ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 34, कुल 91 में से
संदर्भ में पढ़ेंतृतीयः सर्गः । ३१
बहुगुणरमणीयः कामिनीचित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः ।
जलदसमय एष प्राणिनां प्राणभूतो
दिशतु तव हितानि प्रायशो वाञ्छितानि ॥२८
बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरः कामिनीनाम-
ङ्गनानां चित्तहारी । मनोऽनुरञ्जक इति यावत् । तरुविटपा
वृक्षशाखा लता बह्व्यश्च तासाम् । क्वचित्पुस्तके 'नतविट-
पिलतानाम्' इति पाठः । तदर्थस्तु—नता नम्रा ये विटपिनः
शाखिनो लताश्च तासामिति । 'वल्ली तु व्रततिर्लता' इत्य-
मरः । बान्धवो बन्धुः । निर्विकारो विकारशून्यः प्राणिनां
जन्तूनाम् । 'प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः'
इत्यमरः । प्राणभूतो जीवभूत एष जलदसमयो वर्षाकाल-
स्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि
दिशतु ददात्वित्यर्थः ॥
इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
प्रावृड्वर्णनं नाम द्वितीयः सर्गः ।
तृतीयः सर्गः ।
अथ क्रमप्राप्तं शरत्कालं वर्णयति—
काशांशुका विकचपद्ममनोज्ञवक्त्रा
सोन्मादहंसरवनूपुरनादरम्या ।
१ 'योषिताम्'. २ 'एषाम्'. ३ 'प्राणिनः'. ४ 'प्राणहेतुः'. ५. 'रुत'.