प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 445, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ४१९
विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थिती ।
एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत् ॥ १७३ ॥
पक्षदोषः परापेक्षो नेति च प्रतिपादितम् ।
फलमुत्तरपदावधारणं स्यात् । तथा चासिद्धहेतुदृष्टान्तादावपि प्रतिज्ञात्वं दुर्वारम् ;
असिद्धस्य साधनाङ्गस्य कथमपि प्रतिज्ञात्वायोगताविरहात् ॥ १७२ ॥
निरस्तं प्रतिज्ञालक्षणम् ॥
परस्य प्रतिज्ञाभासलक्षणं सम्प्रति निराकरणीयम् । हेतुप्रतिज्ञयोर्व्याघातः
प्रतिज्ञादोषो मतः, यथा-नित्यः शब्दः, सर्वस्य नित्यत्वात् । यदि सर्वमनित्यम्,
तदा शब्दस्यापि सर्वत्रान्तर्भात् कुतो नित्यता ! अथ शब्दो नित्यः, कथं
सर्वस्यानित्यतेति प्रतिज्ञाहेत्वोर्विरोधात् प्रतिज्ञाविरुद्धतादोषः ।
विरुद्धता चेष्टस्य साध्यधर्मस्य धर्मिण्यसम्बन्धो नाम । स च विचार्यमाणो
हेतुना साध्यधर्मस्यानुपकारोऽनिश्चायनं वा स्यात्, धर्मिणि साध्येन सहास्थि-
तिर्वा स्यात् । तत्र यदि हेतोः साध्ये प्रतिज्ञादोष उच्यते, एवं सति सर्वेषा-
मङ्गस्य हेतोर्दोषाणां प्रतिज्ञादोषता भवेत्; सर्वैर्हेतुदोषैः प्रतिज्ञाया एव
व्याहननात् ॥ १७३ ॥
प्रतिज्ञामात्रभागी च पक्षदोषः परापेक्षः साधनादिसापेक्षः, न दोष
इति च प्रतिपादितं प्राक्—“उत्परावयवापेक्षो न दोषः पक्ष इष्यते”
प्रतिज्ञात्वप्रसङ्गः ॥ १७२ ॥
प्रतिज्ञाहेत्वोर्विरोधो नोक्तः पक्षाभासेष्वित्यव्याप्तिलक्षणमिति नैयायिकावकाशं
मत्वाचार्यीयोक्तं व्याख्यातुमाह-प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञादोष इति, यथा-‘नित्यः शब्दः
सर्वस्यानित्यत्वात्’ । अत्र यदि शब्दो नित्यः सर्वस्यानित्यत्वं विरुद्धमिति प्रतिज्ञया
हेतोर्विरोधः; सर्वानित्यत्वे तदन्तर्गतत्वाच्छब्दस्येति हेतुर्न प्रतिज्ञाविरोधः ? उत्तरमाह-
दृष्टेनार्थेनासम्बन्धो विरुद्धतात्र स्यात् । सा चानुपकाररसहास्थिती । हेतुस्तत्राभावात्
साध्यं नोपकरोतीति वा स्थितहेतुना इष्टधर्मविरोधात् सहानवस्थानं वा स्यात् । तत्र
नानुपकारः । यदि हेतौ दुष्टे साध्योपरोधात् प्रतिज्ञादोषः, एवं सर्वलिङ्गदोषाणाम-
सिद्धादीनां प्रतिज्ञादोषता स्यात् ॥ १७३ ॥
उत्तराबयवापेक्षः पक्षदोषो न भवतीति ( प्र० वा० ४. ८२ ) प्रागेवोक्तम् ।