सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 430, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 430

४०४ प्रमाणवार्त्तिके [ पक्षलक्षण-
सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम् ।
एते सहेतुके प्राह नानुमाध्यक्षबाधने ॥ १३० ॥
प्रत्यक्षबाधा
अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ ।
प्रसिद्धस्य श्रुतौ;
रूपं यदेव प्रतिभासते ॥ १३१ ॥
अद्वयं शबलाभासस्यादृष्टेर्बुद्धिजन्मनः ।
वस्तुविषयं त्वनुमानमित्यर्थः । पूर्ववदिति । यथा आगमस्ववचनेऽभ्युपगत-
प्रामाण्येऽप्रत्यक्षत्वादनुमानान्तर्गतेऽपि विषयभेददर्शनाय पृथग्दर्शिते—वस्तुबल-
प्रवृत्तेऽनुमानम्, सर्वविषयविचारे त्वागमस्ववचने अधिकृते, तथा प्रतीत्यनुमाने
अपि भिन्नविषये इत्यर्थः ॥ १२९ ॥
अनुमानबाधायामन्तर्भावादनयोरभ्युपगमप्रतीतिबाधयोः सिद्धयोरपि पृथ-
गाख्याने विषयभेदलक्षणं प्रयोजनं दर्शयन्नाचार्य एते अभ्युपगमप्रतीतिबाधे
सहेतुके प्राह । 'न सन्ति प्रमाणानि प्रमेयार्थानीति प्रतिज्ञामात्रेण' इत्यत्र
प्रतिज्ञामात्रं शास्त्रस्ववचनयोः सिद्धयोरप्रामाण्यप्रतिज्ञाबाधकमुक्तम् , अतोऽप्य-
साधारणत्वादनुमानाभावे शाब्दप्रसिद्धेनापोद्यते, न सपक्ष इति । अत्र शाब्दप्रसि-
द्धेन शशिनश्चन्द्रत्वेनाचन्द्रत्वप्रतिज्ञाया बाधनमुक्तम् । अनुमाध्यक्षबाधने तु न
सहेतुके प्राह—अश्रावणः शब्दो नित्यो घट इति । तस्माद् विषयभेदोपलक्षणार्थं
सहेतुत्वाहेतुत्वदर्शनम् । प्रत्यक्षानुमानबाधे सर्वविषये । अभ्युपगमप्रतीतिबाधे
तु नियतविषये इत्यर्थः ॥ १३० ॥
उक्ता प्रतीतिबाधा ॥
प्रत्यक्षबाधा वक्तव्या । न केवलं शाब्दप्रसिद्धे व्यवहारधर्मप्रसिद्धौ तत्प्रति-
रोद्धा बाध्यते, किन्तु अत्राप्यध्यक्षबाधायां व्यावहारिककल्पनावशात् नाना-
रूपतया लोके प्रसिद्धस्य ख्यातस्य ध्वनौ श्रुतौ श्रवणज्ञाने यदेव रूपमद्वयं
धर्मादिद्वयशून्यं प्रतिभासते शबलाभासस्य नानाकारस्य बुद्धिजन्मनोऽदृष्टेः,
यदि नानाकारता शब्दस्य वास्तवी स्यात्; तथैव श्रुतिज्ञाने प्रतिभासेत ।