प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 441, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ४१५
नैयायिकपक्षलक्षणे दोषः
त्रिकालविषयत्वात् तु कृत्यानामतथात्मकम् ।
तथा परं प्रति न्यस्तं साध्यं नेष्टं तदापि तत् ॥ १६४ ॥
प्रत्यायनाधिकारे तु सर्वासिद्धावरोधिनी ।
यस्मात् साध्यश्रुतिर्नेष्टं विशेषमवलम्बते ॥ १६५ ॥
तेनाप्रसिद्धदृष्टान्तहेतूदाहरणं कृतम् ।
अन्यथा शशभृङ्गादौ सर्वासिद्धेऽपि साध्यता ॥ १६६ ॥
तथा हि—धर्मिण एव द्रव्यस्य स्वरूपमात्रं निराक्रियते । गुणद्रव्याणाम-
न्योन्यं भेदः स्वीकृतः गुणोऽपि द्रव्यं स्यात्, द्रव्यं च गुणः; भेदाविशेषा-
दित्यभ्युपायस्य बाधकत्वम् ।
ननु “साध्यनिर्देशः प्रतिज्ञा” इति पक्षलक्षणं नैयायिकानाम्, तत्र को
दोषः ? असिद्धहेतुदृष्टान्तस्यापि पक्षत्वप्रसङ्ग इत्युक्तम् । ननु साध्यत इति
साध्यम्, हेतुदृष्टान्तौ तु साधयिष्यते ततो नानयोः पक्षत्वप्रसङ्गः ? इत्याह—
कृत्यानां प्रत्ययानां कालसामान्यविहितत्वेन त्रिकालविषयत्वात् साध्यशब्देन
कृत्यान्तेन न साध्यमात्रस्य ग्रहणम् ; साधयिष्यमाणस्यापि ग्रहणात् । तथा च—
‘नित्यः शब्दो मूर्त्तत्वात् बुद्धिवद्’ इत्यादिप्रयोगे तदा वादकाले तद्धेतुदृष्टान्ता-
दिकमतथात्मकं वस्तुतोऽतत्स्वभावात्मकम् । परं प्रति तथाऽतद्रूपत्वेन न्यस्त-
मुपन्यस्तं वादिना यत्नतः साध्यम् । यद्यपि शब्दे मूर्त्तत्वं नास्ति, अनिष्टं च
साध्यत्वेन, तथापि हेतुदृष्टान्तयोरुपन्यासादवश्यं साध्यम् । साध्यनिर्देशश्च
प्रतिज्ञेति प्रतिज्ञात्वं च दुर्वारम् ॥ १६४ ॥
प्रत्यायनस्य ज्ञापकस्य हेतोरधिकारे तु साधनस्य सर्वस्याभ्युपगमहेतु-
दृष्टान्तादेरसिद्धावरोधः संग्रहः तद्वती, यस्मात् साध्यश्रुतिरिष्टं विशेषं न
साध्यत्वेनावलम्बते परिगृह्णाति ॥ १६५ ॥
येन प्रत्यायनाधिकारे साधनस्यासिद्धस्य पक्षत्वप्रसङ्गः, तेनाप्रसिद्धाभ्यां
दृष्टान्तहेतुभ्यां प्रतिज्ञाप्रसङ्गादुदाहरणं कृतं प्राक्—“तथा चासिद्धदृष्टान्त-
हेतुवादः प्रसज्यते” इत्यनेन ( ) । अन्यथा यदि साधनमसिद्धं