प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 436, कुल 532 में से
संदर्भ में पढ़ें४१० प्रमाणवार्त्तिके [ पक्षदोष-
पक्षदोषविचारः
हेतुनिरपेक्षः पक्षदोषः
सर्वसाधनदोषेण पक्ष एवोपरुध्यते ।
तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः ॥ १४९ ॥
उत्तरावयवापेक्षो यो दोषः सोऽनुबध्यते ।
तेनेत्युक्तमतोऽपक्षदोषोऽसिद्धाश्रयादिकः ॥ १५० ॥
धर्मिधर्मविशेषाणां स्वरूपस्य च धर्मिणः ।
बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता ॥ १५१ ॥
साध्यत्वात् । अथ विपर्ययसिद्ध्याऽसिद्धमुच्यते ? तथापि मूढस्य विपर्ययसिद्धा-
वपि नायं पक्षदोषः । विरोधो नाम हेतुदोष एवायम् । प्रमाणेन च विपर्ययसिद्धौ
प्रमाणबाधितत्वमेव पक्षदोषोऽस्तु, अलमप्रसिद्धविशेषणत्वाभिधानेन । अप्रसिद्धो-
भयस्य तूभयदोषान्न सर्वेऽमी हेतुदोषा एवेति किं पक्षदोषा वक्तव्याः ।
अथ सर्वेण साधनस्य दोषेणासिद्धत्वादिना पक्ष एवोपरुध्यते, तेन
पक्षदोषा असिद्धविशेण्यादयोऽभिधीयन्ते । यद्यपि पक्षोपरोधफलाः सर्वे दोषाः,
तथापि प्रतिज्ञामात्रेण भवनशीलस्य दोषस्य पक्षदोषत्वमुक्तमिष्टम् ॥ १४९ ॥
यस्मात् साक्षात् उत्तरोऽवयवो हेतुदृष्टान्तादिस्तदपेक्षो यो दोषः स
तेन हेत्वादिनानुबध्यते आत्मनि सम्बध्यते इत्युक्तं प्राक्—“उत्तरावयवापेक्षो
न दोषः पक्ष इष्यते” (प्र० वा० ४. ८२) इत्यादिना । अतोऽसिद्धाश्रया-
दिक आश्रयासिद्धत्वादिरुत्तरावयवापेक्षो न पक्षदोषो मतः ॥ १५० ॥
नन्वश्रावणः शब्दो नित्यो घटः—नानुमानं प्रमाणम् । अचन्द्रः शशीत्यु-
दाहरणैर्धर्मस्वरूपनिराकरणेन बाधा दर्शिता, यथाप्रतिज्ञातधर्ममात्रस्य विप-
रीतधर्मोपस्थापनेन निराकरणात् धर्मिविशेषस्य धर्मविशेषस्य धर्मस्वरूपस्य च
बाधनेन पक्षबाधास्ति सा कथमवगन्तव्या ? इत्याह—धर्मिधर्मयोर्विशेषाणां
व्यक्तिभेदापेक्षया बहुवचनम् । धर्मिणः स्वरूपस्य च सर्वेषामेषां साध्यं
प्रत्यङ्गभूतानां बाधा । अनेनैव धर्मस्वरूपनिराकरणपरेणोदाहरणेन साध्यते ।
पक्षलक्षणत्वाद् बाधोपदर्शिता ॥ १५१ ॥