प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 443, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ४१७
समुदायस्य साध्यत्वेऽप्यन्योन्यस्य विशेषणम् ।
साध्यं द्वयं तदाऽसिद्धं हेतुदृष्टान्तलक्षणम् ॥ १६९ ॥
असम्भवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते ।
शास्त्रेणालं यथायोगं लोक एव प्रवर्त्तताम् ॥ १७० ॥
किञ्च—साध्यो धर्मः, धर्मी, द्वयं वा स्यात् । यदि धर्मः, तदा साध्य-
साधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणमिति दृष्टान्तलक्षणं विरुध्यते । न हि
साध्यधर्मस्यानित्यत्वादेर्धर्म उत्पत्तिमत्त्वादिः; किन्तु शब्दस्य । ततः साध्यधर्मेण
साधर्म्यात् दृष्टान्तस्य. तद्धर्मभावित्वं साध्यधर्मोत्पत्तिमत्त्वादिभाववत्त्वं नास्ति ।
अथ धर्मी साध्यः, तदा उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरिति हेतुलक्षणं
न युज्येत । न हि शब्दो धर्मसिद्धः, येन तत्साधनात् साध्यसाधनो हेतुः स्यात् ।
अथोभयं साध्यम्, तदोभयपक्षाभाविदोषप्रसङ्गः, समुदायस्यासिद्धत्वात् स
एव साध्यः ? इत्याह—समुदायस्य साध्यत्वेऽपीष्यमाणेऽन्योन्यस्य परस्परं
विशेषणं वक्तव्यम्—धर्मविशिष्टो धर्मिविशिष्टो वा साध्यः, यथा—शब्द-
विशिष्टमनित्यमिति । तथा च द्वयं साध्यं स्यात् । तदा द्वयसाध्यत्वाभ्युपगमे
तु हेतुदृष्टान्तयोर्लक्षणमसिद्धं स्यात् । न हि धर्मिधर्मविशिष्टेन धर्मेणानित्य-
शब्दसम्बन्धिना उत्पत्तिमत्त्वादिना घटादेः साधर्म्यमस्ति, येन दृष्टान्तता भवेत् ।
तथा धर्मविशिष्टे धर्मिणि प्रागनुमानाद्धेतुरपि न कस्यचित् सिद्ध इति हेतुलक्षणं
च न स्यात् ॥ १६९ ॥
यथोत्पत्तिमत्त्वादेः समुदायधर्मत्वासम्भवाद् धर्मिधर्मत्वासम्भवाच्च साध्य-
शब्दो यदि धर्मिवृत्तिरुपचारादिष्यते, तदा शास्त्रेण दुर्विहितेनालम्, लोक एव
१६९-१७०-तमकारिकाणां व्याख्यान्तरमन्यादर्शपुस्तक एवं विन्यस्तम्—
“तदा चासिद्धं हेतुलक्षणं धर्मिधर्मसमुदायधर्मेणोत्पत्तिमत्त्वा दिनोदाहरणसाधर्म्या-
भावात् दृष्टान्तलक्षणमप्यसिद्धम् ; दृष्टान्ते धर्मधर्मिसमुदायेन साधर्म्याभावात् ॥ १६९ ॥
अथोत्पत्तिमत्त्वादेः समुदायधर्मत्वाभावात् साध्यशब्दो धर्मिवृत्तिरिष्यते, यथा
बौद्धेनोक्त उपचारात् ; तदा शास्त्रेण लक्षणेनालं किं प्रयोजनम्, प्रसिद्धत्वात् यथायोगं
बुद्ध्वा लोक एव प्रवर्त्तताम् । सविकल्पकं हि ज्ञानं तस्य प्रसिद्धम्, बौद्धस्तेन लोकसिद्ध-
मनुवदति, किन्तु न्यायमिति तस्य पक्षैकदेशयोग्यधर्मिणो धर्मसामान्यस्य दृष्टान्तेऽपि
प्र० वा० : २७