प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 447, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ४२१
न तद्व्याप्तिः फलं वा किं सामान्येनानुवर्त्तने ॥ १७६ ॥
स्यान्निराकरणं शब्दे स्थितेनैवेत्यतोऽब्रवीत् ।
विरुद्धविषयेऽन्यस्मिन् वदन्नाहान्यतां श्रुतेः ॥ १७७ ॥
त्वात् सामान्यस्यानित्यत्वस्यानुवर्त्तने क्रियमाणे तस्यानित्यत्वस्य व्याप्तिरशेष-
पदार्थग्रहो न भवति । यथा कौण्डिन्यस्य तक्रदानं विहितं ब्राह्मणेभ्यः सामान्येन
विहितदधिदानेन न बाध्यते, प्रकल्प्यापवादविषयमुत्सर्गस्य प्रवृत्तेः । तथा शब्दे
नित्यत्वस्य विशेषविहितस्य सर्वानित्यत्वेन सामान्यविहितेन बाधाशङ्का नास्तीति
कथं प्रतिज्ञाहेत्वोर्विरोधः ! यदि शब्दव्यतिरिक्तस्य सर्वस्यानित्यत्वमिष्टं न स्यात्,
तदा सर्वस्यानित्यत्वादिति सामान्येनानुवर्त्तने किं फलं स्यात् ! नित्यः शब्दः
शब्दस्यानित्यत्वादित्येव वाच्यम् । एवं विरोधस्य वक्तव्यत्वात् शब्द एवोदाहरणं
भविष्यतीति चेत् ? नानुन्मत्त एवं ब्रूयात् । यद्यात्मनोऽनित्यत्वं हेतुः सिद्धः, कथं
तद्विरुद्धं साध्यम् ; तत्रैव प्रतिजानीयात् । अथासिद्धः, तदा हेतुदोष एवासौ, न
प्रतिज्ञादोषः । तस्मान्नास्ति शब्दे नित्यत्वम् । अतः स्वविरोधिनमपि निरा-
कर्तुमशक्तम् ॥ १७६ ॥
अत एवाचार्यः शब्दे स्थितेनैवानित्यत्वेन निराकरणं नित्यत्वस्य
स्यादित्यब्रवीत् । तदा च स्यादत्र प्रतिज्ञार्थस्य निराकरणम् ।
यदि ‘नित्यः शब्दः सर्वस्यानित्यत्वाद्’ इति वैधर्म्यदृष्टान्तोपदर्शनमेतत्, यथा
नित्यत्वविशिष्टः शब्द इति, तदा हेतुनिर्देशो न स्याद् ? इत्याह—असर्वश्च
शब्द इत्युपनयाद् हेतुर्वक्तव्यः ।
तथा हि—नित्यत्वस्य विरुद्धं शब्दादन्यस्मिन् वदन् सर्वस्मादन्यतां
नित्यत्वमुच्यमानं न तमास्कन्दति । अतः शब्देऽनित्यत्वमभवत् कथं स्वविरुद्धमपा-
कुर्यात् ॥ १७६ ॥
यदि शब्दव्यतिरिक्तस्यानित्यत्वं नेष्टं स्यात्, तदा फलं वा किं सामान्यानुवर्त्तने—
सर्वस्यानित्यत्वादिति । शब्दस्यानित्यत्वादित्येव वाच्यम्, एवं हि स्फुटो विरोधः स्यात् ।
तस्मान्न शब्देऽनित्यत्वम् ।
अत एवाचार्योऽब्रवीत् समुच्चये—स्यान्निराकरणं शब्दानित्यत्वेनेति” ॥१७७॥