प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 437, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ४११
अवयविनिरासः
तत्रोदाहृतिदिङ्मात्रमुच्यतेऽर्थस्य दृष्टये ।
द्रव्यलक्षणयुक्तोऽन्यः संयोगेऽर्थोऽस्ति दृष्टिभाक् ॥ १५२ ॥
अदृश्यस्य विशिष्टस्य प्रतिज्ञा निष्प्रयोजना ।
इष्टो ह्यवयवी कार्यं दृष्ट्वाऽदृश्येष्वसम्भवि ॥ १५३ ॥
अविशिष्टस्य चान्यस्य साधने सिद्धसाधनम् ।
गुरुत्वाधोगती स्यातां यद्यस्य स्यात् तुलानतिः ॥ १५४ ॥
तत्राश्रावणः शब्द इत्यादिषूदाहरणदिङ्मात्रमुच्यते । साध्याङ्गभूतस्य
सर्वस्यैव बाधा भवतीत्यर्थस्य दृष्टये दर्शनार्थम् । तत्र परस्यावयवेभ्योऽवयविनो
गुरुत्वादिगुणयोगिनोऽन्यत्वेऽभिमते यदोच्यते नान्योऽवयव्यवयवेभ्यस्तुलानति-
विशेषाग्रहणादिति । एतद्धर्मविशेषनिराकरणेनोदाहरणं बोद्धव्यम् । तथा हि—
नात्रान्यत्वमात्रं निषेद्धुमिष्टम्, तथात्वे धर्मस्वरूपनिराकरणोदाहरणमेतत् स्यात् ।
तस्मादन्यत्वस्य साध्यधर्मस्य नान्तरीका गौरवादयो विशेषा निराकर्तुमिष्टाः ।
तथा च धर्मविशेषोदाहरणमेव तत् । तथा हि—परैरेकस्यावयवस्याप्यन्यावयव-
संयोगे सति तदन्योऽर्थोऽवयविसंज्ञितो द्रव्यस्य लक्षणेन क्रियावद् गुणवत्
समवायिकारणं चेत्यनेन युक्तो दृष्टिभाक् दृश्योऽस्तीतीष्टमेव ॥ १५२ ॥
अन्यथा अदृश्यस्य संव्यवहाराविषयस्य द्रव्यलक्षणेन विशिष्टसामान्य-
मात्रस्यास्तित्वप्रतिज्ञा निष्प्रयोजना भवेत् ! तथा हि—परमाणुष्वदृश्येष्वदर्श-
नावरणप्रतिघातादिकार्यमसम्भवि दृष्ट्वाऽवयवी चेष्टः¹; तस्मिन् दर्शनादि-
कार्ययोगात् ॥ १५३ ॥
यदि पुनरनिन्द्रियग्राह्यत्वं द्रव्यलक्षणेनाविशिष्टम्, तदवयवि द्रव्यं साध्यते;
तदाऽविशिष्टस्यान्यस्य च साधने बौद्धस्य न काचित् क्षतिरिति सिद्धसाधनं
स्यात् । तस्माद् दृश्यो द्रव्यगुणवान् भावोऽवयवीति साध्यम्, ततश्चास्यावयविनो
गुरुत्वं गुणः, अधोगतिश्च कर्म यदि स्याताम्; तदा मृदादिखण्डयोः संहतो-
लितयोर्यावती तुलानतिर्गौरववशाद् दृष्टा, ततोऽधिका तुलानतिः स्यात् । यदा
१. वैशेषिकेणेत्यर्थः ।