ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 29, कुल 91 में से
संदर्भ में पढ़ें२६ ऋतुसंहारे
न्धिभिः कुसुमैः पुष्पैः । 'पुष्पं प्रसूनं कुसुमम्' इत्यमरः ।
सदारैः कुसुममालासहितैः स्तनैः कुचैः । ससीधुभिर्मधुस-
हितैर्वदनैराननैः कामिनां विलासिनां रतिं प्रीतिं संजनयन्ति
सम्यक्प्रकारेणोत्पादयन्तीत्यर्थः ॥
१तडिल्लताशक्रधनुर्विभूषिताः
पयोधरास्तोयभरावलम्बिनः ।
स्त्रियश्च काञ्चीमणिकुण्डलो२ज्ज्वला
हरन्ति चेतो युगपत्प्रवासिनाम् ॥ १९ ॥
तडिल्लतेति ॥ तडिल्लता लताकारा तडिच्छक्रधनु्रिन्द्रा-
युधं च ताभ्यां विभूषिताः शोभिताः । 'इन्द्रायुधं शक्रधनुः'
इत्यमरः । तोयभरेण जलभारेणावलम्बिनो नम्राः पयोधरा
मेघाः । काञ्ची मेखला च मणिकुण्डलानि नानाविधरत्नख-
चितताटङ्कानि च तैरज्ज्वलाः सुन्दराः स्त्रियश्च प्रवासिनां
प्रोषितानां चेतोऽन्तःकरणं युगपत्सममेव हरन्त्यपहरन्तीत्यर्थः ।
स्त्रियश्चात्र परकीयाः । प्रवासिनां स्वकीयासंनिध्याभावात् ॥
मालाः कदम्बनवकेसरकेतकीभि-
रायोजिताः शिरसि बिभ्रति योषितोऽद्य ।
कर्णान्तरेषु ककुभद्रुमम३ञ्जरीभि-
रि४च्छानुकूलरचितानवतंसकांश्च ॥ २० ॥
माला इति ॥ योषितः स्त्रियोऽद्य कदम्बानि कदम्ब-
कुसुमानि, नवकेसराणि नूतनबकुलकुसुमानि, केतक्यश्च
ताभिरायोजिता ग्रथिताः । 'अथ केसरे । बकुलम्'
१ 'तडिल्हताः'. २ 'मेखलोज्ज्वलाः'. ३ 'मञ्जरीणाम्'. ४ 'श्रोत्रानुकूल'.