ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 39, कुल 91 में से
संदर्भ में पढ़ें३६ ऋतुसंहारे
'नक्षत्रमृक्षं भं तारा' इत्यमरः । उद्द्वहन्ती दधती । मेघैः
कृत्वा योऽवरोधो व्यवधानं तस्मात्परिमुक्तो यः शशाङ्कश्चन्द्रः
स एव वक्त्रं वदनं यस्याः सा । पक्षे मेघ इव योऽवरोधो
वधूटिवयोऽवलम्बनीयो मुखवसनाच्छादनव्यवहारस्ततः
परिमुक्तं तन्नियमानधीनं शशाङ्कमिव चन्द्रमिव वक्त्रं मुखं
यस्याः सा । अमलं निर्मलं ज्योत्स्नैव दुकूलं वसनं दधाना
परिधानं कृतवती सा । पक्षे ज्योत्स्नेवामलं दुकूलं दधाना
सेति । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । रजनी या-
मिनी । 'रजनी यामिनी तमी' इत्यमरः । प्रमदा बाला
चानुदिनं प्रतिदिनं वृद्धिं प्रयाति गच्छतीत्यर्थः ॥
कारण्डवाननविघट्टितवीचिमालाः
कादम्बसारसचयाकुलतीरदेशाः ।
कुर्वन्ति हंसविरुतैः परितो जनस्य
प्रीतिं ²सरोरुहरजोरुणितास्तटिन्यः ॥ ८ ॥
कारण्डवेति ॥ कारण्डवानां पक्षिविशेषाणामाननैर्वदनै-
र्विघट्टिता वीचिमालास्तरङ्गपङ्क्तयो यासु तास्तथोक्ताः । 'भङ्ग-
स्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः । कादम्बानां कल-
हंसानां सारसानां पुष्कराह्वानां चयेन समुदायेनाकुलो व्या-
कुलस्तीरदेशो यासां तास्तथोक्ताः । 'कादम्बः कलहंसः
स्यात्' इत्यमरः । 'पुष्कराह्वस्तु सारसः' इत्यमरः । सरोरु-
हाणां कमलानां रजोभी रेणुभिररुणिता आरक्ताः । 'परागः
सुमनोरजः' इत्यमरः । तटिन्यस्तरङ्गिण्यः । 'तरङ्गिणी शैव-
१ 'कुलाकुल.' २ 'सरोरुहरजोरुणिताश्च नद्यः,' 'परां कमलरेणु-
वृतास्तटिन्यः.'