ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 20, कुल 91 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः । १७
कान्तिर्येषां तैस्तथोक्तैः । क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्ज-
नराशिः कज्जलसमूहस्तेन संनिभैः सदृशैः । क्वचित्सगर्भाणां
गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्र-
भा कान्तिर्येषां तैस्तथोक्तैर्घनैर्मेघैर्व्योमाकाशं समन्तत इतस्त-
तः समाचितं व्याप्तमित्यर्थः ॥
तृषाकुलैश्चातकपक्षिणां कुलैः
प्रयाचितास्तोयभरावलम्बिनः ।
प्रयान्ति मन्दं बहुधोरवर्षिणो
बलाहकाः श्रोत्रमनोहरस्वनाः ॥ ३ ॥
तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां
कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणा-
वलम्बन्त इति तथोक्ताः । बह्व्यो धारा यस्यां क्रियायां
यथा भवति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य
मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाह-
का मेघाः । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्य-
मरः । मन्दं प्रयान्ति गगने संचरन्तीत्यर्थः ॥
बलाहकाश्चाशनिशब्दमर्दलैः
सुरेन्द्रचापं दधतस्तडिद्गुणम् ।
सुतीक्ष्णधारापतनोग्रसायकै-
स्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ ४ ॥
बलाहका इति ॥ अशनिशब्दमर्दला अशनिर्वज्रस्तस्य
शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः ।
तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । 'मौर्वी ज्या
१. 'नव.' २. 'वारि.' ३. 'भीषणाः'; 'भूषणाः.' ४. 'सायकाः.'
५. 'ध्वनिभिः.'