
ससाध्वसैर्भेककुलैर्निरीक्षि³तं
प्रयाति निम्नाभिमुखं नवोदकम् ॥ १३ ॥
विपाण्डुरमिति ॥ विपाण्डुरं पाण्डुरवर्णं कीटांश्च रजांसि
च तृणानि च तैरन्वितं युक्तं भुजंगवत्सर्पवद्वक्रगतिस्तिर्यग्ग-
१ 'कृताः'. २ 'विपाण्डवम्'. ३ 'विलोकितम्'.

२. द्वितीय सर्ग: वर्षा वर्णन (मेघ, मयूर व जल-विहार)

द्वितीयः सर्गः । २३
मनं प्रसर्पितमितस्ततः संचरणशीलं ससाध्वसैः सभयैर्भे क-
कुलैर्मण्डूकसमुदायैः । 'भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः'
इत्यमरः । निरीक्षितं विलोकितं नवोदकं नूतनजलं निम्नस्य
गम्भीरस्य देशस्याभिमुखम् । 'निम्नं गभीरं गम्भीरम्' इत्य-
मरः । प्रयाति गच्छतीत्यर्थः ॥
वि॑पन्नपुष्पां नलिनीं समुत्सुका
विहाय भृङ्गाः श्रुतिहारिनिस्वनाः ।
पतन्ति मूढाः शिखिनां प्रनृत्य॒तां
कलापचक्रेषु नवोत्पलाशया ॥ १४ ॥
विपत्रेति ॥ समुत्सुका उत्कण्ठिताः श्रुतेः श्रवणस्य हारी ।
मनआह्लादकर इति यावत् । निस्वनः शब्दो येषां ते तथो-
क्ता मूढा इदं न त्विदं तन्नलिनमिति विचाररहिता भृङ्गा
भ्रमराः । 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः ।
विगतानि पत्राणि दलानि यस्य तादृशं पुष्पं यस्याः सा तां
तथोक्तां नलिनीं विहाय त्यक्त्वा प्रनृत्यतां नृत्यं कुर्वतां शिखि-
नां मयूराणां कलापचक्रेषु बर्हमण्डलेषु नवोत्पलस्य नूतनकु-
वलयस्याशया । भ्रमेणेति भावः । पतन्ति निपतन्तीत्यर्थः ॥
वनद्विपानां नवैवारिदस्वनै-
र्मदान्वितानां ध्वन॒तां मुहुर्मुहुः ।
कपोलदेशा विमलोत्पलप्रभाः
सभृङ्गयूथैर्मदवारिभिः श्रिताः ॥ १५ ॥
१ 'प्रफुल्लपत्रां'; 'विपन्नपुष्पाम्'. २ 'समुत्सुकाम्'. ३ 'निवृत्तः'
४ 'तोयद'. ५. 'खनताम्'. ६. 'श्रिताः'.

२४ ऋतुसंहारे
वनद्विपानामिति ॥ नवाः सद्यःसंभृतसलिला ये वारिदा
जलदास्तेषां स्वनैर्निनादैः । 'शब्दे निनादनिन्दध्वनिध्वान-
रवस्वनाः' इत्यमरः । कृत्वा । मदान्वितानाम् । अपवारण-
गर्जनशङ्कयेति भावः । अतएव मुहुर्मुहुर्वारंवारं ध्वनतां ग-
र्जतां वनद्विपानामारण्यगजानाम् । 'द्विपः । मतंगजो गजो
नागः' इत्यमरः । विमलानि निर्मलानि यान्युत्पलानि कुव-
लयानि तेषां प्रभेव प्रभा येषां ते तथोक्ताः । 'स्यादुत्पलं
कुवलयम्' इत्यमरः । कपोलदेशा गण्डप्रदेशाः सभृङ्गयूथै-
र्भ्रमरसमुदायसहितैर्मदवारिभिर्दानोद्रेकैश्चिताः । व्याप्ता इत्य-
र्थः । सौगन्ध्यातिशयाद्भ्रमरैरप्यागत्य तत्र स्थितमिति भावः ॥
सितो¹त्पलाभाम्बुदचुम्बितोपलाः
²समाचिताः प्रस्रवणैः समन्त³तः ।
प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
समुत्सुकत्वं जनयन्ति भूधराः ॥ १६ ॥
सितेति ॥ सितानि शुभ्राणि यान्युत्पलानि कुवलयानि
तेषामाभेवाभा कान्तिः सलिलवर्षणे येषां तादृशा येऽम्बुदा
जलदास्तैश्चुम्बिता उपलाः पाषाणा येषां ते तथोक्ताः ।
'पाषाणप्रस्तरग्रावोपलाश्मानः' इत्यमरः । समन्तत इतस्ततः
प्रस्रवणैर्निर्झरैः । 'उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः'
इत्यमरः । समाचिता व्याप्ताः । प्रवृत्तमारब्धं नृत्यं नर्तनं
यैस्तथोक्तैः । 'लास्यं नृत्यं च नर्तने' इत्यमरः । शिखिभि-
१ 'सतोयनम्राम्बुद'; 'नीलोत्पलाभाम्बुद'. २ 'सुभूषिताः'.
३ 'अपङ्किलैः'.

द्वितीयः सर्गः । २५
र्मयूरैः समाकुला व्याकुला भूधराः समुत्सुकत्वम् । चित्तस्ये-
ति शेषः । जनयन्त्युत्पादयन्तीत्यर्थः ॥
कदम्बसर्जार्जुनकेतकीवनं¹
विकम्पयंस्तत्कुसुमाधिवासितः² ³ ।
ससीकराम्भोधरसङ्गशीतलः
समीरणः कं न करोति सोत्सुकम् ॥ १७ ॥
कदम्बेति ॥ कदम्बो नीपः, सर्जोऽश्वकर्णः, अर्जुनः ककु-
भः, केतक्यश्च तासां वनं समुदायम् । ‘नीपप्रियककदम्बा-
स्तु हरिप्रियः’ इत्यमरः । ‘साले तु सर्जकार्याश्वकर्णकाः
सस्यसम्बरः’ इत्यमरः । ‘इन्द्रद्रुः ककुभोऽर्जुनः’ इत्यमरः ।
विकम्पयंस्तेषां पूर्वोक्तद्रुमाणां कुसुमैः पुष्पैर्धिवासितः सं-
जाताधिवासः ससीकरो जलकणसहितो योऽम्भोधरो मेघस्त-
स्य सङ्गेन संसर्गेण शीतलः शीतः समीरणो मारुतः । ‘स-
मीरमारुतमरुज्जगत्प्राणसमीरणाः’ इत्यमरः । कं पुरुषं सो-
त्सुकं सोत्कण्ठं न करोति । अपि तु सर्वमेवेत्यर्थः ॥
शिरोरुहैः श्रोणितटावलम्बिभिः
कृतावतंसैः कुसुमैः सुगन्धिभिः ।
स्तनैः सँहारैर्वदनैः ससीधुभिः⁴
स्त्रियो रतिं संजनयन्ति कामिनाम् ॥ १८ ॥
शिरोरुहैरिति ॥ स्त्रियस्तरुण्यः श्रोणितटे कटिपश्चाद्भा-
गेऽवलम्बन्ते तैस्तथोक्तैः शिरोरुहैश्चिकुरैः । ‘चिकुरः कुन्तलो
बालः कचः केशः शिरोरुहः’ इत्यमरः । कृतावतंसैः सुग-
१ ‘नीपकेतकीः’. २ ‘प्रकम्पयन्’. ३ ‘अधिवासनः’. ४ ‘सुपीनैः’.

२६ ऋतुसंहारे
न्धिभिः कुसुमैः पुष्पैः । 'पुष्पं प्रसूनं कुसुमम्' इत्यमरः ।
सदारैः कुसुममालासहितैः स्तनैः कुचैः । ससीधुभिर्मधुस-
हितैर्वदनैराननैः कामिनां विलासिनां रतिं प्रीतिं संजनयन्ति
सम्यक्प्रकारेणोत्पादयन्तीत्यर्थः ॥
१तडिल्लताशक्रधनुर्विभूषिताः
पयोधरास्तोयभरावलम्बिनः ।
स्त्रियश्च काञ्चीमणिकुण्डलो२ज्ज्वला
हरन्ति चेतो युगपत्प्रवासिनाम् ॥ १९ ॥
तडिल्लतेति ॥ तडिल्लता लताकारा तडिच्छक्रधनु्रिन्द्रा-
युधं च ताभ्यां विभूषिताः शोभिताः । 'इन्द्रायुधं शक्रधनुः'
इत्यमरः । तोयभरेण जलभारेणावलम्बिनो नम्राः पयोधरा
मेघाः । काञ्ची मेखला च मणिकुण्डलानि नानाविधरत्नख-
चितताटङ्कानि च तैरज्ज्वलाः सुन्दराः स्त्रियश्च प्रवासिनां
प्रोषितानां चेतोऽन्तःकरणं युगपत्सममेव हरन्त्यपहरन्तीत्यर्थः ।
स्त्रियश्चात्र परकीयाः । प्रवासिनां स्वकीयासंनिध्याभावात् ॥
मालाः कदम्बनवकेसरकेतकीभि-
रायोजिताः शिरसि बिभ्रति योषितोऽद्य ।
कर्णान्तरेषु ककुभद्रुमम३ञ्जरीभि-
रि४च्छानुकूलरचितानवतंसकांश्च ॥ २० ॥
माला इति ॥ योषितः स्त्रियोऽद्य कदम्बानि कदम्ब-
कुसुमानि, नवकेसराणि नूतनबकुलकुसुमानि, केतक्यश्च
ताभिरायोजिता ग्रथिताः । 'अथ केसरे । बकुलम्'
१ 'तडिल्हताः'. २ 'मेखलोज्ज्वलाः'. ३ 'मञ्जरीणाम्'. ४ 'श्रोत्रानुकूल'.

द्वितीयः सर्गः ।
२७

इत्यमरः । मालाः स्रजः शिरसि मूर्धनि ककुभद्रुमोऽर्जुनवृ-
क्षस्तस्य मञ्जरीभिः कलिकाभिरिच्छयानुकूलं यथा भवति
तथा रचितान्कृतानवतंसा एवावतंसकास्तान्कर्णान्तरेषु कर्णो-
परिभागेषु बिभ्रति दधतीत्यर्थः । वसन्ततिलका वृत्तमेतत् ।
तदुक्तम्—'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥
कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः¹
पुष्पावतंससुरभीकृतकेशपाशाः ।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥२१॥
कालागुर्विति ॥ कालागुरुः कृष्णागुरुः स प्रचुरो बहुलो
यस्मिंस्तादृशं यच्चन्दनं तेन चर्चितं लिप्तमङ्गं शरीरं यासां
तास्तथोक्ताः । पुष्पावतंसेन कुसुमकर्णपूरेण सुरभीकृतः सु-
गन्धीकृतः केशपाशः कुन्तलसमूहो यासां तास्तथोक्ता नार्यः
स्त्रियो जलमुचां घनानां ध्वनिं गर्जनं श्रुत्वाकर्ण्य त्वरितं
शीघ्रं प्रदोषे रजनीमुखे गुरुगृहाच्छ्वशुरगृहं परित्यज्य शय्या-
गृहं प्रविशन्तीत्यर्थः ॥
कुवलयदलनीलैरुन्नतैस्तोय³नम्रै-
र्मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः ।
अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः
पथिकजनवधूनां त⁴द्वियोगाकुलानाम् ॥२२॥
कुवलयेति ॥ कुवलयस्य नीलोत्पलस्य दलं पत्रमिव


१ 'चर्चिताङ्गाः'. २ 'स्तोकनम्रैः'. ३ 'तोयनम्रैः'. ४ 'तद्वियो-
गक्षतानाम्'.

२८ ऋतुसंहारे
नीलैः श्यामवर्णैरुन्नतैरुच्चैस्तोयनम्रैर्जलनम्रैर्मृदुना लघुना
पवनेन वातेन विधूताः कम्पितास्तैस्त एव मन्दमन्दमति-
न्थरं चलद्भिर्गच्छद्भिः सेन्द्रचापैरिन्द्रधनुषा सहितैस्तोयदैर्मे-
घैस्तेषां पान्थजनानां वियोगेन विरहेणाकुला व्याकुलास्तासां
पथिकजनवधूनां विरहिणीनां चेतोऽन्तःकरणमपहृतमिव हृ-
त्वानीतमिवेत्युत्प्रेक्षा । मालिनी वृत्तमेतत् । लक्षणं तूक्तम् ॥
मुदित इव कदम्बैर्जातपुष्पैः समन्ता-
त्पवनचलितशाखैः शाखिभिर्नृत्यतीव ।
हसितमिव विधत्ते सूचिभिः केतकीनां
नवसलिलनिषेकैच्छिन्नतापो वनान्तः ॥२३॥
मुदित इति ॥ नवस्य नूतनस्य सलिलस्य निषेकेण सेव-
नेन छिन्न उच्छिन्नस्तापो यस्य स तथोक्तः वनान्तोऽरण्य-
प्रान्तो जातपुष्पैः प्रादुर्भूतकुसुमैः कदम्बैर्नीपवृक्षैर्मुदित इव
समन्तादितस्ततः पवनेन वायुना चलिताः कम्पिताः शाखा
यैस्तथोक्तैः शाखिभिर्वृक्षैः । 'वृक्षो महीरुहः शाखी विटपी
पादपस्तरुः' इत्यमरः । नृत्यतीव नृत्यं करोतीवेत्युत्प्रेक्षा ।
एवमन्यत्रापि । केतकीनां सूचिभिः कण्टकैर्हसितमिव हास्य-
मिव विधत्ते दधतीत्यर्थः ॥
शिरसि वकुलमालां मालतीभिः समेतां
विकसितनवपुष्पैर्यूथिकाकुङ्मलैश्च ।
विकचनवकदम्बैः कर्णपूरं वधूनां
रचयति जलदौघः कान्तवत्काल एषः ॥२४॥
शिरसीति ॥ जलदानां मेघानामोघः संघातो यस्मिन्स
१ 'निषेकात्'. २ 'शान्ततापः'. ३ 'कुसुमितवनपुष्पैः'.

द्वितीयः सर्गः । २९
तथोक्तः । 'स्तोमौघनिकरव्रातवारसंघातसंचयाः' इत्यमरः ।
एष कालो वर्षाकालः कान्तवत्प्रियवद्वधूनां स्त्रीणां शिरसि
मूर्धनि मालतीभिर्मालतीकुसुमैः समेतां युक्तां वकुलमालां
केसरस्रजं रचयति करोति । तथा विकसितनवपुष्पैः संफु-
ल्लनूतनकुसुमैर्यूथिकाया मागधीलतायाः कुड्मलानि मुकुला-
नि तैः । 'अथ मागधी । गणिका यूथिकाऽम्बष्ठा' इत्यमरः ।
'कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । विकचानि विकसि-
तानि नवानि नूतनानि यानि कदम्बानि कदम्बकुसुमानि
तैश्च कर्णपूरं कर्णोत्तंसं रचयति करोतीत्यर्थः ॥
दधति वरकुचाग्रैरुन्नतैर्हारयष्टिं
प्रतनुकसितदुकूलान्यायतः श्रोणिबिम्बैः ।
नवजलकणसेकादुद्गतां रोमराजीं
ललितवलिविभङ्गेर्मध्यदेशैश्च नार्यः ॥ २५ ॥
दधतीति ॥ नार्यः स्त्रिय उन्नतैरूर्ध्वमुखैर्बरा उत्तमाः ।
पीना वर्तुलाश्चेति यावत् । ये कुचाः स्तनास्तेषामग्रैरग्रभागै-
र्हारयष्टिं मुक्ताहारमायतैर्दीर्घैः श्रोणिबिम्बैः कटिपश्चाद्भागैः
प्रतनूनि सूक्ष्माणि सितानि श्वेतवर्णानि यानि दुकूलानि
वस्त्राणि तानि ललितानां सुन्दराणां वलीनां त्रिवलीनां वि-
भङ्गा येषु तैस्तथोक्तैर्मध्यदेशैर्नवानां जलकणानां सेकादुद्ग-
तामुत्पन्नां रोमराजीं रोमाञ्चपङ्क्तिं दधतीत्यर्थः ॥
नवजलकणसङ्गाच्छीततामादधानः
कुसुमभरनतानां लासकः पादपानाम् ।
१ 'कुचयुगाग्रैः,' 'पृथुकुचाग्रैः'. २ 'राजिम्'. ३ 'त्रिवलिवलि-
विभङ्गैः,' 'ललितवलिविभागैः'. ४ 'मध्यदेशे'. ५ 'तु'. ६ 'सेकात्'.
७ 'लालसः,' 'नाशकः'.

३० ऋतुसंहारे
जनित¹रुचिरगन्धः केतकीनां रजोभिः
परिहरति² नभस्वान्प्रोषितानां³ मनांसि ॥२६॥
नवेति ॥ नवानां नूतनानां जलकणानां सङ्गात्संबन्धा-
च्छीततां शैत्यमादधानो गृहन्कुसुमानां पुष्पाणां भरेण नता
नम्रास्तेषां तथोक्तानां पादपानां वृक्षाणां लासकः संसर्गवान् ।
एतेन मान्द्यमुक्तम् । केतकीनां रजोभिः परागैः । 'परागः
सुमनोरजः' इत्यमरः । जनित उत्पादितो रुचिरः सुन्दरो
गन्धो यस्मिंस्तथोक्तो नभस्वान्वायुः प्रोषितानां पान्थजनानां
मनांस्यन्तःकरणानि परिहरतीत्यर्थः ॥
⁴जलधरविनतानामाश्रयोऽस्माकमुच्चै-
रयमिति जलसेकैस्तोयदास्तोयनम्राः ।
अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः
समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥२७॥
जलधरेति ॥ तोयनम्रा जलभारनतास्तोयदा मेघा जल-
धरेण विनतानां नम्राणामस्माकमुच्चैरून्नतोऽयं विन्ध्याचल
आश्रय आधारः । भवतीति शेषः । इतीति हेतोरतिशय-
मत्यन्तं परुषाः कठिनास्ताभिस्तथोक्ताभिर्ग्रीष्मवह्नेः शिखाभिः
सम्यगुपजनित उत्पादितस्तापः संतापो यस्य तं तथोक्तं वि-
न्ध्यं विन्ध्याद्रिं जलसेकैर्जलवर्षणैर्ह्लादयन्ति हर्षं प्रापयन्ती-
वेत्युत्प्रेक्षा । उपकृतो हि विपन्नं परमुपकरोतीति भावः ॥
१. 'सुरभि'. २ 'व्यवहरति'; 'अपहरति'. ३ 'योषितानाम्'.
४ 'जलभरनमितानाम्'.

तृतीयः सर्गः । ३१
बहुगुणरमणीयः कामिनीचित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः ।
जलदसमय एष प्राणिनां प्राणभूतो
दिशतु तव हितानि प्रायशो वाञ्छितानि ॥२८
बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरः कामिनीनाम-
ङ्गनानां चित्तहारी । मनोऽनुरञ्जक इति यावत् । तरुविटपा
वृक्षशाखा लता बह्व्यश्च तासाम् । क्वचित्पुस्तके 'नतविट-
पिलतानाम्' इति पाठः । तदर्थस्तु—नता नम्रा ये विटपिनः
शाखिनो लताश्च तासामिति । 'वल्ली तु व्रततिर्लता' इत्य-
मरः । बान्धवो बन्धुः । निर्विकारो विकारशून्यः प्राणिनां
जन्तूनाम् । 'प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः'
इत्यमरः । प्राणभूतो जीवभूत एष जलदसमयो वर्षाकाल-
स्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि
दिशतु ददात्वित्यर्थः ॥
इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
प्रावृड्वर्णनं नाम द्वितीयः सर्गः ।
तृतीयः सर्गः ।
अथ क्रमप्राप्तं शरत्कालं वर्णयति—
काशांशुका विकचपद्ममनोज्ञवक्त्रा
सोन्मादहंसरवनूपुरनादरम्या ।
१ 'योषिताम्'. २ 'एषाम्'. ३ 'प्राणिनः'. ४ 'प्राणहेतुः'. ५. 'रुत'.

३२ ऋतुसंहारे
आपक्वशालिरुचिरा$^१$ तनु$^२$गात्रयष्टिः
प्राप्ता शरन्नववधूरिव रूप$^३$रम्या ॥ १ ॥
काशांशुकेति ॥ काशमेव काशकुसुममेवांशुकं वस्त्रं यस्याः
सा तथोक्ता । पक्षे काशमिवांशुकं वस्त्रं यस्याः सेति । वि-
कचं विकसितं यत्पद्मं तदेव मनोज्ञं सुन्दरं वक्त्रं मुखं यस्याः
सा तथोक्ता । पक्षे विकचं विकसितं यत्पद्मं तदिव मनोज्ञं
सुन्दरं वक्त्रं मुखं यस्याः सेति । 'प्रफुल्लोत्फुल्लसंफुल्लव्याको-
शविकचस्फुटाः । फुल्लश्चैते विकसिते' इत्यमरः । 'वक्त्रास्ये
वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः । सोन्मादानामुन्माद-
सहितानां हंसानां रवः शब्द एव नूपुरनादो मञ्जीरध्वनिस्तेन
रम्या रमणीया । पक्षे सोन्मादहंसरव इव नूपुरनादस्तैन
रम्या । 'शब्दे निनादनिनदध्वनिध्वानरवस्वनाः' इत्यमरः ।
'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । आ समन्तात्पक्वा परिणता
शालिरेव रुचिरा सुन्दरा तन्वी गात्रयष्टिः शरीरलता यस्याः ।
पक्ष आपक्वशालिरिव रुचिरा तनुर्गात्रयष्टिर्वपुः संहननं यस्याः ।
'शरीरं वर्ष्म विग्रहः' इत्यमरः रूपरम्या शरन्नववधूरिव
प्राप्तागतेत्यर्थः । वसन्ततिलका वृत्तम् ॥
काशैर्मही शिशिरदीधितिना रजन्यो
हंसैर्जलानि सरितां कुमुदैः सरांसि ।
सप्तच्छदैः कुसुमभारनतैर्वनान्ताः
शुक्लीकृतान्युपवनानि च मालतीभिः ॥ २ ॥
काशैरिति ॥ काशैः काशपुष्पैर्मही पृथ्वी । शिशिर-
१ 'ललिता'. २. 'नत'. ३. 'हरिरूपा;' 'रम्यरूपा'.

तृतीयः सर्गः । ३३
दीधितिना चन्द्रेण रजन्यो रात्रयः । हंसैः सरितां नदीनां
जलानि । कुमुदैः कैरवैः । 'सिते कुमुदकैरवे' इत्यमरः ।
सरांसि कासाराः । 'कासारः सरसी सरः' इत्यमरः । कुसु-
मभारेण पुष्पभारेण नता नम्रास्तैस्तथोक्तैः सप्तच्छदैः सप्तप-
र्णैर्वृक्षविशेषैर्वनान्ता अरण्यप्रान्ताः । मालतीभिर्जातीभिश्च ।
'सुमना मालती जातिः' इत्यमरः । उपवनान्यारामाः ।
'आरामः स्यादुपवनं कृत्रिमं वनमेव यत्' इत्यमरः । शुक्ली-
कृतानीति लिङ्गवचनविपरिणामेनान्वयः ॥
चञ्चन्मनोज्ञशफरीरसनाकलापाः
पर्यन्तसंस्थितसिताण्डजपङ्क्तिहाराः ।
नद्यो विशालपुलिनान्तरनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ ३ ॥
चञ्चदिति ॥ चञ्चती चञ्चला मनोज्ञा सुन्दरा शफर्येव
प्रोष्ठ्येव रसनाकलापः काञ्चीगुणो यासां तास्तथोक्ताः । पक्षे
चञ्चन्मनोज्ञशफरीव रसनाकलापो यासां ताः । 'प्रोष्ठी तु
शफरी द्वयोः' इत्यमरः । पर्यन्ते प्रान्तभागे संस्थितोपविष्टा
या सिताण्डजानां धवलमरालादीनां पङ्क्तिः श्रेणी सैव हारो
यासां तास्तथोक्ताः । 'पङ्क्तिः श्रेणी लेखास्तु राजयः' इत्य-
मरः । पक्षे पर्यन्तसंस्थितसिताण्डजपङ्क्तिरिव हारो यासां
ताः । विशालो विस्तीर्णो यः पुलिनान्तस्तीरप्रान्तः स एव
नितम्बबिम्बं कटिपश्चाद्भागो यासां तास्तथोक्ता नद्यः सरितः ।
'अथ नदी सरित्' इत्यमरः। समदा यौवनमदगर्विताः प्रमदाः
१ 'भक्ति.' २ 'पुलिनोरु.'
४

३४ ऋतुसंहारे
स्त्रिय इव मन्दं मन्थरं यथा भवति तथाद्य प्रयान्ति गच्छ-
न्तीत्यर्थः ॥
व्योम^२ क्वचिद्रजतशङ्खमृणालगौरै-
स्त्यक्ताम्बुभि^१र्लघुतया शतशः प्रयातैः ।
संलक्ष्यते पवनवेगचलैः पयोदै
राजैव चामरवरै^३रुपवीज्यमानः^४ ॥ ४ ॥
व्योमेति ॥ त्यक्तं निवृत्तमम्बु यैस्तथोक्तैरतएव रजतं च
शङ्खश्च मृणालं च रजतशङ्खमृणालानि तानीव गौरा गौरव-
र्णास्तैस्तथोक्तैः । लघुतया शतशः प्रयातैः पवनस्य वायौर्वे-
गेन चलाश्चञ्चलास्तैस्तथोक्तैः पयोदैर्व्योमाकाशं क्वचित्कुत्र-
चिद्भागे चामरवरैश्चामरश्रेष्ठैरुपवीज्यमानो राजैव संलक्ष्यते
दृश्यत इत्यर्थः ॥
भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं
बन्धूकपुष्परचितारुणता^५ च भूमिः ।
वप्राश्च चारुकमलावृतभूमिभागाः^६
प्रोत्कण्ठयन्ति^७ न मनो भुवि कस्य यूनः ॥५॥
भिन्नेति ॥ भिन्नो विभिन्नो योऽञ्जनप्रचयः कज्जलसमू-
हस्तद्वत्कान्तिर्यस्य तत्तथोक्तं मनोज्ञं सुन्दरं नभ आकाशम् ।
बन्धूकानां जीवबन्धूकानां पुष्पैः कुसुमै रचिता कृतारुणता
यस्याः सा तथोक्ता । 'बन्धूको बन्धुजीवकः' इत्यमरः ।
भूमिश्च । चारूणि सुन्दराणि यानि कमलानि तैरावृता आ-
१ 'वीताम्बुभिः.' २ 'उत्प्रेक्ष्यते.' ३ 'चामरशतैः.' ४ 'अपि
वीज्यमानः,' 'अभिवीज्यमानः.' ५ 'रजसारुणिता.' ६ 'पक्वकलमा.'
७ 'उत्कण्ठयन्ति.'

तृतीयः सर्गः । ३५
च्छादिता भूमिभागा येषां ते तथोक्ता वप्राः प्राकाराश्च ॥
‘स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः’ इत्यमरः ।
भुवि कस्य यूनो मनो न प्रोत्कण्ठयन्ति प्रोत्कर्षेण नोत्क-
ण्ठयन्ति । अपि तु सर्वस्यापीति विभक्तिविपरिणामेनान्वयः ॥
मन्दानिलाकुलितचारुतराग्रशाखः
पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।
मत्तद्विरेफपरिपीतमधुप्रसेक-
श्चित्तं विदारयति कस्य न कोविदारः ॥ ६ ॥
मन्देति ॥ मन्देन मन्थरेणानिलेन पवनेनाकुलिताश्चारु-
तरा अतिसुन्दरा अग्रशाखा यस्य तथोक्तः । पुष्पोद्गमस्य
कुसुमप्रादुर्भावस्य प्रचयेनाधिक्येन कोमलानि मृदूनि पल्ल-
वाग्राणि यस्य स तथोक्तः । मत्तद्विरेफैरून्मत्तभ्रमरैः परिपी-
तो मधुप्रसेको मकरन्दप्रस्रवो यस्य स तथोक्तः कोविदार-
श्चमरिकवृक्षः । ‘कोविद्वारे चमरिकः कुद्दालो युगपत्रकः ।’
इत्यमरः । कस्य चित्तं न विदारयति । अपि तु सर्वस्यापि
विदीर्णं करोतीत्यर्थः ॥
तारागणप्रवरभूषणमुद्वहन्ती
मेघावरोधपरिमुक्तशशाङ्कवक्त्रा ।
ज्योत्स्नादुकूलममलं रजनी दधाना
वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७ ॥
तारागणेति ॥ ताराणां नक्षत्राणां गणः समुदाय एव
प्रवरमुत्तमं भूषणम् । पक्षे तारागण इव प्रवरं भूषणम् ।
१ ‘चारुमनोज्ञ,’ ‘चारुविशाल.’ २ ‘मेघोपरोध.’

३६ ऋतुसंहारे
'नक्षत्रमृक्षं भं तारा' इत्यमरः । उद्द्वहन्ती दधती । मेघैः
कृत्वा योऽवरोधो व्यवधानं तस्मात्परिमुक्तो यः शशाङ्कश्चन्द्रः
स एव वक्त्रं वदनं यस्याः सा । पक्षे मेघ इव योऽवरोधो
वधूटिवयोऽवलम्बनीयो मुखवसनाच्छादनव्यवहारस्ततः
परिमुक्तं तन्नियमानधीनं शशाङ्कमिव चन्द्रमिव वक्त्रं मुखं
यस्याः सा । अमलं निर्मलं ज्योत्स्नैव दुकूलं वसनं दधाना
परिधानं कृतवती सा । पक्षे ज्योत्स्नेवामलं दुकूलं दधाना
सेति । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । रजनी या-
मिनी । 'रजनी यामिनी तमी' इत्यमरः । प्रमदा बाला
चानुदिनं प्रतिदिनं वृद्धिं प्रयाति गच्छतीत्यर्थः ॥
कारण्डवाननविघट्टितवीचिमालाः
कादम्बसारसचयाकुलतीरदेशाः ।
कुर्वन्ति हंसविरुतैः परितो जनस्य
प्रीतिं ²सरोरुहरजोरुणितास्तटिन्यः ॥ ८ ॥
कारण्डवेति ॥ कारण्डवानां पक्षिविशेषाणामाननैर्वदनै-
र्विघट्टिता वीचिमालास्तरङ्गपङ्क्तयो यासु तास्तथोक्ताः । 'भङ्ग-
स्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः । कादम्बानां कल-
हंसानां सारसानां पुष्कराह्वानां चयेन समुदायेनाकुलो व्या-
कुलस्तीरदेशो यासां तास्तथोक्ताः । 'कादम्बः कलहंसः
स्यात्' इत्यमरः । 'पुष्कराह्वस्तु सारसः' इत्यमरः । सरोरु-
हाणां कमलानां रजोभी रेणुभिररुणिता आरक्ताः । 'परागः
सुमनोरजः' इत्यमरः । तटिन्यस्तरङ्गिण्यः । 'तरङ्गिणी शैव-
१ 'कुलाकुल.' २ 'सरोरुहरजोरुणिताश्च नद्यः,' 'परां कमलरेणु-
वृतास्तटिन्यः.'