सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 434, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 434

४०८ प्रमाणवार्त्तिके [ सामान्य-
द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत् ।
बाधनं धर्मिणस्तत्र बाध्येतेतेन वर्णितम् ॥ १४३ ॥
तथैव धर्मिणोऽप्यत्र साध्यत्वात् केवलस्य न ।
यद्येवमत्र बाधा स्यात्;
नान्यानुत्पाद्यशक्तिकः ॥ १४४ ॥
सकृच्छब्दाद्यहेतुत्वात् सुखादिरिति पूर्ववत् ।
विरोधिता भवेदत्र हेतुरैकान्तिको यदि ॥ १४५ ॥
ततः, द्वयस्य धर्मिधर्मसमुदायस्यापि हि साध्यत्वे सति यत्र धर्मिणो
बाधनं साध्यधर्मोपरोधि, तत्र पक्षबाधा युक्तेत्येतेन स्वधर्मिग्रहणेन वर्णि-
तम् । न हि साध्यधर्ममात्रसाधनार्थं कश्चित् साधनमन्वेषते; तस्य जगति
क्वचित् सत्तायां विवादाभावात्, तथा निश्चये प्रवृत्त्ययोगाच्च । किन्तु धर्मि-
विशेषनिष्ठं साध्यमिष्टम् ॥ १४३ ॥
तत्र यथा धर्मिविशिष्टस्य साध्यत्वं धर्मस्य, तथैव साध्यस्वविशिष्टत्वेन
धर्मिणोऽपि साध्यत्वात् केवलस्य धर्मस्य न क्वचित् साध्यता । ततो न
केवलस्य धर्मिणो बाधने पक्षबाधा ॥ १४४ ॥
यदि साध्यधर्मोपरोधिनि धर्मिणि बाधिते पक्षबाधेष्यते, एवं सत्यत्र हेतौ
सांख्यं प्रति बौद्धेनोक्ते धर्मिबाधाद्वारेण धर्मबाधा स्यात् ।
तथथा सुखादिः सुखदुःखमोहात्मकं प्रधानं नान्येन सहकारिणाऽनु-
त्पाद्यशक्तिकोऽनाधेयसामर्थ्यः सकृच्छब्दादीनां कार्याणामहेतुत्वादिति । अत्र
पूर्ववत् परैरनुत्पाद्येत्यादिप्रयोगाच्च सुखाद्यात्मकस्य नित्यत्वस्य बाधनात्
सुखादौ धर्मिणि बाधिते तद्धर्मस्य नित्यत्वस्य विरोधने विपर्ययसाधने बाधा
स्यात् । अनित्यस्वभावो हि सुखादिः साधयितुमिष्टः । सुखादिस्वभावभूतनित्य-
त्वबाधने च सुखादिरेव बाधित इति धर्मोपरोधिनि धर्मिणि बाधिते पक्षबाधा
स्यात् । अत्राह—भवेदत्र हेतौ पक्षबाधा । यदि न सकृच्छब्दाद्यनुत्पादादिति
हेतुः साध्यस्य; वस्तुभूतसुखाद्यनित्यत्वस्य विपर्यये सुखादिधर्म्यभावादनित्यत्वा-
भावेऽनैकान्तिकोऽव्यभिचारी भवेत् ॥ १४५ ॥