प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 435, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ४०९
क्रमक्रियाऽनित्यतयोरविरोधाद् विपक्षतः ।
व्यावृत्तेः संशयान्नायं शेषवद् भेद इष्यते ॥ १४६ ॥
स्वयमिष्टो यतो धर्मः साध्यस्तस्मात् तदाश्रयः ।
बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम् ॥ १४७ ॥
स्वयं-श्रुत्यान्यधर्माणां बाधाऽबाधेति कथ्यते ।
तथा स्वधर्मिणान्यस्य धर्मिणोऽपीति कथ्यते ॥ १४८ ॥
यावता या च क्रमक्रिया हेतुः, या च साध्याऽनित्यता, तयोरविरो-
धात् । अवस्तुभूत(धर्मि)सुखादिधर्मानित्यत्वे विपरीते साध्ये वस्तुभूतसुखादि-
धर्मानित्यत्वं विपक्षः, ततो हेतोः क्रमकरणव्यावृत्तेः संशयान्नायं विरुद्धो
हेतुः । शेषवद् भेदोऽनैकान्तिकविशेषस्त्विष्यते । सति च विरुद्धत्वे धर्मिबाधा-
द्वारेण धर्मबाधा स्यात् ॥ १४६ ॥
यतः कारणात् स्वयं वादिनिष्टो धर्मः साध्यः, तस्मात् साध्यधर्मस्या-
श्रयो यः स एव बाध्यः, केवलो न बाध्यः । यथा वस्तुभूताकाशबाधायामपि
नित्यैकरूपत्वाभावस्य साध्यधर्मस्य न क्षतिः । साध्यधर्मादन्यस्य च धर्मस्या-
श्रयो न बाध्यः—इति स्वयं-शब्देन सूचितम् । यथाऽनित्यत्वे साध्ये शब्दे
आकाशगुणत्वाश्रयत्वेन बाधायामपि न दोषः ॥ १४७ ॥
तस्मात् स्वयं-श्रुत्या साध्याद् धर्मादन्येषां धर्माणां यथा बाधा या, सा
ऽबाधेति कथ्यते । तथा स्वधर्मिणा स्वधर्मिवचनेन साध्यादन्यस्य धर्मस्य
धर्मिणो बाधाऽबाधेति कथ्यते ॥ १४८ ॥
तथा अपरेऽपि पक्षाभासाः सन्ति ते कस्मान्नोच्यन्ते । तथा हि—अप्रसिद्ध-
विशेष्यः कश्चित् पक्षः, यथा विभुरात्मा; आत्मन एव बौद्धस्यासिद्धत्वात् ।
कश्चिद् प्रसिद्धविशेषणः, यथा विनाशी शब्दः; सांख्यं प्रति तस्य विनाशा-
सिद्धेः । कश्चिदप्रसिद्धोभयः, यथा समवायिकारणमात्मा; बौद्धस्योभयासिद्धेरिति ?
नन्वसिद्धोऽप्यात्मा पक्षी भविष्यति; तल्लक्षणयोगात्, न ह्यसिद्धस्य पक्षता
निरस्ता । आश्रयासिद्धत्वाद्धेतोर्न पक्ष इति चेत् ? न; साधनदोषोऽयं न पक्षदोषः ।
तथा शब्देऽनित्यत्वं विशेषणमसिद्धमिति गुण एवायम्, न पक्षदोषः; असिद्धस्यैव