ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 27, कुल 91 में से
संदर्भ में पढ़ें२४ ऋतुसंहारे
वनद्विपानामिति ॥ नवाः सद्यःसंभृतसलिला ये वारिदा
जलदास्तेषां स्वनैर्निनादैः । 'शब्दे निनादनिन्दध्वनिध्वान-
रवस्वनाः' इत्यमरः । कृत्वा । मदान्वितानाम् । अपवारण-
गर्जनशङ्कयेति भावः । अतएव मुहुर्मुहुर्वारंवारं ध्वनतां ग-
र्जतां वनद्विपानामारण्यगजानाम् । 'द्विपः । मतंगजो गजो
नागः' इत्यमरः । विमलानि निर्मलानि यान्युत्पलानि कुव-
लयानि तेषां प्रभेव प्रभा येषां ते तथोक्ताः । 'स्यादुत्पलं
कुवलयम्' इत्यमरः । कपोलदेशा गण्डप्रदेशाः सभृङ्गयूथै-
र्भ्रमरसमुदायसहितैर्मदवारिभिर्दानोद्रेकैश्चिताः । व्याप्ता इत्य-
र्थः । सौगन्ध्यातिशयाद्भ्रमरैरप्यागत्य तत्र स्थितमिति भावः ॥
सितो¹त्पलाभाम्बुदचुम्बितोपलाः
²समाचिताः प्रस्रवणैः समन्त³तः ।
प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
समुत्सुकत्वं जनयन्ति भूधराः ॥ १६ ॥
सितेति ॥ सितानि शुभ्राणि यान्युत्पलानि कुवलयानि
तेषामाभेवाभा कान्तिः सलिलवर्षणे येषां तादृशा येऽम्बुदा
जलदास्तैश्चुम्बिता उपलाः पाषाणा येषां ते तथोक्ताः ।
'पाषाणप्रस्तरग्रावोपलाश्मानः' इत्यमरः । समन्तत इतस्ततः
प्रस्रवणैर्निर्झरैः । 'उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः'
इत्यमरः । समाचिता व्याप्ताः । प्रवृत्तमारब्धं नृत्यं नर्तनं
यैस्तथोक्तैः । 'लास्यं नृत्यं च नर्तने' इत्यमरः । शिखिभि-
१ 'सतोयनम्राम्बुद'; 'नीलोत्पलाभाम्बुद'. २ 'सुभूषिताः'.
३ 'अपङ्किलैः'.