सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

ब्दवाच्यत्वस्य वस्तुत्वाद्धेतोर्वारणेऽपि न किञ्चिद् दुष्यति;

  • `` निमित्ताभावे नैमित्तिकाभावस्येष्टत्वात् । सामयिकं तु सर्वत्राशक्यवारणमिति
  • `` तच्छब्दयोग्यताप्यबाध्या ॥ १२४ ॥
  • `` तस्मादवस्तु नियतो वस्तुन्यनियत इच्छाधीनत्वात् संकेत:, तस्य बलाद्
  • `` भाविनां धर्माणां वाच्यत्वादीनां पदार्थाः सर्वे धर्मित्वेन योग्याः, इच्छातः;
  • `` पुंसः केनचिद् वाच्यत्वाद्युत्थापिकाया इच्छाया अनिरोधात् ॥ १२५ ॥

Wait, let's double check lines 5-7 (the verses):
Image:
Row 1: ४०२ प्रमाणवार्त्तिके [ पक्षलक्षण-
Row 2: समयाद्वर्त्तमानस्य काऽसाधारणतापि वा ॥ १२२ ॥
Row 3: यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तुबलेन तत् ।
Row 4: प्रतीतिसिद्धोपगमेऽशशिन्यप्यनिवारणम् ॥ १२३ ॥
Row 5: तस्य वस्तुनि सिद्धस्य शशिन्य

विचारः ] परार्थानुमानपरिच्छेदः ४०३
तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा ।
प्रतिहन्ति प्रतीत्याख्या योग्यताविषयेऽनुमा ॥ १२६ ॥
शब्दानामर्थनियमः संकेतानुविधायिनाम् ।
नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते ॥ १२७ ॥
नैमित्तिक्याः श्रुतेरर्थमर्थं वा पारमार्थिकम् ।
शब्दानां प्रतिरुन्धानोऽबाधनार्हो हि वर्णितः ॥ १२८ ॥
तस्माद् विषयभेदस्य दर्शनाय पृथक्कृता ।
अनुमानाबहिर्भूता प्रतीतिरपि पूर्ववत् ॥ १२९ ॥
तामिष्टशब्दाभिधेयत्वयोग्यतां पदार्थानां सत्त्वादिकाद्धेतोर्विरुन्धानं
प्रतिक्षिपन्तं वादिनं प्रतीत्याख्या प्रतीतिसंज्ञिताऽनुमा प्रतिहन्ति । संकेता-
प्रतिषेधजेति स्वभावलिङ्गत्वमाह । इच्छाधीनत्वात् योग्यताविषये विपरीत-
धर्मोपस्थानमाह । प्रयोगः पुनः—"यः पुरुषेच्छानुविधायी स सर्वत्र सम्भवी,
तद्यथा विकल्पः । पुरुषेच्छानुविधायि चार्थेष्विष्टशब्दाभिधेयत्वम्" इति ॥ १२६ ॥
अनेन चेष्टशब्दाभिधेयत्वयोग्यताप्रतिषेधबाधनेन दर्शितेन शब्दानां संके-
तानुविधायिनामर्थनियमः प्रतिनियतवाचकत्वं नेत्युक्तं भवति । ततोऽस्य
स्वेच्छाकल्पितेऽर्थे एषां शब्दानां वाचकत्वस्य प्रतिषेधः सत्त्वादिहेतोः क्रिय-
माणो विरुध्यते ॥ १२७ ॥
यद्येवम् , तदा क्वचिदर्थे निषेधं कुर्वता शब्दो बाध्यः स्यात्, ततश्च
गुणादिकं निमित्तभूतं गुणादिशब्दानां गुणगुणिसम्बन्धादिपारमार्थिकमर्थं गुणि-
शब्दादीनां निषेधन् बाध्यः स्याद् ? इत्याह—येन कल्पितमर्थं शब्दानां बाधमानः
प्रतिक्षिप्यते, न तु गुणादिकम्, तेन नैमित्तिक्या वस्तुभूतगुणादिनिमित्तवत्याः
श्रुतेरर्थं गुणादिकं पारमार्थिकमर्थं गुणगुणादिसम्बन्धं शब्दानां गुण्यादि-
वाचिनां प्रतिरुन्धानोऽबाधनार्हो बाधां नार्हतीत्युक्तो भवति ॥ १२८ ॥
यस्माच्च सांकेतिकार्थनिराकरणे प्रतीतिबाधा, तस्मात् स्वभावलिङ्गत्वेना-
नुमानाद्बहिर्भूता प्रतीतिरपि तस्मात् पृथक्कृता । किमर्थम् ? इत्याह—
विषयस्य भेदः कल्पिताकल्पितत्वं तस्य दर्शनाय कल्पितार्थविषया प्रतीतिः,

४०४ प्रमाणवार्त्तिके [ पक्षलक्षण-
सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम् ।
एते सहेतुके प्राह नानुमाध्यक्षबाधने ॥ १३० ॥
प्रत्यक्षबाधा
अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ ।
प्रसिद्धस्य श्रुतौ;
रूपं यदेव प्रतिभासते ॥ १३१ ॥
अद्वयं शबलाभासस्यादृष्टेर्बुद्धिजन्मनः ।
वस्तुविषयं त्वनुमानमित्यर्थः । पूर्ववदिति । यथा आगमस्ववचनेऽभ्युपगत-
प्रामाण्येऽप्रत्यक्षत्वादनुमानान्तर्गतेऽपि विषयभेददर्शनाय पृथग्दर्शिते—वस्तुबल-
प्रवृत्तेऽनुमानम्, सर्वविषयविचारे त्वागमस्ववचने अधिकृते, तथा प्रतीत्यनुमाने
अपि भिन्नविषये इत्यर्थः ॥ १२९ ॥
अनुमानबाधायामन्तर्भावादनयोरभ्युपगमप्रतीतिबाधयोः सिद्धयोरपि पृथ-
गाख्याने विषयभेदलक्षणं प्रयोजनं दर्शयन्नाचार्य एते अभ्युपगमप्रतीतिबाधे
सहेतुके प्राह । 'न सन्ति प्रमाणानि प्रमेयार्थानीति प्रतिज्ञामात्रेण' इत्यत्र
प्रतिज्ञामात्रं शास्त्रस्ववचनयोः सिद्धयोरप्रामाण्यप्रतिज्ञाबाधकमुक्तम् , अतोऽप्य-
साधारणत्वादनुमानाभावे शाब्दप्रसिद्धेनापोद्यते, न सपक्ष इति । अत्र शाब्दप्रसि-
द्धेन शशिनश्चन्द्रत्वेनाचन्द्रत्वप्रतिज्ञाया बाधनमुक्तम् । अनुमाध्यक्षबाधने तु न
सहेतुके प्राह—अश्रावणः शब्दो नित्यो घट इति । तस्माद् विषयभेदोपलक्षणार्थं
सहेतुत्वाहेतुत्वदर्शनम् । प्रत्यक्षानुमानबाधे सर्वविषये । अभ्युपगमप्रतीतिबाधे
तु नियतविषये इत्यर्थः ॥ १३० ॥
उक्ता प्रतीतिबाधा ॥
प्रत्यक्षबाधा वक्तव्या । न केवलं शाब्दप्रसिद्धे व्यवहारधर्मप्रसिद्धौ तत्प्रति-
रोद्धा बाध्यते, किन्तु अत्राप्यध्यक्षबाधायां व्यावहारिककल्पनावशात् नाना-
रूपतया लोके प्रसिद्धस्य ख्यातस्य ध्वनौ श्रुतौ श्रवणज्ञाने यदेव रूपमद्वयं
धर्मादिद्वयशून्यं प्रतिभासते शबलाभासस्य नानाकारस्य बुद्धिजन्मनोऽदृष्टेः,
यदि नानाकारता शब्दस्य वास्तवी स्यात्; तथैव श्रुतिज्ञाने प्रतिभासेत ।

विचारः ] परार्थानुमानपरिच्छेदः ४०५
तदर्थार्थोक्तिरस्यैव क्षेपेऽध्यक्षेण बाधनम् ॥ १३२ ॥
सामान्यविचारः
तदेव रूपं तत्रार्थः शेषं व्यावृत्तिलक्षणम् ।
अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचरः ॥ १३३ ॥
तेन सामान्यधर्माणामप्रत्यक्षत्वसिद्धितः ।
प्रतिक्षेपेऽप्यबाधेति श्रावणोक्त्या प्रकाशितम् ॥ १३४ ॥
सर्वथाऽवाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात् ।
तदर्था तत्प्रतिपादनफलाऽऽचार्यस्य प्रत्यक्षानुमानार्थप्रसिद्धेन निराकृत इत्यत्रार्थो-
क्तिरर्थग्रहणमस्याध्यक्षसिद्धस्यैव रूपस्य क्षेपेऽध्यक्षेण बाधनमिष्टम् ॥
१३१-१३२ ॥
तत्र श्रुतिज्ञाने भासमानं तद्रूपमर्थः स्वलक्षणम्, तदतिरिक्तं शेषं धर्मि-
धर्मादि व्यावृत्तिलक्षणमन्यव्यवच्छेदस्वभावमवस्तुभूतं सर्वत्र सम्भवात् सामान्यं
च । अतोऽवस्तुत्वादेस्तद् गुणजात्यादि नाक्षगोचरः ॥ १३३ ॥
तेनावस्तुत्वेन कारणेन सामान्यधर्माणां प्रमेयत्वादीनामप्रत्यक्षत्वस्य
सिद्धितः । केनचिद् वादिना प्रत्यक्षसिद्धितः प्रतिक्षेपेऽपि क्रियमाणे न बाध्य-
बाधकभाव इत्यश्रावण इत्यत्र श्रावणोक्त्या निषेध्यदर्शिकाया प्रकाशितम् ।
स्वलक्षणबाधने प्रत्यक्षबाधेत्यर्थः ॥ १३४ ॥
एवं तर्हि शब्दस्वलक्षणं नास्तीत्येव कस्मान्नोच्यते, किं श्रावणत्वं मुख्यं
निषेध्य युक्तिः ? इत्याह-- स्वलक्षणस्य सर्वथा केनचिच्छब्देनावाच्यत्वात् मुख्य-
मभिधानं नास्त्येव । अथ सामान्यवृत्तिरपि स्वलक्षणशब्दोऽध्यवसायानुरोधात्
स्वलक्षणमुपलक्षयति । एवं श्रावणशब्दोऽपीन्द्रियग्राह्यतोपलक्षणं शब्दस्वलक्षण-
मुपलक्षयिष्यतीति न कश्चिद् विशेषः ।
अथ वा--अस्त्येव श्रावणशब्देनाभिधाने प्रयोजनमित्याह । श्रोत्रेन्द्रिय-
विषयस्य या सिद्धिस्तथा भावः, तया सिद्ध्या तस्येन्द्रियज्ञानस्य समाश्रया-
च्छब्दस्य स्वरूपव्यवस्थित्या हेतुना तेन व्यपदेश इन्द्रियज्ञानबलेन शब्दस्वरूपा-
वस्थितः । तथाभिधानमित्यर्थः ।

४०६ प्रमाणवार्त्तिके [ सामान्य-
बाधनात् तद्बलेनोक्तः श्रावणेनाक्षगोचरः ॥ १३५ ॥
सर्वत्र वादिनो धर्मो यः स्वसाध्यतयेप्सितः ।
तद्धर्मवति बाधा स्यान्नान्यधर्मेण धर्मिणि ॥ १३६ ॥
अन्यथास्योपरोधः को बाधितेऽन्यत्र धर्मिणि ।
गतार्थे लक्षणेनास्मिन् स्वधर्मिवचनं पुनः ॥ १३७ ॥
बाधायां धर्मिणोऽपि स्याद् बाधेत्यस्य प्रसिद्धये ।
आश्रयस्य विरोधेन तदाश्रितविरोधनात् ॥ १३८ ॥
किञ्च—तस्येन्द्रियज्ञानस्य बलेन शब्दस्वलक्षणविपर्ययभावस्य बाध-
नात् कारणात् श्रावणेनाक्षगोचरः स्वलक्षणमुक्तः । 'नित्यो घटः' इत्यनु-
माने नित्यत्वविषयेण कृतकत्वलिङ्गभुवा बाधितः पक्षः । स चासकृद्दर्शित एवेति
नेह प्रपञ्चितः ॥ १३५ ॥
इदानीं प्रत्यक्षानुमानाप्रसिद्धेन स्वधर्मिणीति स्वधर्मिग्रहणस्य साफल्य-
माख्यातुमाह—सर्वत्र वादकाले साध्यकाले वा वादिनः स्वसाध्यतया
यो धर्म इप्सितः तद्धर्मवति धर्मिणि बाधा स्यात् । यथा श्रावणत्ववति
शब्दे बाधिते बाधा पक्षस्य । न तु वादीष्टाद् धर्मादन्येन धर्मेण धर्मवति
धर्मिणि बाधिते बाधा पक्षस्य स्यादिति धर्मिग्रहणप्रयोजनम्, यथाकाशगुणत्ववति
शब्दे बाधितेन पक्षबाधा ॥ १३६ ॥
अन्यथा यद्येवं नेष्यते, तदान्यत्र धर्मे धर्मिणि बाधितेऽस्य प्रकृतधर्म-
विशिष्टस्य धर्मिणः क उपरोधो बाधा । ननु “स्वरूपेणैव निर्देश्यः स्वयमिष्टोऽ-
निराकृतः पक्षः” इति पक्षलक्षणेनैवानिष्टधर्मवतो धर्मिणो बाधा न पक्षबाधेति लभ्यत
एव ? इत्याह—पक्षस्य लक्षणेनास्मिन् वादीष्टधर्मवति धर्मिणि बाध्यत्वेन
गतार्थे पुनः स्वधर्मिवचनं यत्कृतम् ॥ १३७ ॥
धर्मिणोऽपि बाधायां धर्मस्य बाधने पक्षबाधा यथा स्यादित्यस्यार्थस्य
प्रसिद्धये कचिदाश्रयस्य धर्मिणो विरोधेन प्रतिक्षेपेण तदाश्रितस्य विरोध-
नात् धर्मद्वारेण धर्मिद्वारेण वा समुदायबाधायां पक्षबाधेत्यर्थः ॥ १३८ ॥

विचारः ] परार्थानुमानपरिच्छेदः ४०७
अन्यथैवंविधो धर्मः साध्य इत्यभिधानतः ।
तद्बाधामेव मन्येत स्वधर्मिग्रहणं ततः ॥ १३९ ॥
नन्वेतदप्यर्थसिद्धं सत्यं केचित्तु धर्मिणः ।
केवलस्योपरोधेडपि दोषवत्तामुपागताः ॥ १४० ॥
यथा परैरनुत्पाद्यापूर्वरूपं न खादिकम् ।
सकृच्छब्दाद्यहेतुत्वादित्युक्ते प्राह दूषकः ॥ १४१ ॥
तद्वद् वस्तुस्वभावोऽसन् धर्मो व्योमादिरित्यपि ।
नैवमिष्टस्य साध्यस्य बाधा काचन विद्यते ॥ १४२ ॥
अन्यथा धर्मिद्वारेण समुदायबाधायाः संग्रहार्थं स्वधर्मिग्रहणं यदि न
क्रियते, तदैवंविधः साध्यत्वेनैवेष्टो धर्मः साध्य इत्यभिधानतः । तस्य
धर्ममात्रस्यैव बाधां मन्येत प्रतिपत्ता, न तु धर्मिबाधामपि । तत उभयसंग्रहार्थं
स्वधर्मिग्रहणमाचार्यस्य ॥ १३९ ॥
नन्वेतदुभयसंग्रहणमप्यर्थतः सामर्थ्यतः सिद्धम् । न हि केवलो
धर्मोऽस्ति; क्वचित् तद्बाधने तद्विशिष्टस्य धर्मिणोऽपि बाधनात् समुदायबाधै-
वैषितव्या । सा च धर्मिद्वारेण वा भवतु, धर्मद्वारेण वा, न कश्चिद् विशेष इत्यर्थः ।
अत्राह—सत्यमेतत्, केचित्तु वादिनो धर्मिणः केवलस्योपरोधे साध्य-
धर्मस्याबाधायामपि पक्षस्य दोषवत्तामुपागताः प्रतिपन्नाः ॥ १४० ॥
यथा परैः सहकारिभिरनुत्पाद्यापूर्वरूपं न खादिकमाकाशदिकालादि
न भवति, अपि तूत्पाद्यापूर्वरूपमेव भवति । सकृदेककालं तदुत्पाद्यस्य कार्य-
कलापस्य शब्दादेरहेतुत्वादविशिष्टैकरूपात् कारणात् सकृत् सर्वकार्योत्पत्ति-
प्रसङ्गादिति वादिनोक्ते दूषकः प्रतिवाद्याह ॥ १४१ ॥
तद्वद् यथानुत्पाद्यापूर्वरूपं आकाशादिर्न भवति, तथा वस्तुस्वभावो
धर्मी व्योमादिरसन्नित्यपि स्यात् । अर्थक्रियाऽसमर्थस्य वस्तुत्वाभावादिति
धर्मिणः केवलस्य बाधनम्, न धर्मस्य । एवं धर्मिबाधनेऽपीष्टस्य साध्यस्य
काचन बाधा न विद्यते, हेतोर्वाऽसिद्धिः, असत्यपि कार्यानुत्पादस्य व्यवच्छेदस्य
सिद्धेः ॥ १४२ ॥

४०८ प्रमाणवार्त्तिके [ सामान्य-
द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत् ।
बाधनं धर्मिणस्तत्र बाध्येतेतेन वर्णितम् ॥ १४३ ॥
तथैव धर्मिणोऽप्यत्र साध्यत्वात् केवलस्य न ।
यद्येवमत्र बाधा स्यात्;
नान्यानुत्पाद्यशक्तिकः ॥ १४४ ॥
सकृच्छब्दाद्यहेतुत्वात् सुखादिरिति पूर्ववत् ।
विरोधिता भवेदत्र हेतुरैकान्तिको यदि ॥ १४५ ॥
ततः, द्वयस्य धर्मिधर्मसमुदायस्यापि हि साध्यत्वे सति यत्र धर्मिणो
बाधनं साध्यधर्मोपरोधि, तत्र पक्षबाधा युक्तेत्येतेन स्वधर्मिग्रहणेन वर्णि-
तम् । न हि साध्यधर्ममात्रसाधनार्थं कश्चित् साधनमन्वेषते; तस्य जगति
क्वचित् सत्तायां विवादाभावात्, तथा निश्चये प्रवृत्त्ययोगाच्च । किन्तु धर्मि-
विशेषनिष्ठं साध्यमिष्टम् ॥ १४३ ॥
तत्र यथा धर्मिविशिष्टस्य साध्यत्वं धर्मस्य, तथैव साध्यस्वविशिष्टत्वेन
धर्मिणोऽपि साध्यत्वात् केवलस्य धर्मस्य न क्वचित् साध्यता । ततो न
केवलस्य धर्मिणो बाधने पक्षबाधा ॥ १४४ ॥
यदि साध्यधर्मोपरोधिनि धर्मिणि बाधिते पक्षबाधेष्यते, एवं सत्यत्र हेतौ
सांख्यं प्रति बौद्धेनोक्ते धर्मिबाधाद्वारेण धर्मबाधा स्यात् ।
तथथा सुखादिः सुखदुःखमोहात्मकं प्रधानं नान्येन सहकारिणाऽनु-
त्पाद्यशक्तिकोऽनाधेयसामर्थ्यः सकृच्छब्दादीनां कार्याणामहेतुत्वादिति । अत्र
पूर्ववत् परैरनुत्पाद्येत्यादिप्रयोगाच्च सुखाद्यात्मकस्य नित्यत्वस्य बाधनात्
सुखादौ धर्मिणि बाधिते तद्धर्मस्य नित्यत्वस्य विरोधने विपर्ययसाधने बाधा
स्यात् । अनित्यस्वभावो हि सुखादिः साधयितुमिष्टः । सुखादिस्वभावभूतनित्य-
त्वबाधने च सुखादिरेव बाधित इति धर्मोपरोधिनि धर्मिणि बाधिते पक्षबाधा
स्यात् । अत्राह—भवेदत्र हेतौ पक्षबाधा । यदि न सकृच्छब्दाद्यनुत्पादादिति
हेतुः साध्यस्य; वस्तुभूतसुखाद्यनित्यत्वस्य विपर्यये सुखादिधर्म्यभावादनित्यत्वा-
भावेऽनैकान्तिकोऽव्यभिचारी भवेत् ॥ १४५ ॥

विचारः ] परार्थानुमानपरिच्छेदः ४०९
क्रमक्रियाऽनित्यतयोरविरोधाद् विपक्षतः ।
व्यावृत्तेः संशयान्नायं शेषवद् भेद इष्यते ॥ १४६ ॥
स्वयमिष्टो यतो धर्मः साध्यस्तस्मात् तदाश्रयः ।
बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम् ॥ १४७ ॥
स्वयं-श्रुत्यान्यधर्माणां बाधाऽबाधेति कथ्यते ।
तथा स्वधर्मिणान्यस्य धर्मिणोऽपीति कथ्यते ॥ १४८ ॥
यावता या च क्रमक्रिया हेतुः, या च साध्याऽनित्यता, तयोरविरो-
धात् । अवस्तुभूत(धर्मि)सुखादिधर्मानित्यत्वे विपरीते साध्ये वस्तुभूतसुखादि-
धर्मानित्यत्वं विपक्षः, ततो हेतोः क्रमकरणव्यावृत्तेः संशयान्नायं विरुद्धो
हेतुः । शेषवद् भेदोऽनैकान्तिकविशेषस्त्विष्यते । सति च विरुद्धत्वे धर्मिबाधा-
द्वारेण धर्मबाधा स्यात् ॥ १४६ ॥
यतः कारणात् स्वयं वादिनिष्टो धर्मः साध्यः, तस्मात् साध्यधर्मस्या-
श्रयो यः स एव बाध्यः, केवलो न बाध्यः । यथा वस्तुभूताकाशबाधायामपि
नित्यैकरूपत्वाभावस्य साध्यधर्मस्य न क्षतिः । साध्यधर्मादन्यस्य च धर्मस्या-
श्रयो न बाध्यः—इति स्वयं-शब्देन सूचितम् । यथाऽनित्यत्वे साध्ये शब्दे
आकाशगुणत्वाश्रयत्वेन बाधायामपि न दोषः ॥ १४७ ॥
तस्मात् स्वयं-श्रुत्या साध्याद् धर्मादन्येषां धर्माणां यथा बाधा या, सा
ऽबाधेति कथ्यते । तथा स्वधर्मिणा स्वधर्मिवचनेन साध्यादन्यस्य धर्मस्य
धर्मिणो बाधाऽबाधेति कथ्यते ॥ १४८ ॥
तथा अपरेऽपि पक्षाभासाः सन्ति ते कस्मान्नोच्यन्ते । तथा हि—अप्रसिद्ध-
विशेष्यः कश्चित् पक्षः, यथा विभुरात्मा; आत्मन एव बौद्धस्यासिद्धत्वात् ।
कश्चिद् प्रसिद्धविशेषणः, यथा विनाशी शब्दः; सांख्यं प्रति तस्य विनाशा-
सिद्धेः । कश्चिदप्रसिद्धोभयः, यथा समवायिकारणमात्मा; बौद्धस्योभयासिद्धेरिति ?
नन्वसिद्धोऽप्यात्मा पक्षी भविष्यति; तल्लक्षणयोगात्, न ह्यसिद्धस्य पक्षता
निरस्ता । आश्रयासिद्धत्वाद्धेतोर्न पक्ष इति चेत् ? न; साधनदोषोऽयं न पक्षदोषः ।
तथा शब्देऽनित्यत्वं विशेषणमसिद्धमिति गुण एवायम्, न पक्षदोषः; असिद्धस्यैव

४१० प्रमाणवार्त्तिके [ पक्षदोष-
पक्षदोषविचारः
हेतुनिरपेक्षः पक्षदोषः
सर्वसाधनदोषेण पक्ष एवोपरुध्यते ।
तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः ॥ १४९ ॥
उत्तरावयवापेक्षो यो दोषः सोऽनुबध्यते ।
तेनेत्युक्तमतोऽपक्षदोषोऽसिद्धाश्रयादिकः ॥ १५० ॥
धर्मिधर्मविशेषाणां स्वरूपस्य च धर्मिणः ।
बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता ॥ १५१ ॥
साध्यत्वात् । अथ विपर्ययसिद्ध्याऽसिद्धमुच्यते ? तथापि मूढस्य विपर्ययसिद्धा-
वपि नायं पक्षदोषः । विरोधो नाम हेतुदोष एवायम् । प्रमाणेन च विपर्ययसिद्धौ
प्रमाणबाधितत्वमेव पक्षदोषोऽस्तु, अलमप्रसिद्धविशेषणत्वाभिधानेन । अप्रसिद्धो-
भयस्य तूभयदोषान्न सर्वेऽमी हेतुदोषा एवेति किं पक्षदोषा वक्तव्याः ।
अथ सर्वेण साधनस्य दोषेणासिद्धत्वादिना पक्ष एवोपरुध्यते, तेन
पक्षदोषा असिद्धविशेण्यादयोऽभिधीयन्ते । यद्यपि पक्षोपरोधफलाः सर्वे दोषाः,
तथापि प्रतिज्ञामात्रेण भवनशीलस्य दोषस्य पक्षदोषत्वमुक्तमिष्टम् ॥ १४९ ॥
यस्मात् साक्षात् उत्तरोऽवयवो हेतुदृष्टान्तादिस्तदपेक्षो यो दोषः स
तेन हेत्वादिनानुबध्यते आत्मनि सम्बध्यते इत्युक्तं प्राक्—“उत्तरावयवापेक्षो
न दोषः पक्ष इष्यते” (प्र० वा० ४. ८२) इत्यादिना । अतोऽसिद्धाश्रया-
दिक आश्रयासिद्धत्वादिरुत्तरावयवापेक्षो न पक्षदोषो मतः ॥ १५० ॥
नन्वश्रावणः शब्दो नित्यो घटः—नानुमानं प्रमाणम् । अचन्द्रः शशीत्यु-
दाहरणैर्धर्मस्वरूपनिराकरणेन बाधा दर्शिता, यथाप्रतिज्ञातधर्ममात्रस्य विप-
रीतधर्मोपस्थापनेन निराकरणात् धर्मिविशेषस्य धर्मविशेषस्य धर्मस्वरूपस्य च
बाधनेन पक्षबाधास्ति सा कथमवगन्तव्या ? इत्याह—धर्मिधर्मयोर्विशेषाणां
व्यक्तिभेदापेक्षया बहुवचनम् । धर्मिणः स्वरूपस्य च सर्वेषामेषां साध्यं
प्रत्यङ्गभूतानां बाधा । अनेनैव धर्मस्वरूपनिराकरणपरेणोदाहरणेन साध्यते ।
पक्षलक्षणत्वाद् बाधोपदर्शिता ॥ १५१ ॥

विचारः ] परार्थानुमानपरिच्छेदः ४११
अवयविनिरासः
तत्रोदाहृतिदिङ्मात्रमुच्यतेऽर्थस्य दृष्टये ।
द्रव्यलक्षणयुक्तोऽन्यः संयोगेऽर्थोऽस्ति दृष्टिभाक् ॥ १५२ ॥
अदृश्यस्य विशिष्टस्य प्रतिज्ञा निष्प्रयोजना ।
इष्टो ह्यवयवी कार्यं दृष्ट्वाऽदृश्येष्वसम्भवि ॥ १५३ ॥
अविशिष्टस्य चान्यस्य साधने सिद्धसाधनम् ।
गुरुत्वाधोगती स्यातां यद्यस्य स्यात् तुलानतिः ॥ १५४ ॥
तत्राश्रावणः शब्द इत्यादिषूदाहरणदिङ्मात्रमुच्यते । साध्याङ्गभूतस्य
सर्वस्यैव बाधा भवतीत्यर्थस्य दृष्टये दर्शनार्थम् । तत्र परस्यावयवेभ्योऽवयविनो
गुरुत्वादिगुणयोगिनोऽन्यत्वेऽभिमते यदोच्यते नान्योऽवयव्यवयवेभ्यस्तुलानति-
विशेषाग्रहणादिति । एतद्धर्मविशेषनिराकरणेनोदाहरणं बोद्धव्यम् । तथा हि—
नात्रान्यत्वमात्रं निषेद्धुमिष्टम्, तथात्वे धर्मस्वरूपनिराकरणोदाहरणमेतत् स्यात् ।
तस्मादन्यत्वस्य साध्यधर्मस्य नान्तरीका गौरवादयो विशेषा निराकर्तुमिष्टाः ।
तथा च धर्मविशेषोदाहरणमेव तत् । तथा हि—परैरेकस्यावयवस्याप्यन्यावयव-
संयोगे सति तदन्योऽर्थोऽवयविसंज्ञितो द्रव्यस्य लक्षणेन क्रियावद् गुणवत्
समवायिकारणं चेत्यनेन युक्तो दृष्टिभाक् दृश्योऽस्तीतीष्टमेव ॥ १५२ ॥
अन्यथा अदृश्यस्य संव्यवहाराविषयस्य द्रव्यलक्षणेन विशिष्टसामान्य-
मात्रस्यास्तित्वप्रतिज्ञा निष्प्रयोजना भवेत् ! तथा हि—परमाणुष्वदृश्येष्वदर्श-
नावरणप्रतिघातादिकार्यमसम्भवि दृष्ट्वाऽवयवी चेष्टः¹; तस्मिन् दर्शनादि-
कार्ययोगात् ॥ १५३ ॥
यदि पुनरनिन्द्रियग्राह्यत्वं द्रव्यलक्षणेनाविशिष्टम्, तदवयवि द्रव्यं साध्यते;
तदाऽविशिष्टस्यान्यस्य च साधने बौद्धस्य न काचित् क्षतिरिति सिद्धसाधनं
स्यात् । तस्माद् दृश्यो द्रव्यगुणवान् भावोऽवयवीति साध्यम्, ततश्चास्यावयविनो
गुरुत्वं गुणः, अधोगतिश्च कर्म यदि स्याताम्; तदा मृदादिखण्डयोः संहतो-
लितयोर्यावती तुलानतिर्गौरववशाद् दृष्टा, ततोऽधिका तुलानतिः स्यात् । यदा
१. वैशेषिकेणेत्यर्थः ।

५१२ प्रमाणवार्त्तिके [ पक्षदोष-
तन्निर्गुणक्रियस्तस्मात् समवायि न कारणम् ।
तत एव न दृश्योऽसावदृष्टेः कार्यरूपयोः ॥ १५५ ॥
तद्बाधान्यविशेषस्य नान्तरीयकभाविनः ।
आसूक्ष्माद् द्रव्यमालायास्तोल्यत्वादंशुपातवत् ॥ १५६ ॥
द्रव्यान्तरगुरुत्वस्य गतिर्नेत्यपरोऽब्रवीत् ।
तस्य क्रमेण संयुक्ते पांशुराशौ सकृद् युते ॥ १५७ ॥
भेदः स्याद् गौरवे तस्मात् पृथक् सह च तोलिते ।
तयोर्मृदादिखण्डयोः संयोगे सति द्रव्यान्तरमुत्पद्यते, तदा तयोः पूर्वावस्थितयोः
पूर्वावस्थितं गौरवं तदोत्पन्नस्य च द्रव्यस्याधिकगौरवविशेषात् तुलानतिविशेषो
दृश्येत, न चैवम्, तस्मान्न तत्र कार्यद्रव्यसम्भव इत्यवयवी निर्गुणो निष्क्रियश्च
स्यात् ॥ १५४ ॥
तस्मान्निर्गुणक्रियत्वात् गुणकर्मणोर्न समवायि कारणमवयवी । तत
एव द्रव्यलक्षणयोगान्न तस्यावरणादि कार्यं स्वरूपं वा किञ्चिद् दृश्यते, अदर्श-
नाच न दृश्योऽवयवी ॥ १५५ ॥
तत् तस्मादसाववयविनो बाधाऽन्यस्य विशेषस्य गौरवाधोगत्यादेर्ना-
न्तरीयकभाविनः साध्यान्त्यत्वाविनाभाविनो बाधेति धर्मविशेषनिराकरणे निर्देशो
युक्तः ।
आसूक्ष्माद् द्व्यणुकादारभ्य द्रव्यमालायाः स्थूलावयविपर्यन्तायास्तो-
ल्यत्वात् तद् द्रव्यमालावर्त्तिनः स्थूलस्य द्रव्यान्तरस्य न गतिर्भवति, तुलाया-
मंशुपातवत् । कर्पासभारपतितस्यांशोरेकस्य यथा गुरुत्वं सदपि न प्रतीयते,
तथा द्रव्यमालावर्त्तिनः स्थूलद्रव्यस्य इत्यपरोऽब्रवीत्¹ ।
तस्यैवंवादिनो मते क्रमेण सूक्ष्मावयवसंयोगाभिवृद्धिपरिपाट्या संयुक्ते
स्थूलावयवितां गते पांशुराशावयवसंयोगाभिवृद्धिक्रममनपेक्ष्य सकृदेककालं
युक्ते स्थूलावयवितां गते भेदो गौरवे स्यात् । तथा हि—द्व्यणुकादिक्रमेण
कार्यद्रव्यसंयोगपरम्परया च द्रव्यमुत्पद्यते । तत्रानेकद्रव्यभारसद्भावात् महत् गौरवं
१. उद्योतकर इत्यर्थः ।

विचारः ] परार्थानुमानपरिच्छेदः ४१३
सुवर्णमाषकादीनां१ संख्यासाम्यं न युज्यते ॥ १५८ ॥
सर्षपादा महाराशेरुत्तरोत्तरवृद्धिमत् ।
गौरवं कार्यमालाया यदि नैवोपलभ्यते ॥ १५९ ॥
आ सर्षपाद् गौरवं तु दुर्लक्षितमनल्पकम् ।
तुल्यं तत्कारणं कार्यगौरवानुपलक्षणात् ॥ १६० ॥
नन्वदृष्टांशुवत् सोऽर्थो न च तत्कार्यमीक्ष्यते ।
भवेत् । यत्र त्वेक एव सकृत् पांशुराशिः संयोगाज्जायते, तत्रैकस्य द्रव्य-
स्याल्पीयो गौरवं भवति, न चास्त्येतत् ।
किञ्च—तस्माद् गौरवभेदात् पृथक् प्रत्येकं माषकादौ तोलिते पिण्डा-
वस्थयोः सह चापरैर्माषकादिभिस्तोलिते सुवर्णमासकादिभिन्नायाः संख्यायाः
साम्यं न युज्यते । मासकावयविनां विनाशे तत्संख्यानां गौरवाणां च नाशा-
देकं सुवर्णमित्येव स्यात् । दृश्यते च प्रत्येकं माषकादीनां तुलायां यावती संख्या,
तावत्येव सहतोलितानामपि ॥ १५६–१५८ ॥
अथ रक्तिकायाश्चतुर्थो भागः सर्षपः, तस्मादारभ्य आमहाराशेः स्थूला-
वयविनं यावत् क्रमवृद्धिमतां कार्याणां मालाया उत्तरोत्तरवृद्धिमद् गौरवं
सदपि नोपलभ्यत इति यंदुच्यते ॥ १५९ ॥
तदा आसर्षपात् सर्षपादारभ्य द्व्यणुकं यावत् पूर्वं पूर्वं गौरवं तद्
दुर्लक्षितमनल्पकमिति सुतरामनुपलभ्यं स्यात् । सर्षपादुत्तरं तु गौरवं स्वयमेव
दुर्लक्षमिष्टमिति कार्यद्रव्यगौरवानुपलक्षणात् तस्य कार्यद्रव्यस्य कारणं
परमाणवः पारिशेष्यात् तोल्यं स्यात् । न च परमाणूनां गुरुत्वादिगुणोपलम्भोऽस्ति ।
तदनुपलक्षणेन च नावयविनः परमाणूनां वोपलम्भोऽस्तीति सर्वथार्थानाम-
प्रतिपत्तिः स्यात् ॥ १६० ॥
ननु गुरुत्वाप्रतीतावपि अंशुः प्रतीयते, तद्वदवयव्यादिकमपि प्रत्येष्यते ?
इत्याह— न च गुरुत्वानुपलक्षणेऽप्यंशुरिव सोऽर्थोऽवयव्यादिरीक्ष्यते । न च
तत्कार्यं गौरवावरणादिरीक्ष्यते । तस्मादप्रत्यक्षतैव सर्वथा स्यात् ।
१. क्रमेण माषकादीनां—पाठा० ।

४१४ प्रमाणवार्त्तिके [ पक्षदोष-
गुरुत्वागतिवत् सर्वतद्गुणानुपलक्षणात् ॥ १६१ ॥
माषकादेरनाधिक्यम्;
अनतिः सोपलक्षणम् ।
यथास्वमक्षेणादृष्टे रूपादावधिकाधिके ॥ १६२ ॥
अभ्युपायः स्ववागाद्यबाधायाः सम्भवेन तु ।
उदाहरणमप्यन्यद्दिशा गम्यं यथोक्तया ॥ १६३ ॥
किञ्च—गुरुत्वादिगुणागतिवत् सर्वेषां रूपादीनामधिकानां तस्य द्रव्यस्य
गुणानामनुपलक्षणादवयवेभ्यो माषकादेरवयविनोरनाधिक्यम् । यदि
ह्यवयवेभ्योऽधिकम् , तदा गुरुत्वादिवद् रूपादिवद् अवयवेषु वर्धमानेषु वर्धमानं
दृश्येत ।
ननु 'तुलानतिविशेषाग्रहणात' इत्युक्तमाचार्येण, तत् किं रूपादिग्रहणाभाव
उच्यते ? इत्याह—अनतिराचार्येण या निर्दिष्टा, सोपलक्षणमात्रम्, न तु नियमः।
अनतिः कोपलक्षणम् ? इत्याह—रूपादौ द्रव्याभिवृद्ध्याऽधिकाधिके यथास्वं
यस्य यदात्मीयं ग्राहकं तेनाक्षेणेन्द्रियज्ञानेनादृष्टेः । यद्रूपादिविषयं यदिन्द्रिय-
प्रत्यक्षम्, तदेव तस्य धर्मिविशेषस्य पक्षबाधकमित्यर्थः । तस्माद् गुणक्रियावद्
दृश्यावयव्यभाव एवेति धर्मविशेषवाग्द्वारेणोदाहरणमुक्तम् ॥ १६१-१६२ ॥
अभ्युपायोऽभ्युपगमः स्ववागादिर्यस्य तेनाबाधायाः सम्भवेन त्वन्य-
दप्युदाहरणम् । धर्मविशेषनिराकरणेन धर्मस्वरूपनिराकरणेन यथोक्तयाऽ-
न्योदाहरणदिशा गम्यम् ॥ १६३ ॥
तत्र परेणावयविनः सकाशादवयवानामन्यत्वे प्रतिज्ञाते यदुच्यते—'नान्येऽ-
वयवा अवयविनः, अप्रत्यक्षत्वप्रसङ्गाद्' इति, तद्धर्मविशेषनिराकरणोदाहरणम् ।
तथा हि—अवयवानां भेदमिच्छन् प्रत्यक्षतामपीच्छति; अन्यत्वे च निराकृते
प्रत्यक्षतायाश्च निरासात् । अवयवानां धर्मविशेषनिराकरणोदाहरणत्वं व्यक्तम् ।
अभ्युपगम एव चात्र बाधकः; अवयवादर्शने द्रव्यादर्शनस्वीकारात् । गुणव्यति-
रिक्तं द्रव्यमस्तीति परेणोक्ते यदोच्यते—'नास्ति द्रव्यम्, गुणद्रव्याणां द्रव्या-
द्रव्यत्वप्रसङ्गात्', तद् धर्मस्वरूपनिराकरणोदाहरणम् ।

विचारः ] परार्थानुमानपरिच्छेदः ४१५
नैयायिकपक्षलक्षणे दोषः
त्रिकालविषयत्वात् तु कृत्यानामतथात्मकम् ।
तथा परं प्रति न्यस्तं साध्यं नेष्टं तदापि तत् ॥ १६४ ॥
प्रत्यायनाधिकारे तु सर्वासिद्धावरोधिनी ।
यस्मात् साध्यश्रुतिर्नेष्टं विशेषमवलम्बते ॥ १६५ ॥
तेनाप्रसिद्धदृष्टान्तहेतूदाहरणं कृतम् ।
अन्यथा शशभृङ्गादौ सर्वासिद्धेऽपि साध्यता ॥ १६६ ॥
तथा हि—धर्मिण एव द्रव्यस्य स्वरूपमात्रं निराक्रियते । गुणद्रव्याणाम-
न्योन्यं भेदः स्वीकृतः गुणोऽपि द्रव्यं स्यात्, द्रव्यं च गुणः; भेदाविशेषा-
दित्यभ्युपायस्य बाधकत्वम् ।
ननु “साध्यनिर्देशः प्रतिज्ञा” इति पक्षलक्षणं नैयायिकानाम्, तत्र को
दोषः ? असिद्धहेतुदृष्टान्तस्यापि पक्षत्वप्रसङ्ग इत्युक्तम् । ननु साध्यत इति
साध्यम्, हेतुदृष्टान्तौ तु साधयिष्यते ततो नानयोः पक्षत्वप्रसङ्गः ? इत्याह—
कृत्यानां प्रत्ययानां कालसामान्यविहितत्वेन त्रिकालविषयत्वात् साध्यशब्देन
कृत्यान्तेन न साध्यमात्रस्य ग्रहणम् ; साधयिष्यमाणस्यापि ग्रहणात् । तथा च—
‘नित्यः शब्दो मूर्त्तत्वात् बुद्धिवद्’ इत्यादिप्रयोगे तदा वादकाले तद्धेतुदृष्टान्ता-
दिकमतथात्मकं वस्तुतोऽतत्स्वभावात्मकम् । परं प्रति तथाऽतद्रूपत्वेन न्यस्त-
मुपन्यस्तं वादिना यत्नतः साध्यम् । यद्यपि शब्दे मूर्त्तत्वं नास्ति, अनिष्टं च
साध्यत्वेन, तथापि हेतुदृष्टान्तयोरुपन्यासादवश्यं साध्यम् । साध्यनिर्देशश्च
प्रतिज्ञेति प्रतिज्ञात्वं च दुर्वारम् ॥ १६४ ॥
प्रत्यायनस्य ज्ञापकस्य हेतोरधिकारे तु साधनस्य सर्वस्याभ्युपगमहेतु-
दृष्टान्तादेरसिद्धावरोधः संग्रहः तद्वती, यस्मात् साध्यश्रुतिरिष्टं विशेषं न
साध्यत्वेनावलम्बते परिगृह्णाति ॥ १६५ ॥
येन प्रत्यायनाधिकारे साधनस्यासिद्धस्य पक्षत्वप्रसङ्गः, तेनाप्रसिद्धाभ्यां
दृष्टान्तहेतुभ्यां प्रतिज्ञाप्रसङ्गादुदाहरणं कृतं प्राक्—“तथा चासिद्धदृष्टान्त-
हेतुवादः प्रसज्यते” इत्यनेन ( ) । अन्यथा यदि साधनमसिद्धं

४१६ प्रमाणवार्त्तिके [ पक्षदोष-
सर्वस्य चाप्रसिद्धत्वात् कथञ्चित् तेन न क्षमाः ।
कर्मादिभेदोपेक्षेपपरिहारविवेचने ॥ १६७ ॥
प्रागसिद्धस्वभावत्वात् साध्योऽवयव इत्यसत् ।
तुल्या सिद्धान्तता, ते हि येनोपगमलक्षणाः ॥ १६८ ॥
विवक्षितं न स्यात्, तदा शशशृङ्गादावपि सर्वस्यासिद्धस्य पक्षत्वप्रसङ्गः ॥
ननु साध्यं कर्म; कर्मणि कृत्यविधानात् । कर्म चेप्सिततमम्, तच्च
क्रियाप्यमात्रम्, 'पयसोदनं भुक्तम्' इत्यत्र क्रियाप्यत्वेऽप्यनीप्सिततमत्वात् पयः
कारणम् । ततः साधनीयत्वेऽपि वादिनोऽनीप्सिततमत्वात् हेतुदृष्टान्तादिकं न
प्रतिज्ञा भविष्यति । तथा चतुर्विधः सिद्धान्तः—सर्वतन्त्रसिद्धान्तः, प्रतितन्त्र-
सिद्धान्तः, अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्तश्च । तत्राभ्युपगमसिद्धान्तत्वं
शास्त्रदृष्टस्येति तदाश्रयेण साध्यस्य निर्देशः प्रतिज्ञा, न हेतुदृष्टान्तादेः पक्षत्व-
प्रसङ्गः ? इत्याह—सर्वस्य प्रतिज्ञाहेतुदृष्टान्तादेश्चाप्रसिद्धत्वात् साधयितु-
मीप्सिततमत्वेनाभ्युपगमात् कर्मत्वम्, कर्म च साध्यं प्रतिज्ञेति प्रतिज्ञात्वप्रसङ्गो
दुर्वारः । अभ्युपगमश्च यथा नित्यत्वे, तथा मूर्त्तत्वादावपि । शास्त्राभ्युपगमयोश्च
भेदः प्रागुक्तः । तेन कर्मत्वाविशेषेण साध्यं कर्म साधनं करणमिति कर्मादि-
भेदस्योपक्षेपेणोपन्यासेन परिहाराविवेचने साध्यविशेषावगमापने कथञ्चिन्न
क्षमाः ॥ १६६-१६७ ॥
यदप्युच्यते—यः साध्योऽवयवः, तस्य निर्देशः प्रतिज्ञा, ततो हेत्वादेः
सिद्धस्यावयवस्य न प्रतिज्ञात्वमिति ? तदप्यसत् ।
किञ्च—लक्षणवचनात् प्राक् साध्यासाध्ययोरसिद्धस्वभावत्वात् । लक्ष-
णेन हि साध्यता प्रतिपत्तव्या; त्रिकालविषयत्वात् । कृत्यप्रत्ययस्य साध्यिष्य-
माणेऽपि साध्य इति साधनं च साध्यं स्यात् । सिद्धान्तता हेतुदृष्टान्तादेरपि
तुल्या । ते हि प्रतितन्त्रादिसिद्धान्ता येन कारणेन उपगमलक्षणा अभ्युप-
गमस्वभावाः । यथा हि नित्यत्वमभ्युपगम्यते, तथा मूर्त्तत्वादिकमपीति न
विशेषः ॥ १६८ ॥

विचारः ] परार्थानुमानपरिच्छेदः ४१७
समुदायस्य साध्यत्वेऽप्यन्योन्यस्य विशेषणम् ।
साध्यं द्वयं तदाऽसिद्धं हेतुदृष्टान्तलक्षणम् ॥ १६९ ॥
असम्भवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते ।
शास्त्रेणालं यथायोगं लोक एव प्रवर्त्तताम् ॥ १७० ॥
किञ्च—साध्यो धर्मः, धर्मी, द्वयं वा स्यात् । यदि धर्मः, तदा साध्य-
साधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणमिति दृष्टान्तलक्षणं विरुध्यते । न हि
साध्यधर्मस्यानित्यत्वादेर्धर्म उत्पत्तिमत्त्वादिः; किन्तु शब्दस्य । ततः साध्यधर्मेण
साधर्म्यात् दृष्टान्तस्य. तद्धर्मभावित्वं साध्यधर्मोत्पत्तिमत्त्वादिभाववत्त्वं नास्ति ।
अथ धर्मी साध्यः, तदा उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरिति हेतुलक्षणं
न युज्येत । न हि शब्दो धर्मसिद्धः, येन तत्साधनात् साध्यसाधनो हेतुः स्यात् ।
अथोभयं साध्यम्, तदोभयपक्षाभाविदोषप्रसङ्गः, समुदायस्यासिद्धत्वात् स
एव साध्यः ? इत्याह—समुदायस्य साध्यत्वेऽपीष्यमाणेऽन्योन्यस्य परस्परं
विशेषणं वक्तव्यम्—धर्मविशिष्टो धर्मिविशिष्टो वा साध्यः, यथा—शब्द-
विशिष्टमनित्यमिति । तथा च द्वयं साध्यं स्यात् । तदा द्वयसाध्यत्वाभ्युपगमे
तु हेतुदृष्टान्तयोर्लक्षणमसिद्धं स्यात् । न हि धर्मिधर्मविशिष्टेन धर्मेणानित्य-
शब्दसम्बन्धिना उत्पत्तिमत्त्वादिना घटादेः साधर्म्यमस्ति, येन दृष्टान्तता भवेत् ।
तथा धर्मविशिष्टे धर्मिणि प्रागनुमानाद्धेतुरपि न कस्यचित् सिद्ध इति हेतुलक्षणं
च न स्यात् ॥ १६९ ॥
यथोत्पत्तिमत्त्वादेः समुदायधर्मत्वासम्भवाद् धर्मिधर्मत्वासम्भवाच्च साध्य-
शब्दो यदि धर्मिवृत्तिरुपचारादिष्यते, तदा शास्त्रेण दुर्विहितेनालम्, लोक एव
१६९-१७०-तमकारिकाणां व्याख्यान्तरमन्यादर्शपुस्तक एवं विन्यस्तम्—
“तदा चासिद्धं हेतुलक्षणं धर्मिधर्मसमुदायधर्मेणोत्पत्तिमत्त्वा दिनोदाहरणसाधर्म्या-
भावात् दृष्टान्तलक्षणमप्यसिद्धम् ; दृष्टान्ते धर्मधर्मिसमुदायेन साधर्म्याभावात् ॥ १६९ ॥
अथोत्पत्तिमत्त्वादेः समुदायधर्मत्वाभावात् साध्यशब्दो धर्मिवृत्तिरिष्यते, यथा
बौद्धेनोक्त उपचारात् ; तदा शास्त्रेण लक्षणेनालं किं प्रयोजनम्, प्रसिद्धत्वात् यथायोगं
बुद्ध्वा लोक एव प्रवर्त्तताम् । सविकल्पकं हि ज्ञानं तस्य प्रसिद्धम्, बौद्धस्तेन लोकसिद्ध-
मनुवदति, किन्तु न्यायमिति तस्य पक्षैकदेशयोग्यधर्मिणो धर्मसामान्यस्य दृष्टान्तेऽपि
प्र० वा० : २७

४१८ प्रमाणवार्त्तिके [ पक्षदोष-
साधनाख्यानसामर्थ्यात् तदर्थे साध्यता गता ।
हेत्वादिवचनैर्व्याप्तेर्नाशङ्क्यं च साधनम् ॥ १७१ ॥
प्रतिज्ञालक्षणे दोषः
पूर्वावधारणे तेन प्रतिज्ञालक्षणाभिधा ।
व्यर्था व्याप्तिफला सोक्तिः सामर्थ्याद् गम्यते ततः ॥ १७२ ॥
यथाक्रमं यथायोगं यस्य यादृशं लक्षणं युक्तं तदवधार्य प्रतिज्ञाहेत्वादिषु
प्रवर्त्तताम् । यत्तु 'पक्षो धर्मी, अवयवसमुदायोपचाराद्' इत्यस्माभिरुच्यते,
तत् सर्वं धर्मिधर्मप्रतिषेधार्थम्, उपचारयोग्यपरिग्रहार्थम् । तस्मादयुक्तं परस्य
प्रतिज्ञालक्षणम् ॥ १७० ॥
किञ्च--सर्ववाक्यानामवधारणफलत्वात् साध्यनिर्देश एव प्रतिज्ञेति पूर्वपदाव-
धारणं वा स्यात्, साध्यनिर्देशः प्रतिज्ञैवेत्युत्तरपदावधारणं वा स्यात् ।
तत्र प्रथमपक्षे सिद्धनिवृत्त्याऽसिद्धपरिग्रहः प्रयोजनम्, तच्चान्यथापि लभ्यते ।
तथा हि--सिद्धेऽपि साधनोपन्यासोऽनुपयुक्त इति साधनाख्यानसामर्थ्यात्
तस्याः प्रतिज्ञाया अर्थेऽसिद्धे साध्यता गता प्रतीता प्रतिज्ञालक्षणं विनापि ।
न चासिद्धे हेतुदृष्टान्तादिके प्रतिज्ञार्थप्रसंगः । तथा हि--हेत्वादिवचनैः
पृथग्लक्षणप्रतिपादकैर्व्याप्तिविषयीकृतत्वात् साधनं हेतुदृष्टान्तम्, असिद्धं च
प्रतिज्ञार्थे वाऽनाशङ्क्यम् ॥ १७१ ॥
तेनातिप्रसङ्गाभावेन पूर्वस्य पदस्यावधारणे प्रतिज्ञालक्षणाभिधा
व्यर्था । ततः पारिशेष्यात् सामर्थ्यात् साध्यनिर्देशः प्रतिज्ञैवेत्ययोगव्यवच्छेद-
कथनार्थे जिज्ञासितविशेषो धर्मीति लक्षणं युक्तम् । न च साध्यशब्दस्यासिद्धदृष्टान्तादौ
प्रसङ्गात् । पक्षत्वं तूपचारात् ॥ १७० ॥
किञ्च--अत्र साध्यनिर्देश एव प्रतिज्ञेति पूर्वावधारणं तावन्न भवति; यस्मात् तदर्थे
सिद्धनिवृत्त्याऽसिद्धग्रहार्थे साध्यता गम्यत एव । सिद्धसाधनवैयर्थ्येन साधनं चोक्तमत्रेति
तत्सामर्थ्यात् ।
अपि च--साध्यनिर्देश एव प्रतिज्ञेति पूर्वावधारणे साधनं न प्रतिज्ञेति साध्यम्,
तच्चानाशङ्क्यम्; तस्य हेतूदाहरणोपनयाद्यैरेव व्याप्तत्वात् ॥ १७१ ॥
तेन पूर्वावधारणे प्रतिज्ञालक्षणाभिधा व्यर्था । ततः कारणात् सामर्थ्यात् साध्य-
निर्देशः प्रतिज्ञैवेत्युत्तरावधारणोक्तिर्व्याप्तिफलाऽयोगव्यवच्छेदफला-- इत्यसिद्धहेत्वादेरपि

विचारः ] परार्थानुमानपरिच्छेदः ४१९
विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थिती ।
एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत् ॥ १७३ ॥
पक्षदोषः परापेक्षो नेति च प्रतिपादितम् ।
फलमुत्तरपदावधारणं स्यात् । तथा चासिद्धहेतुदृष्टान्तादावपि प्रतिज्ञात्वं दुर्वारम् ;
असिद्धस्य साधनाङ्गस्य कथमपि प्रतिज्ञात्वायोगताविरहात् ॥ १७२ ॥
निरस्तं प्रतिज्ञालक्षणम् ॥
परस्य प्रतिज्ञाभासलक्षणं सम्प्रति निराकरणीयम् । हेतुप्रतिज्ञयोर्व्याघातः
प्रतिज्ञादोषो मतः, यथा-नित्यः शब्दः, सर्वस्य नित्यत्वात् । यदि सर्वमनित्यम्,
तदा शब्दस्यापि सर्वत्रान्तर्भात् कुतो नित्यता ! अथ शब्दो नित्यः, कथं
सर्वस्यानित्यतेति प्रतिज्ञाहेत्वोर्विरोधात् प्रतिज्ञाविरुद्धतादोषः ।
विरुद्धता चेष्टस्य साध्यधर्मस्य धर्मिण्यसम्बन्धो नाम । स च विचार्यमाणो
हेतुना साध्यधर्मस्यानुपकारोऽनिश्चायनं वा स्यात्, धर्मिणि साध्येन सहास्थि-
तिर्वा स्यात् । तत्र यदि हेतोः साध्ये प्रतिज्ञादोष उच्यते, एवं सति सर्वेषा-
मङ्गस्य हेतोर्दोषाणां प्रतिज्ञादोषता भवेत्; सर्वैर्हेतुदोषैः प्रतिज्ञाया एव
व्याहननात् ॥ १७३ ॥
प्रतिज्ञामात्रभागी च पक्षदोषः परापेक्षः साधनादिसापेक्षः, न दोष
इति च प्रतिपादितं प्राक्—“उत्परावयवापेक्षो न दोषः पक्ष इष्यते”
प्रतिज्ञात्वप्रसङ्गः ॥ १७२ ॥
प्रतिज्ञाहेत्वोर्विरोधो नोक्तः पक्षाभासेष्वित्यव्याप्तिलक्षणमिति नैयायिकावकाशं
मत्वाचार्यीयोक्तं व्याख्यातुमाह-प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञादोष इति, यथा-‘नित्यः शब्दः
सर्वस्यानित्यत्वात्’ । अत्र यदि शब्दो नित्यः सर्वस्यानित्यत्वं विरुद्धमिति प्रतिज्ञया
हेतोर्विरोधः; सर्वानित्यत्वे तदन्तर्गतत्वाच्छब्दस्येति हेतुर्न प्रतिज्ञाविरोधः ? उत्तरमाह-
दृष्टेनार्थेनासम्बन्धो विरुद्धतात्र स्यात् । सा चानुपकाररसहास्थिती । हेतुस्तत्राभावात्
साध्यं नोपकरोतीति वा स्थितहेतुना इष्टधर्मविरोधात् सहानवस्थानं वा स्यात् । तत्र
नानुपकारः । यदि हेतौ दुष्टे साध्योपरोधात् प्रतिज्ञादोषः, एवं सर्वलिङ्गदोषाणाम-
सिद्धादीनां प्रतिज्ञादोषता स्यात् ॥ १७३ ॥
उत्तराबयवापेक्षः पक्षदोषो न भवतीति ( प्र० वा० ४. ८२ ) प्रागेवोक्तम् ।

?
In line 3 it has 'प्रकीर्त्तयेत्' (double t).
In line 25: look at the top:
र् (repha) over त्त or त?
It has a horizontal bar on the त, which means double त्त: प्रकीर्त्तयेत् !
Let's look at: "न चैवम्; हेतुलक्षणाभावात् ।"
Yes, semicolon after चैवम्.

Line 26:
अतोऽन्यत्र किञ्चिदर्थस्य प्रदर्शनम् ॥ १७५ ॥

Line 27:
तथा हि—विशेषे शब्द एव भिन्नं विरुद्धं नित्यत्वमाख्याय सर्वस्यानित्यत्वादिति

Line 28:
सामान्यस्यानुवर्त्तने न तस्य शब्दस्य विशेषस्य व्याप्तिरनित्यताप्राप्तिः; विशेषपरिहारेणैव
Note: semicolon after व्याप्तिरनित्यताप्राप्तिः;

Line 29:
वृत्तेः, तक्रं कौण्डिन्याय ब्राह्मणेभ्यो दधि दीयतामितिवत् । शब्दे नित्यत्वं विधाय सर्वा-
Note: comma after वृत्तेः,

Let's double-check all 29 lines against the image carefully.

Line 1:
४२० प्रमाणवार्त्तिके [ पक्षदोष-
Correct.

Line 2:
इष्टासम्

विचारः ] परार्थानुमानपरिच्छेदः ४२१
न तद्व्याप्तिः फलं वा किं सामान्येनानुवर्त्तने ॥ १७६ ॥
स्यान्निराकरणं शब्दे स्थितेनैवेत्यतोऽब्रवीत् ।
विरुद्धविषयेऽन्यस्मिन् वदन्नाहान्यतां श्रुतेः ॥ १७७ ॥
त्वात् सामान्यस्यानित्यत्वस्यानुवर्त्तने क्रियमाणे तस्यानित्यत्वस्य व्याप्तिरशेष-
पदार्थग्रहो न भवति । यथा कौण्डिन्यस्य तक्रदानं विहितं ब्राह्मणेभ्यः सामान्येन
विहितदधिदानेन न बाध्यते, प्रकल्प्यापवादविषयमुत्सर्गस्य प्रवृत्तेः । तथा शब्दे
नित्यत्वस्य विशेषविहितस्य सर्वानित्यत्वेन सामान्यविहितेन बाधाशङ्का नास्तीति
कथं प्रतिज्ञाहेत्वोर्विरोधः ! यदि शब्दव्यतिरिक्तस्य सर्वस्यानित्यत्वमिष्टं न स्यात्,
तदा सर्वस्यानित्यत्वादिति सामान्येनानुवर्त्तने किं फलं स्यात् ! नित्यः शब्दः
शब्दस्यानित्यत्वादित्येव वाच्यम् । एवं विरोधस्य वक्तव्यत्वात् शब्द एवोदाहरणं
भविष्यतीति चेत् ? नानुन्मत्त एवं ब्रूयात् । यद्यात्मनोऽनित्यत्वं हेतुः सिद्धः, कथं
तद्विरुद्धं साध्यम् ; तत्रैव प्रतिजानीयात् । अथासिद्धः, तदा हेतुदोष एवासौ, न
प्रतिज्ञादोषः । तस्मान्नास्ति शब्दे नित्यत्वम् । अतः स्वविरोधिनमपि निरा-
कर्तुमशक्तम् ॥ १७६ ॥
अत एवाचार्यः शब्दे स्थितेनैवानित्यत्वेन निराकरणं नित्यत्वस्य
स्यादित्यब्रवीत् । तदा च स्यादत्र प्रतिज्ञार्थस्य निराकरणम् ।
यदि ‘नित्यः शब्दः सर्वस्यानित्यत्वाद्’ इति वैधर्म्यदृष्टान्तोपदर्शनमेतत्, यथा
नित्यत्वविशिष्टः शब्द इति, तदा हेतुनिर्देशो न स्याद् ? इत्याह—असर्वश्च
शब्द इत्युपनयाद् हेतुर्वक्तव्यः ।
तथा हि—नित्यत्वस्य विरुद्धं शब्दादन्यस्मिन् वदन् सर्वस्मादन्यतां
नित्यत्वमुच्यमानं न तमास्कन्दति । अतः शब्देऽनित्यत्वमभवत् कथं स्वविरुद्धमपा-
कुर्यात् ॥ १७६ ॥
यदि शब्दव्यतिरिक्तस्यानित्यत्वं नेष्टं स्यात्, तदा फलं वा किं सामान्यानुवर्त्तने—
सर्वस्यानित्यत्वादिति । शब्दस्यानित्यत्वादित्येव वाच्यम्, एवं हि स्फुटो विरोधः स्यात् ।
तस्मान्न शब्देऽनित्यत्वम् ।
अत एवाचार्योऽब्रवीत् समुच्चये—स्यान्निराकरणं शब्दानित्यत्वेनेति” ॥१७७॥