ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 38, कुल 91 में से
संदर्भ में पढ़ेंतृतीयः सर्गः । ३५
च्छादिता भूमिभागा येषां ते तथोक्ता वप्राः प्राकाराश्च ॥
‘स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः’ इत्यमरः ।
भुवि कस्य यूनो मनो न प्रोत्कण्ठयन्ति प्रोत्कर्षेण नोत्क-
ण्ठयन्ति । अपि तु सर्वस्यापीति विभक्तिविपरिणामेनान्वयः ॥
मन्दानिलाकुलितचारुतराग्रशाखः
पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।
मत्तद्विरेफपरिपीतमधुप्रसेक-
श्चित्तं विदारयति कस्य न कोविदारः ॥ ६ ॥
मन्देति ॥ मन्देन मन्थरेणानिलेन पवनेनाकुलिताश्चारु-
तरा अतिसुन्दरा अग्रशाखा यस्य तथोक्तः । पुष्पोद्गमस्य
कुसुमप्रादुर्भावस्य प्रचयेनाधिक्येन कोमलानि मृदूनि पल्ल-
वाग्राणि यस्य स तथोक्तः । मत्तद्विरेफैरून्मत्तभ्रमरैः परिपी-
तो मधुप्रसेको मकरन्दप्रस्रवो यस्य स तथोक्तः कोविदार-
श्चमरिकवृक्षः । ‘कोविद्वारे चमरिकः कुद्दालो युगपत्रकः ।’
इत्यमरः । कस्य चित्तं न विदारयति । अपि तु सर्वस्यापि
विदीर्णं करोतीत्यर्थः ॥
तारागणप्रवरभूषणमुद्वहन्ती
मेघावरोधपरिमुक्तशशाङ्कवक्त्रा ।
ज्योत्स्नादुकूलममलं रजनी दधाना
वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७ ॥
तारागणेति ॥ ताराणां नक्षत्राणां गणः समुदाय एव
प्रवरमुत्तमं भूषणम् । पक्षे तारागण इव प्रवरं भूषणम् ।
१ ‘चारुमनोज्ञ,’ ‘चारुविशाल.’ २ ‘मेघोपरोध.’