सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

ग्रस्तश्चेत्युपनयो यत्कृतकं तदनित्यं दृष्टं यथाऽऽकाशः, न च न तथा कृतकः शब्द
इति, अत्रापि निषेधद्वययोगाद्विधिरेव गम्यते ।
“ननु साध्यस्येत्यवाचकः सूत्रावयवः पक्षाधर्मोपसंहारो ह्युपनयो न साध्यो-
पसंहारः, साध्यो हि धर्मो धर्मी वा स्यान्न तयोरन्यतरस्याप्ययमुपसंहार इति” ।
उच्यते-साध्यो धर्म्येव न धर्म इह विवक्षितः, तत्रायं हेतोरुपसंहा-
रस्तथा च कृतकः शब्द इति, सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या साध्ये
धर्मिणि हेतोरुपसंहार उपनय इति ।
“नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी ।
सम्बन्धमात्रे वाच्ये वा कथमाधारतोच्यते ॥”
नैतत्सम्बन्धसामान्येऽप्युक्ते भवति धर्मिणा ।
योगो विशेषचिन्तायां तस्य त्वाधारता भवेत् ॥
विशेषेऽन्तर्निगूढे च प्रायः षष्ठी नियु

१४२ न्यायमञ्जर्याम्
उपनयाक्षेपसमाधिः ।
अत्रोच्यते—इदं तावद्भवान्पृष्टो व्याचष्टां किं स्वप्रतिपत्तिमनुसरन्तः
परप्रतिपादनाय वाक्यरचनां कुर्मः उत परहृदयानुरर्तनेनेति ? तत्र परा-
भिप्रायस्य वैचित्र्यात्परोक्षत्वाच्च दुरवगमत्वेन न विद्मः किं विदध्महे
किं मुखमुत्तिपामः किमरण्निना परं पीडयामः उत हस्तसंज्ञया व्यवह-
रामः आहो हेतुमात्रमेव केवलं प्रयुञ्ज्महे किं वा त्र्यवयवं वाक्यम-
भिदध्मः उत पञ्चावयवादपि वाक्यादधिकमाख्यानकमस्मै वर्णयाम इत्ये-
वमनवस्थितत्वात्पराभिप्रायस्य स्वप्रतिपत्तिमेवानुसरता परः प्रत्याय्यः, तत्र
स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञया कथ्यते, ततो धूमादि-
लिङ्गमपलब्धमिति हेतुवचनेन तदावेद्यते, ततो यत्र धूमस्तत्राग्निर्यथा महान-
स इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा तदभिधीयते, ततस्तथा चायं
धूम इति परामर्शज्ञानमुदपादीति तदुपपयवचनेन प्रतिपाद्यते, ततस्तस्मादत्रा-
ग्निरित्यनुमेयज्ञानमुपजायते इति निगमनेन तदुच्यते, ततः परं प्रति पर्यव-
सानात्किमन्यदुपदिश्यतामिति, न च दधिभक्षणसहशमतोऽन्यतममपि भवितु-
मर्हत्यनुमेयप्रतिपत्तावुपायदेयत्वात्, येषामपि मते परामर्शज्ञानं नास्ति तैरप्युपनय-
वचनमवश्यमेवापरिहार्यमनुमेयप्रतिपत्तये, दृष्टान्ते दर्शितशक्तिरेव हेतुः प्रभवति
नान्यथेत्यतो यद्यपि पक्षधर्मवचनेन हेतुसंबन्धमात्रमुपपादिशं तथाप्यत्र नाहृ-
ष्टान्तदर्शितशक्तिधर्मः स तस्मिन्धर्मिणि तथाविधो हेतुः स्यान्न वेत्यसिद्धा-
शङ्काशमनमुपनयवचनमन्तरेण न भवत्येवेत्यवश्यं प्रयोक्तव्यं तदिति । स्वप्र-
तीत्यनुसरणेन च वाक्यरचनायाः स्थितत्वात्क्रमोऽपि यथोक्त उपयुज्यते, अत
एव च यत्कृतकं तदनित्यं दृष्टमित्यभिधानमनुपपन्नमनवगते धर्मिणि तद्वर्तिनि
च हेतौ प्रथममेव व्याप्तिस्मरणासंभवेन तद्वचनायोगात्, तदिदमवयवविपर्या-
सवचनमप्राप्तकालनिग्रहस्थानमुपदेच्यामः, अपि च 'यत्कृतकं तदनित्यं दृष्टं
कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यमि'ति वदता भवता कृतकश्च शब्द इत्ये-
तावदेव प्रयोक्तव्यमिति इतीदमुपनयवचनमनुज्ञातं कृतकत्वादिति पक्षधर्मवच-
नं तु निहुनुतम् , "कृतकश्च शब्द इत्येतदेव हेतुवचनमिति चेत्” न प्रयोजकस्य
पञ्चम्यादिनिर्देशार्हत्वादिति यत्किंचिदेतत् , यदप्युच्यते “विदुषां वाच्यो हेतुरेव
केवल” इति, तदप्यचारु, विद्वद्भिर्विद्वत्त्वादेव हेतोरपि प्रज्ञानात, अपूर्वा इमे
विद्वांसो ये प्रतिज्ञावयवचतुष्टयस्यार्थं जानन्ति हेतुवचनस्य न विदन्तीति,
तस्मात्पराशयस्य सर्वथा दुर्बोधत्वात्पूर्वोक्तेनैव क्रमेण स्वानुभवसाक्षिक्येण वा-
क्यरचनां कृत्वा परः प्रत्याय्य इति ॥
हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ ( १।१।३९ )
हेतुधर्मिणि निर्ज्ञातशक्तिः साध्ये धर्मियपदिश्यतेऽनेनेति हेत्वपदेश उप-

: comma right after it!
It is: स-म्य-ग्-ब-भ्यु-ः or स-म्य-ग-भ्यु-ः?
Wait! Look at ग्: it has a virama underneath! ग्
Then: is it ब? Or अ?
Wait, look at अ in असाधारणशङ्कायाः: अ has a left curve, middle stroke, vertical line.
In this word, the letter after ग् does NOT look like अ. It looks like ब!
Wait, could it be सम्यग्बोभूयुः? No.
Wait, look at ग् + अ? If ग् had virama, why would अ follow? Usually ग + अ = ग.
Wait, could it be सम्यग् विदुः?
Wait, does it have ि? No, no left i-matra!
Look at the letters:
स
म्य
ग्
ब
भ्युः -> wait! Could it be सम्यग्बभ्युः?
Wait, why would it say सम्यग्बभ्युः? Could it be a printing error in this edition? Yes, early Chaukhambha editions frequently have bizarre typographical errors!
Wait

१४४ न्यायमञ्जर्याम्
अवयवेषु प्रमाणाभिसंप्लवः ।
त इमे प्रतिज्ञादयो निगमनपर्यन्ताः पञ्चावयवा यथासम्भवमागमादिप्रमा-
णानुगृहीताः परस्परानुषक्ताश्च स्वार्थं साधयन्ति, तत्र मुख्यया वृत्त्या प्रतिपाद्ये-
नानुमानेनैव सर्वेऽवयवा अनुगृह्यन्ते प्रपञ्चाय तु प्रमाणान्तरानुग्रह एषामुच्यते,
प्रतिज्ञायास्तावदागमोऽनुग्राहक उपेयते उपदेशस्वभावत्वात् , अनित्यः शब्द
इत्युक्त्वा त्वेवंविधे विषये ऋषिवदस्वतन्त्रत्वादनुमानमुपदिशन्ति, प्रतिज्ञावचनं
तु तच्छायानुपातित्वाच्छब्दप्रामाण्यसिद्धयर्थं वा शास्त्रे तत्प्रतिज्ञायाः शब्दवि-
षयत्वादागमानुगृहीतमुच्यते, हेतुवचनमनुमानेनानुगृह्यते, उदाहरणं तु प्रत्यक्षेण
तन्मूलत्वाद्व्याप्तिपरिच्छेदस्य यथा गौस्तथा गवय इति च यथा घटस्तथा शब्द इत्य-
नया च्छाययोपमानकरणभूतवनेचरदिवचनसदृशत्वादुपमानमुपनयस्यानुग्राह-
कमभिधीयते, निगमनस्य तु सर्वावयवानामेकत्र नियोजनार्थत्वात्सर्वप्रमाणानु-
ग्राह्यत्वेतेतरेतरानुषक्तत्वात् , प्रतिज्ञां विना निराश्रयो हेतुर्भवेदिति सा पूर्वं
प्रयोक्तव्या अनित्यः शब्द इति, ततो हेतुं परो जिज्ञासत इति हेतुवचनमुच्चार्यते
कृतकत्वादिति, हेतो श्रुते कास्य व्याप्तिरवधृतेति दर्शयितुमुदाहरणमुच्यते यत्
कृतकं तदनित्यं दृष्टं यथा घट इति, एवमुक्ते किमीदृशो निर्ज्ञातशक्तिरेष हेतुः
साध्यधर्मिणि भवेन्न वेत्यसिद्धताशङ्कामपाकर्तुमुपनयः प्रसज्यते, ततोऽमुना क्र-
मेण तथापि साध्यप्रतीतिर्भवत्विति सर्वावयवानेकत्र साध्येऽर्थे समर्थयितुं
निगमनमभिधीयते, अन्यतममवयवमन्तरेण सकलमिदमनुषक्तार्थवाक्यं स्या-
दिति पञ्चावयवमेव यथोपदिष्टक्रमकं वाक्यं प्रयोक्तव्यम् ।
इत्यारब्धोपकारास्तदनुगुणफलैरागमादिप्रमाणै-
रन्योन्यापेक्षिणोऽमी नियतमवयवाः साधयन्त्यर्थजातम् ।
यश्चैतेषां प्रमेये वचसि च चतुरस्तस्य जातिप्रयोग-
प्रायैः शक्यो न पक्षः क्षपयितुमिति हि व्याहरद्वृत्तिकारः ॥
इति भट्टजयन्तस्य कृतौ न्यायमञ्जर्यां दशममाह्निकम्
अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥ (१।१।४०)
अविज्ञाततत्त्वेऽर्थे इति सामानाधिकरण्यनिर्देशादर्थ एवान्यपदार्थो न
पुरुषः, पुरुषो हि षष्ठ्या निर्देक्ष्यत अविज्ञातं तत्त्वमस्येति, तत्त्वपदोपादानेन
धर्मिणः सामान्यधर्ममात्रविशिष्टस्य विज्ञातत्वं सूचयति, कारणोपपत्तित
इति संशयज्ञानोल्लिख्यमानपक्षद्वयान्यतरपक्षोत्थानानुकूलकारणावलोकनं त-
त्त्वस्योत्थापकमाह, अत एवाविज्ञाततत्त्वेऽर्थे भवन्तावपि बुभुत्साविमर्शौ न
तर्कतां प्राप्नुतः, तत्त्वज्ञानार्थमिति साक्षात्प्रमाणतामस्य निरस्यति, प्रमाणा-
नुग्रहं तु विशेषपरिशोधनद्वारेण विदधत्तत्त्वज्ञानाय कल्पते, तर्क ऊह इति

तर्कप्रकरणम् । १४५

पर्यायोपादानस्य प्रयोजनं वक्ष्यामः, तेनायं सूत्रार्थः-अविज्ञाततत्त्वे सामान्यतो
ज्ञाते धर्मिण्‍येकपक्षानुकूलकारणदर्शनात्तस्मिन् सम्भावनाप्रत्ययो भवितव्य-
तात्रभासस्तदितरपक्षशैथिल्यापादने तद्ग्राहकममाणमनुगृह्णन् तन्मुखं प्रवर्त्त-
यंस्तत्त्वज्ञानार्थमूहस्तर्क इति, यथा बाह्यकेलिप्रदेशादावूर्ध्वत्वविशिष्टधर्मिदर्शना-
त्पुरुषेणानेन भवितव्यमिति प्रत्ययः ।
“ननु तत्त्वज्ञानार्थमित्युक्ते सति सामर्थ्यादविज्ञाततत्त्वता लभ्यते एवेति
किमर्थं स्वकण्ठेन पुनरनूद्यते ?”
बाढं किंतु कचिद्विषये ज्ञाततत्त्वेऽपि पूर्वतर्केणावमृष्टे सत्युत्तरकालं तर्कि-
तोमयाऽयमर्थ इति स्मर्यमाणतर्कविशेषणतया गृह्यमाणो विशेषणीभूतस्तर्कस्त-
त्त्वज्ञानार्थो भवतीति तद्व्युदासाय पुनरविज्ञाततत्त्वग्रहणम् , मार्गशोधनद्वारेण
तर्कस्य तत्त्वज्ञानार्थत्वमिह विवक्षितं तच्चाविज्ञाततत्त्वेऽर्थे सम्भवतीति ।
“ननु नैव संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययः कश्चिदस्ति, तथा हि यदि
तावदनवगतविशेषस्य भवत्यसौ प्रत्ययस्तर्हि संशय एव भवेदवगतविशेषस्य
भवन्निर्णयतामेव स्पृशेत् , पुरुष एवेत्येवकारार्थाद्युन्मेषरहितोऽपि प्रत्ययो
निर्णयो न न भवितुमर्हति, तुरगपरिसरणसमुचितदेशदर्शनमपि यदि स्थाणु-
पक्षे स्थगयितुमलमिवि मन्यसे तत्करचरणादितरविशेषदर्शनवत्तन्निर्णयकार-
णमेव स्यात् , अथ तस्यामपि तुरगविहरणभुवि निखनति कश्चन स्थाणुमिति
शङ्कसे, यद्येवं स्थाणुपक्षानपायात्पुनः संशय एव स्यादिति न तृतीयः पक्षः
समस्तीति लक्षणाभावात्कस्येदं लक्षणमिति ?”
उच्यते—न खलु स्वमतिपरिकल्पितविकल्पवितानेन प्रत्यात्मवेदनीयाः
प्रतीतयो वरीतुं शक्याः, तथा हि—स्थाणुर्वा पुरुषो वेति प्रतीतिरेका पुरुष
एवायमित्यन्या पुरुषेणानेन भवितव्यमिति मध्यवर्तिनी तृतीया संभावना-
प्रतीतिः स्वहृदयसाक्षिकैव,
साम्येन हि समुल्लेखः संशये पक्षयोर्द्वयोः ।
निर्णये त्वितरः पक्षः स्पृश्यते न मनागपि ॥
तर्कस्त्वेकतरं पक्षं विभात्युत्थापयन्निव ।
ननु सम्भावनाबीजवाजिवाहनदर्शनाद्वाह्यकेलिप्रदेशविशेषदर्शनं हि पुंसि
सम्भावनामात्रमुपजनयितुमलं न तु शिरःपाण्यादिविशेषदर्शनवत्सर्वात्मना स्थाणु-
पक्षापसरणेन पुरुषनिर्णयाय प्रभवत्यतोऽयमगृहीतविशेषस्यैव भवति प्रत्ययो न
तु संशयः एकतरपक्षानुकूलकारणोपपत्त्या जायमानत्वात् , कथं पुनः पाणिपा-
दादिपुरुषविशेषवदश्ववाहनदेशविशेषो विशेषकार्यं न कुर्यात् करेणैवास्थाणुप-
क्षोत्सारणाभिर्णय एवायमिति कस्यैष पर्यनुयोगः, यथा हि शिरःपाण्यादिद-
र्शने सति पुरुषनिर्णयो भवति न तथा तुरगवहनदर्शने सति, अननुयोज्याश्च
१९

पदार्था एवं भवत्वैवं मा भूतेति, यथा च देशान्तरे स्पर्धमान एव स्थाणुपक्ष
आस्ते न तथा वाहकेलिभूमावपि तु शिथिलोभवति संभवत्प्रमादत्वाच्च न स-
र्वात्मना निवर्तते ।
“ननु यदि न निवर्त्तते तर्हि स्पर्धतां मा वा स्पर्धिष्ट स्थितस्तावत्स्थाणुपक्ष
इति संशय एवायमिति”
मैवम् स्थाणुपक्षः सर्वात्मना (न) निवर्तते नाप्यास्ते एवमेवायं त्रिशङ्कुरि-
वालम्बमानः प्रत्ययान्तरनिवृत्तये प्रभवतीति तथा प्रत्ययानुभवादेव परिकल्प्यते,
वाहकेलिप्रदेशदर्शने हि यथा पुरुषविशेषाः स्मरणपथमवतरन्ति न तथा स्थाणु-
विशेषाः उभयविशेषस्मरणजन्मा च संशय इति सोऽयं वाहकेलिप्रदेशविशेषः
शिथिलयति स्थाणुपक्षं न सर्वात्मनोच्छिनत्तीति तद्दर्शनात्कृतकतत्कारणप्रत्यय
इति न तद्धृद्यंगमं तेन क्रमेण निर्णय एवासौ तत्कारणतथात्वं न तर्क इति ।
अथ वा कार्योदाहरणत्वादस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययो द्रष्ट-
व्यः स उदाहरणं भविष्यति ।
“ऊह इति पर्यायाभिधाने किं प्रयोजनं” लक्षणप्रतिपादनमेव, तदेव हि
तर्कस्य लक्षणं यदूहरूपत्वं इतरस्तु सूत्रे कारणविशेषाय फलनिर्देशः, कार-
णोपपत्तित इति कारणनिर्देशः, अविज्ञाततत्त्वेऽर्थे इति विषयनिर्देशः, तत्त्व-
ज्ञानार्थ इति फलनिर्देशः ।
अपि च तर्कशब्दं के चिदनुमाने प्रयुञ्जते, यथा स्मृतिकाराः पठन्ति—
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ।। इति ।।
तदिहापि तर्कोऽनुमानं मा विज्ञायीत्यूहग्रहणम् , ऊहोऽत्र तर्क उच्यते नानु-
मानं तत्त्वज्ञानार्थताऽप्यस्य प्रमाणानुग्राहकत्वेन न साक्षात्, तथैव चार्थं साध-
यितुमेष वादे प्रयुज्यते हृदयशुद्धिप्रकाशनाथम् ।
कापिलास्तु बुद्धिधर्ममूहमाहुः, स तत्सिद्धान्तप्रसिद्धसत्त्वरजस्तमोरूपप्र-
कृतिप्रभवभुवनसर्गादिव्यवहारनिराकरणवर्त्मना पूर्वमेव निरस्तः ।
जैमिनीयास्तु ब्रुवते–युक्त्या प्रयोगनिरूपणमूह इति, इह हि किंचिदु-
पदिष्टदृष्टादृष्टस्वभावसकलेतिकर्त्तव्यताकलापं कर्म भवति यथाऽऽग्नेयोऽष्टा-
कपाल इति दर्शपूर्णमासकाण्डे पठितम् , क चित्पुनः प्रधानकर्ममात्रमुप-
दिश्यते इतिकर्तव्यता तु काचन नाम्नायते, यथा—'सौर्यं चरुं निर्व-
पेद् ब्रह्मवर्चसकाम' इति, तत्र विचार्यते–किमितिकर्तव्यताविरहितयथाश्रुतप्र-
धानमात्रसंपादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते उत तदपि सेतिकर्तव्यताकं
प्रधानमनुष्ठेयमिति, तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते निरङ्गस्य
प्रधानस्याननुष्ठेयत्वाद्विध्यन्ताधिकरणसिद्धान्तन्यायेन प्राकृतवद्वैकृतं कर्म कर्तव्य-

मिति सेतिकर्तव्यताकं तदनुष्ठीयते, एवं सामान्यातिदेशे स्थिते सति कस्य वैकृ-
तस्य कर्मणः कुतः प्रकृतेर्धर्मा अधिगन्तव्या इति चिन्तायां द्रव्यदेवतादिचोद-
नासारूप्यपर्यालोचनोपनतहृदयसन्निधानप्राकृतकर्मविशेषसम्बन्धिन एव तत्र
धर्मा भवितुमर्हन्तीति स्थापिते युगपदुपनिपतदनर्गलचोदकव्यापारोपनीतनिखि-
लाखण्डमण्डलविष्यन्तकाण्डाधिगम्यधर्मसम्बन्धप्राप्तौ सत्यां ते धर्माः कथं प्रयो-
क्तव्या इति युक्त्या प्रयोगनिरूपणमूह उच्यते, येनेत्थं प्रयोक्तव्या इति धर्मा
व्यवस्थाप्यन्ते, स च त्रिविधो मन्त्रसामसंस्कारविषयः, मन्त्रविषयस्तावद्यथा-
ऽत्रैव सौर्ये चरौ प्रकृतिवद्भावेनाग्नेयादग्नये त्वा जुष्टं निर्वपामीति निर्वापमन्त्रः
प्राप्तः कथं प्रयोक्तव्य इति विचारणायामुच्चारणमात्रेण मन्त्राणामनुपयोगात्प्र-
योगसमवेतद्र

[१४८] न्यायमञ्जर्याम्

मेव वचनमस्ति रथन्तरमुत्तरयोर्गायतीति तदभावेऽपि मन्त्रसंस्कारसमानयो-
गच्चेमत्वमेव ।
अपि च शब्दपृष्ठस्थितन्याये सहस्रव्युत्पादनात्मके मीमांसाशास्त्रे तन्न्याय-
लभ्योऽर्थश्चोदनार्थ एवेति स्थापितम्, अतश्च यथोक्तोहलभ्यस्यार्थस्य चोदनार्थ-
ता मा निर्वर्तिष्टेति सोऽयमूहः शब्द एवान्तर्भावणीयः प्रमाणान्तरगोचरो वा
धर्मः स्यात्, न्यायविशेषात्मकस्तुहो नानुमानादर्थान्तरं स्यात्, अग्नय इत्यस्य
स्थाने सूर्यायेतिपदस्य प्रयोग ऊहस्य फलं नोहः, इह तु पूर्वोक्तया नीत्या प्रमा-
णव्यतिरिक्त ऊह उपपादितः, श्रोत्रियास्तु तदनभिज्ञतया न्याये न्यायफले वो-
हशब्दमुपचरितवन्त इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः ।
तदेष मीमांसककल्प्यमानो नोहः प्रमाणव्यतिरेकमेति ।
प्रमाणसन्देहदशान्तरालवर्ती तु तर्कः कथितोऽत्र शास्त्रे ॥
इति (८) तर्कपदार्थः ।
तर्कानन्तरं निर्णयो भवति पठितश्चेति स लक्ष्यते—
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥ अ० १ आ० १ सू० ४१.
अवधारणमपि तथा स्यादित्यर्थग्रहणम्, इन्द्रियादिजनितमपि तदवधार-
णमस्त्येव न्यायोपरमहेतोस्तु निर्णयस्योद्देशात्स एवानुमानजन्यो लक्षणीय
इहेति पक्षप्रतिपक्षाभ्यामित्युक्तम् ,
एकाधिकरणौ धर्मौ तुल्यकालौ विरोधिनी ।
पृथक्परिग्रहौ पक्षप्रतिपक्षावुदाहृतौ ॥
"न हिताभ्यां निर्णयः तयोरन्यतरविषयो हि भवति न तत्करणक एवेति"
सत्यम्, इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयौ साधनतदुपालम्भौ लक्ष्येते, तौ च
तस्मिन्करणमेव । "किमर्थं पुनर्लक्षणा ऽऽश्रीयते साधनोपलम्भाभ्यामेवेति कथं
न सूत्रितम्" एवमभिधीयमाने पुनस्तयोर्विषयो मृग्यः लक्षणाप्रयोगे तु सोऽप्य-
वगती भवेत्, मुख्यमभिधाय तदितरो लक्ष्यते । "भवत्वेवं द्वाभ्यां कथं तु नि-
र्णयः एकमेव हि साधनं निर्णयाय कल्पते" एवमेतत् , न द्वितीयमपि साधनं
निर्णयनिमित्तमाचक्ष्महे किन्तु तदुपालम्भं साधनं चः साधनोपलम्भश्च साध-
नोपालम्भौ ताभ्यां निर्णयः ।
एतदुक्तं भवति—स्वपक्षं प्रमाता निर्णयतीति न खल्वेवं न जाने च दूष-
णमुत्प्रेक्षमाणः स्वपक्षे साधनमधिगच्छन्परपक्षसाधने च दूषणमुत्प्रेक्षमाणः
प्रमाता निर्णयतीति किं तूपालम्भस्य क इव निर्णयजन्मनि व्यापारः स हि
परपक्षसाधनमवच्छिनत्तीति, अस्त्वेतत् तदुच्छेदद्वारेण अपि तु स्वपक्षसाधन-
महिमानमाविष्कुर्वन्कल्पत एव निर्णयायेति युक्तो द्वयोरपि करणभावः ।
"नन्विदानीमर्थग्रहणमनर्थकमेवंविधसाधनाधीनजन्मा हि न निर्णयाभासः

सम्भवति, साधनोपालम्भलक्षणाथौवपि च पक्षप्रतिपक्षशब्दौ विषयमभिबदितुं
ननु शक्नुत इत्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ?”
उच्यते–पक्षप्रतिपक्षयोस्तु द्वयोरन्यतरत्रार्थेऽवधारणं भवति नोभयत्र,
स ऽएव च परमार्थतोऽर्थ इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्थपदोपादान-
म् । लक्ष्यमाणसाधनोपालम्भनिष्ठत्वात्तु पक्षप्रतिपक्षशब्दयोर्विषयनिर्देशार्थमर्थ-
पदमित्येके । “विमृश्येति किमर्थं” वस्तुस्वरूपकथनार्थमेव, अनुमानकरणको हि
निर्णय इह लक्ष्यते इत्युक्तम् , अनुमानं च संशयविषये प्रवर्तते इति तर्का‌न-
न्तरमप्यनेनैवाशयेनास्योपादानम् , संशयानन्तरं तर्कस्तर्कादूर्ध्वं च निर्णयो
दृष्टः प्रवर्तमानोऽतस्स तत्पूर्वक उच्यते ।
निर्णये तु समुत्पन्ने बुभुत्सा विनिवर्तते ।
अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ॥
“भवत्वेवमिदं तु चिन्त्यतां–क नियमः किं विमर्शे किं पक्षप्रतिपक्षयोः किं
निर्णय इति, त्रये ऽपि च नोपपद्यते इति, न विमृश्यैव निर्णयः अविमृश्यापि
भावात् , न पक्षप्रतिपक्षाभ्यामेवेन्द्रियादेरपि तदुत्पादात् , न निर्णय एव
तर्कस्यापि क चिद्विनिवृत्ते.” उक्तमत्रोद्देशसूत्रे तत्त्वज्ञानपदोपादानात्प्रमाणपदेन
च तत्फलाक्षेपान् निर्णयमात्रोद्दिष्टेन किमपि प्रयोजनं विशिष्टस्तु निर्णयो ल-
क्षणत्वेन विवक्षितः ।
परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः ।
नियमत्रयमप्येतत्तस्मिन्न हि न युज्यते ॥
न हि (न) विमृश्यैव भवन्ति विमर्शपूर्वकत्वात्परीक्षायाः, अनुमानं च
सन्दिग्धे विषये प्रवर्तते इति प्रायेण तद्व्यवहारः ।
यद्यपि कचिदसन्दिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमतलानर्थिता-
यामतर्किंतोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पनमिव, तथाऽपि
वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः, प्रकृतश्च
निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुमन्यथा
न्यायानुपरमादिति, शास्त्रे तु विनापि संशयादस्ति निर्णयः ।
यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशातिदेशा-
भ्यामभ्यधायि, तथापि नासौ शास्त्रीयो निर्णयः परीक्षाकार्यत्वात् , यस्तु शा-
स्त्रत एव क चिद्विषयनिर्णयः स विमर्शवर्जमुत्पद्यते, वादे ऽपि विमर्शरहिते
भवति निर्णयः, उभो निश्चितौ वादं कुरुतः सन्दिग्धस्य तत्रानधिकारात् ,
“कथं तर्ह्येष प्रवादः संशयच्छेदो वादस्य फलमिति ?” प्रथममुभयोरपि निश्चि-
तयोर्वादप्रवृत्तावन्तराले बलादापतति युक्तिद्वयोपनिपातवतः संशय इति वस्तु-
निर्णयावसानत्वाद्वादस्य संशयच्छेदफलत्वमाचक्षते ।

साधनोपालम्भ इति च जल्पलक्षणे श्रवणाद्वादे सर्वात्मना छला-
Wait, look at "स्थानसाधनोपालम्भ":
In line 24: "तिनिग्रहस्थानसाधनोपालम्भ इति च जल्पलक्षणे"
दिनिषेधप्रसक्तौ कतिपयनिग्रहस्थानोद्भावनाभ्यनुज्ञानार्थं पञ्चावयवोपपन्नग्रहणम् ,
अनेन च ‘हीनमन्यतमेनाप्यवयवेन न्यूनम् । हेतूदाहरणाधिकमधिकम्’ति न्यू-
नाधिकयोरुद्भावनमनुज्ञायते, सिद्धान्ताविरुद्धग्रहणेनापि ‘सिद्धान्तमभ्युपेत्य त-
द्विरोधी विरुद्ध’ इति विरुद्धाख्यहेत्वाभासोद्भावनमनुज्ञातमित्येवं वादे त्रीणि
निग्रहस्थानान्युद्भावनीयानि ।

अन्ये वदन्ति—“विरुद्ध एव हेत्वाभासो वादे चोद्यते नानैकान्तिकादि-
रि”ति, कथमेतद् युज्यते ‘निग्रहस्थानेभ्यः पृथगुपदिष्टा हेत्वाभासा वादे चोद्-
नीया भविष्यन्तीति भाष्यकारवचनात्प्रमाणपदेन च तन्मू

वादप्रकरणम् । १५१

भासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि तत्र सिद्धमिति । “सि-
द्धान्ताविरुद्धग्रहणेन सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गो ऽपसिद्धान्त इत्यप-
सिद्धान्ताख्यनिग्रहस्थानानि वादे उद्भाव्यन्त इति” तदनुपपन्नं न हि त्रीणि वा
अष्टौ वा वादे निग्रहस्थानानि चोदनीयानीति चोदना वैदिकी राजशासनं वा
वस्तुपरिशुद्धिसाधनं सर्वमेव तत्र प्रयोगार्हम् , अयं तु विशेषः—जल्पे कस्यां-
चिदवस्थायां बुद्धिपूर्वकमपि छलादिप्रयोगः क्रियते वादे तु वृथा तेषां प्रयोगः,
भ्रान्त्या तु कथंचित्प्रयुक्तानामवश्यमुद्भावनमनुद्भावने वस्तुपरिशुद्धेर-
भावात् ।
“कथं तर्हीदं पदद्वयं सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इति” अपसिद्धा-
न्तादिसम्यग्दूषणदिक्प्रदर्शनेनैवम्प्रकारवस्तुशुद्ध्यनुगुणनिग्रहस्थानजाताद्यनुज्ञा-
नार्थमेवेत्यभियुक्ताः, अप्रतिभाविक्षेपादयो हि न वादे पराजयहेतवः क्षणा-
न्तरेणाप्यागत्यानुस्मृत्य च साधनमुपालम्भं वा तत्र वदन्न पराजीयते, प्रतिज्ञा-
हान्यादि तु सम्यक्पराजयकारणमखिलमाभ्यां पदाभ्यामभ्यनुज्ञातमत्रेति ।
“नन्विदानीं प्रमाणतर्कग्रहणमपार्थकं पञ्चावयवोपपन्नपदेनैव प्रमाण-
मूलावयवोपदेशाद्वस्तुपरिशुद्धयनुगुणनिग्रहस्थानाभ्यनुज्ञानाच्च किमिव नो-
क्तम्” न अभिप्राये नैर्मल्यनिवेदनद्वार कवादजल्पविवेकप्रतिपादनार्थत्वात् ,
स्वप्रतिपत्तिसाधनमपि प्रत्यक्षादि वादे प्रयोक्तुमुचितमाशयशुद्धिमुपद-
र्शयितुमत्र वस्तुनि मम प्रथमं तर्क इत्थं प्रवृत्त आसीत्ततः प्रमाणमिदं प्रवृत्त-
मित्येवमपि तत्र वक्तव्यमत एव चान्यतरपक्षनिर्णयावसान एव भवति वादः,
न जल्पवदलीकदूषणाडम्बरविरचितपरपरिभवपर्यवसानोऽपीति तथा बुद्धि-
पूर्वमाभासानामप्रयोग इति निर्मत्सरकथात्वमस्योक्तमित्यकलुषाकूतकथनाय
प्रमाणतर्कपदम् ।
अपि च साधनोपालम्भव्यतिषङ्गप्रतिपादनमपि तस्य फलमुभावपि
परस्परमनुबन्धेन वादिभ्यां परीक्ष्यमाणौ पक्षप्रतिपक्षौ वादतां प्रयोज-
यतो न तु स्वगृहे शास्त्रे वा विविच्यमानौ, प्रमाणैरेव जल्पे व्यवहार इति निय-
मशङ्कानिरसनमपि तत्पदोपादानप्रयोजनमुक्तमन्यैरपि कृतमतिविस्तरेण सर्वथा
वादलक्षणं सर्वं सुस्थम् ।
वादं च निर्णयफलार्थिभिरेव शिष्यसब्रह्मचारिगुरुभिः सह वीतरागैः ।
न ख्यातिलाभरभसप्रतिवर्धमानस्पर्धानुबन्धविधुरात्मभिरारभेत ॥
इति (१०) वादपदार्थः ॥
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥
गौतमसू. अ. १ आ. २ सू. २ ॥

१६२ न्यायमञ्जर्याम्
यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङ्कमानाः के
चन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते, इयतस्तु पूर्वसूत्रानुवृत्त्या-
ऽपि सिद्धेर्मन्दफलमेव यथोक्तोपपन्नवचनं भवेदिति समस्तातिदेश एव वरम् ,
न च तत्रापि वादजल्पयोः साम्यं गम्यमानार्थम् , अतिदेशाच्छ्रौत एवार्थो
ऽतिदिश्यते न गम्यमानः तत्कृत एव च तयोर्भेदः, तथा च प्रमाणतर्कसाधनोपा-
लम्भ इत्यत्र गम्यमानोऽर्थोऽभिप्रायनियमः स नातिदिश्यते, सिद्धान्ताविरुद्धः
पञ्चावयवोपपन्न इत्यत्रापि बुद्धिपूर्वजात्यादिप्रयोगप्रतिषेधतदुद्भावननियमरूपो
गम्यमानोऽर्थः सोऽपि नातिदिश्यत इति कुतस्तयोरविवेकः, अत एव च बुद्धि-
पूर्वकप्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम् । "भवत्वेवं
छलादीनां त्वसदुत्तरत्वात्कथमिव साधनोपालम्भहेतुत्वम् , परपक्षप्रतिषेधद्वार-
कमिति चेन्न। सदुत्तरत्वेन 'प्रतिषेद्धेऽपि तेषामसामर्थ्यादेवमपि च साधनग्रहणम-
नर्थकमेवेति" सत्यमेवं किन्तु कस्यांचिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्व-
ज्ञानरक्षायै तान्यपि व्याप्रियन्ते, यदा जानन्नपि परपक्षकृशिमानं स्वपक्षे द्रढि-
मानं च कचिदवसरे परप्रयुक्ते साधने दूषणं सपदि न पश्यति स्वपक्षसाधनं च
झगिति न स्मरति तदा छलादिभिरप्युपक्रम्य परमभिभवत्यात्मानं च रक्षतीति ।
"ननु यदि परश्छलादीनि जानीयात्तेषु चानुरूपमुत्तरमभिदधीत कथं
जीयेत प्रत्युत जयत्येव" सत्यं तथाप्येकान्तपराजयाद्वरं सन्देह इति युक्तमेव
तत्प्रयोगेण स्फुटाटोपकरणम् ।
"नन्वीदृशि प्रयोजनानि जिगीषतो जनस्य जनपदसदसि भवन्ति तस्यापि
न निपुणमतिसदसि मुमुक्षोस्तु दूरापेतेव कथेयमिति कथमिह मोक्षशास्त्रे
जल्पाद्युपदेशः"
नैतदेवम् , मुमुक्षोरपि क्वचित्प्रसङ्गे तदुपयोगात् , यथोक्तं तत्त्वाध्य-
वसायसंरक्षणार्थीनमनेकशिष्यगणोपास्यमानं रहस्यतत्त्वमुपदिशन्तं शान्त-
मानसमाचार्यमनार्यः कश्चिद्विपश्चिदाभासः कुतश्चिदागत्य दुरधिगतकतिप-
याक्षरपरिचयजनितगुरुतरगर्वगद्गदया गिरा भोस्तपस्विन्किमाख्यायते हू-
ङ्कारमान्वीक्षिकी सरलमतिप्रियेयं विद्या क्व वेदाः क्व वेदप्रामाण्यं क्वा-
त्मज्ञानं कापवर्ग इत्यादि मन्दं विहस्य सहस्यसहसाभ्रमेघ इव प्रकटितकाण्ड-
दण्डकाशनितम्भवित्रासिताश्रममृगवर्गमुद्ग्राहयन्नाकुलयति, तदा जगज्जालमि-
न्द्रजालपण्डितविलसितमिति जानन्नप्याशाभ्यो यदि तदुपेक्षते न तिरस्करोति
सद्यः सम्यक् साधनाप्रतिभासेऽपि यदि छलादिभिरेनं न शमयति तदा तस्मिन्
गते तत उत्थाय शिष्यगणा ब्रूयुः कष्टमस्थाने क्लिष्टाः स्मः,
यो ऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः ।
अद्य त्वागत्य सो ऽन्येन पण्डितेन पराजितः ॥

" -> wait:
"पक्षो ऽस्यास्तीति साधनं तु नास्तीति सम्यक् सूत्रितं सप्रतिपक्षस्थापनाहीनो"
"वितण्डेति ।"

Line 20:
"पक्षधर्मत्वादीनि पञ्च लक्षणानि हेतोरुक्तानि तेषामेकैकापायात्पञ्च हेत्व-"
Line 21:
"भासा भवन्तीति तान् दर्शयितुमाह—" (em-dash or hyphen? It's a dash: —)

Line 22:
"सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः ॥"

Line 23:
"गौतमसूत्रम् अ. १ आ. २ सू. ४ ।"

Line 24:
"अत्र हेत्वाभासश्रुतिरेव निर्वचनसहिता सामान्यलक्षणं बोधयत्यहेतवो"

Line 25:
"हेतुवदाभासन्त इति हेत्वाभासाः, लक्षणैकदेशयोगाच्च हेतुवदाभासनमहेतोर-"

Line 26:
"प्युपपद्यते । सकललक्षणाऽपायेपि पञ्चमीनिर्देशादिधर्महेतुरित्येके, सव्यभिचारा-"
(Notice: "सकललक्षणाऽपायेपि" has avagraha after णा, and no avagraha in येपि).

Line 27:
"दिपदपर्यन्तवर्

१५४ न्यायमञ्जर्याम्
“नन्वेकस्यैव रूपद्वयवैकल्यात्कथं न षष्ठादयस्तत्प्रभेदाः स्युः, यथा नित्यः श-
ब्दश्चाक्षुषत्वादिति, एष हि पक्षे वृत्त्यभावादसिद्ध उच्यतामुत सामान्यादिर्विप-
क्षादप्रच्युतेः सव्यभिचार उत जात्यन्तरमेव ताभ्यामिति”
नैतदेवम्—एकैकरूपापायनिमित्तभेदपञ्चकप्रतिपादने कृते द्वित्रिरूपापायान्न
रूपान्तरमवतरति किन्तु तेषामेव समावेशः स्यात्, अपि च प्रथमगृहीतान्यत-
मरूपवैकल्यलब्धके हेत्वाभासरूपेऽस्मिन्किं रूपान्तरनिरूपणेनेत्यास्तामेतत्।
“नन्वप्रयोजको नाम षष्ठो हेत्वाभासः समस्तीति न पुनरपि पञ्चत्वम्” न
तस्यान्यथासिद्ध एवान्तर्भावं वक्ष्यामः, अवान्तरभेदविवक्षायां तु हेत्वाभासाना-
मियत्तानिश्चयो न शक्यक्रियो न च सप्रयोजन इति पञ्चैव हेत्वाभासा इति
सिद्धम्।
सव्यभिचारलक्षणम्।
तेषां सव्यभिचारस्तावदुच्यते।
अनैकान्तिकः सव्यभि

हेत्वाभासप्रकरणम् । १५५

न्ना संबध्यमानः कचिदपि पर्युदासवृत्तिमुल्लङ्घ्य प्रसज्यप्रतिषेधमात्रतामवल-
म्बमानो दृश्यते अब्राह्मणादौ सर्वत्र तदन्यावगतिदर्शनादिति कुतस्त्यः संशयः ।
अथ वा किमनयाऽवान्तरचिन्तया यथापृष्ठं प्रकृत एवोत्तरमुच्यते एकस्मिन्नि-
त्यपक्षो वा नियत ऐकान्तिक एकपक्षवृत्तिरुच्यते ततोऽन्यः पक्षद्वयवृत्तिरनैका-
न्तिको भवत्येवं न सर्वे हेत्वाभासाः पक्षद्वयवृत्तय इति न संख्याहानिरतः पर्यु-
दासपक्षे तावन्न दोषः, प्रसज्यप्रतिषेधे ऽप्यैकान्तिको न भवति स एवाहेतुरिति
न निवृत्तिमात्रपरत्वम् , अश्राद्धभोजीति कृता पुरुष उच्यते न श्राद्धभोजनाभा-
वमात्रमेवमिहापि तद्धितेनैकान्तनियतत्वाप्रतिषेधविशिष्टो हेतुरेवोच्यते नाभावमा-
त्रमित्येवमुभयथापि न दोषः, तस्योदाहरणम्-अनित्यः शब्दः प्रमेयत्वादिति,
एष हि नित्यानित्यपक्षयोरन्यतरस्मिन्नपि न नियत इति विपक्षवृत्तित्वादनै-
कान्तिकस्तदेवं व्यतिरेकाख्यहेतुलक्षणशून्यो ऽनैकान्तिक उक्तो भवति ।
“ननु षट्प्रकाराः परैरनैकान्तिका इष्यन्ते सपक्षैकदेशवृत्तिर्विपक्षाव्यापी
विपक्षैकदेशवृत्तिः सपक्षाव्यापी उभयपक्षैकदेशवृत्तिरुभयपक्षव्यापी, साधारण-
श्चतुष्प्रकारः असाधारणो विरुद्धव्यभिचारी चेति स कथमिह न निर्दिश्यते” ।
उच्यते—सपक्षाव्याप्यादिभेददर्शनं तावदप्रयोजनकमशक्यं च हेत्वाभासा-
नामवान्तरभेदेनानन्त्यात्, विपक्षाद्व्यावृत्तिर्यस्य नास्ति स सव्यभिचार इत्यन्यत-
महेतुरूपरहितत्वमनैकान्तिकलक्षणमिह विवक्षितम् , तच्चोक्तमेव किमवान्तर-
भेदपरिगणनेन, असाधारणविरुद्धव्यभिचारिणौ तु न संभवत एव हेत्वाभा-
साविति न व्याख्यायेते ।
“ननु साधारणादसाधारणस्यापि गन्धवत्त्वादेः संशयहेतुत्वदर्शनात्कथम-
संभवः अनेकधर्मोपपत्तेश्च संशयो भवद्भिरपि व्याख्यायत एव”
नैतदेवम् , उभयविशेषसहचरितधर्मदर्शनं हि तदनुस्मरणप्रायं संशयमुपज-
नयति असाधारणस्तु असाधारणत्वादेव न तत्सहचरः कदाचिदुपलब्ध
इति कथं संशयहेतुः । “कथं तर्ह्यनेकधर्मोपपत्तेरिति वर्णयिष्यते” वर्णितमेतद्
वस्तुनो हि विशेषधर्मः कश्चिदसाधारणः केनापि धर्मान्तरेण सहचरितो दृष्टः सो-
ऽयं शब्दे विभागजत्वाख्यो धर्मः केन (चित् ?) धर्मान्तरेण द्रव्यत्वेन गुणत्वेन
वा सहचरितो भवेदितीत्थमनेकधर्मोपपत्तेः संशयोवर्णितः, तदिहापि गन्धवत्त्व-
मसाधारणमित्थमेव यदि संशयहेतुतया वर्ण्यते तर्हि साधारणाद्वस्तुधर्मत्वादेव
संशयो भवेन्नासाधारणाद्गन्धवत्वात् , न हि तन्नित्यानित्ययोरन्यतरेणापि सह-
चरितमुपलब्धम् , वस्तुधर्मस्तु धर्मान्तरानुयायी दृश्यत इति वस्तुधर्मत्वमेव
तत्कारणमतो नित्या भूर्गन्धवत्त्वादित्यसाधारणानैकान्तिको न वक्तव्यः, विरु-
द्धाव्यभिचार्यपि न वाच्य एव एकत्र धर्मिणि परस्परविरुद्धद्वयप्रयोजकहेतुद्वयो-
पनिपातस्यानुपपत्तेः ।

१५६ न्यायमञ्जर्याम्
“ननु प्रत्यक्षो वायुः स्पर्शवत्त्वाद् घटवद् , अप्रत्यक्षो वायूरूपत्वादाकाश-
वदित्यस्ति हेतुद्वयसन्निपातः, स एव च विरुद्धाव्यभिचार्य्युच्यत इति" अत्र ताव-
देतदेव वक्तव्यम्—को ऽयमपूर्वः प्रामाणिकव्यवहार ईदृशो यदनुमानेन प्रत्य-
क्षत्वमप्रत्यक्षत्वं वा साध्यत इति इन्द्रियजप्रमितिविषयो हि प्रत्यक्षोऽर्थो भव-
ति स एष वायुर्यदीन्द्रियजे प्रत्यये प्रतिभात्येव किमनुमानेनेति, किं चानयो
रन्यतरो हेतुरवश्यमप्रयोजको वस्तुनो द्वैरूप्यानुपपत्तेः, हेतौ च प्रयुक्ते तद्गु-
णदोषपरीक्षामेव प्रतिवादी विधत्तां कोऽवसरः प्रतिहेतूपन्यासस्य ।
“विडम्बनार्थस्तदुपन्यास इति चेन्न”
विडम्बनोपन्यासस्य जात्युत्तरप्रकारत्वात् , इह च हेत्वाभासा वास्तवा
एवानुमानदोषाः प्रतिपाद्यन्ते, न च विरुद्धाव्य

तदेकदेशसाध्यधर्मविषयो लक्ष्यते, तं सिद्धान्तसाध्यधर्ममभ्युपगम्य यो विरु-
णद्धि व्याहन्ति तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः ।
“ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मर्यते इह च हेतोरचेतनस्याभ्युपगमे
कर्तृत्वासम्भवात्पुरुषस्तत्कर्ता भवेत् सिद्धान्तं च विरुणद्धि हेतुरिति भिन्नकर्तृ-
कत्वमुच्यते” समानकर्तृकत्वसिद्धये हेतोरेवाभ्युपगमे कर्तृत्वमुपचाराद्वर्णयिष्यते
हेतुबलात्पुरुषेणाभ्युपगमः क्रियमाणो हेतुनैव कृतो भवति, एवं च स एवाभ्यु-
पगन्ता स एव विरुणद्धीति न भिन्नकर्तृकत्वम् ।
“ननूपचारपरिग्रहश्चेदभिमतस्ततश्च त्रितयं वक्तव्यम्– साध्येऽर्थे प्रमाण-
बाधो निमित्तं प्रयोजनं चेति” साध्येऽर्थे प्रमाणबाध उक्त एव हेतोरचेतनत्वम्,
निमित्तमप्यस्ति हेतुसाधनको ह्युपगम इति, प्रयोजनं तु विशेषविरुद्धानां
हेत्वाभासत्वनिवारणम् । सिद्धान्तशब्दस्य समुदायवाचिनो यदेकदेशेऽवस्था-
पनं तस्यापि विशेषविरुद्धव्यवच्छेद एव फलम्, विशेषविरुद्धानां हि हेत्वा-
भासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः, न हि तथाविधो हेतुरिह जगति
कश्चिदवाप्यते यः साध्यसिद्धयेऽभिधीयमानो धर्मस्य वा धर्मिणो वा विशेषं
न कंचन बाधते, तथा हि अनित्यः शब्दः कृतकत्वादिति सकलतार्किकगृह-
प्रसिद्ध एव हेतुरनित्यतां साधयन्नपि यत्कृतकं तत्तदश्रावणं दृष्टं यो यः
कृतकः स स व्योमविशेषगुणो न भवतीति धर्मिणो विशेषं बाधते एवेत्यहेतुः
स्यात्, न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासोऽभ्युपगन्तव्यः
किन्तु साध्यस्वरूपविपर्ययसाधन एवेति, अत एव यथा तीर्थान्तरे वर्ण्यते
विरुद्धश्चतुष्प्रकारो धर्मस्वरूपविपरीतसाधनो धर्मिस्वरूपविपरीतसाधनो धर्म-
विशेषविपरीतसाधनो धर्मिविशेषविपरीतसाधन इति तथेह नेष्यतेऽतिप्रस-
ङ्गस्य दर्शितत्वादिति, अस्योदाहरणं नित्यः शब्दः कृतकत्वादिति ।
“नन्वेकैकलक्षणापायात्पञ्च हेत्वाभासा इत्युक्तम् अस्य च हेतोरुभे लक्षणे '
न स्तः, यथा ह्यस्य सपक्षे वृत्तिर्नास्ति तथा विपक्षादपि व्यावृत्तिः, यदि हि
सपक्षादिव विपक्षादपि व्यावृत्त एव भवेद् गन्धवत्त्ववदसाधारण एव स्यादि-
ति” सत्यमेवं किन्तु विपक्षाद्व्यावृत्तिर्व्यभिचारं प्रति प्रयोजकतां प्रतिपद्यते
प्रतिपक्षगामी हि व्यभिचरित इत्युच्यते, सपक्षे वृत्तिविच्छेदस्तु विपर्य-
यसिद्धौ प्रयोजक इति सत्यामपि विपक्षावृत्तौ सपक्षवृत्तिविच्छेदनिबन्धनमे-
वास्य विरुद्धत्वमुच्यते विपक्षादप्रच्युतः स्वसाध्यमेव न साधयेत्सपक्षे त्वव-
र्तमानोऽसौ विपरीतमपि साधयतीति तल्लक्षणापायकृतमेवास्य विरुद्धत्वमाच-
क्षाते इत्यलं सूक्ष्मेक्षिकया, तदित्थमुक्तं .सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति ।
अन्ये त्वन्यथा व्याचक्षते–किल साध्यधर्मविपर्ययसाधकवदपसिद्धान्तप्रति-

१८४ न्यायमञ्जरी

ज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः संगृहीतुं युक्ता एव, ते चैवं व्याख्या-
यमाने न संगृहीताः स्युः, क्त्वाप्रत्ययसिद्धान्तशब्दौ च न समन्वितौ स्याताम्,
तस्मादभ्युपगतसिद्धान्तविरोधी विरुद्ध इति सूत्रार्थे वर्णिते अभ्युपगतं सिद्धान्तं
यो विरुणद्धि स विरुद्धः, तत्कालोपात्तप्रतिज्ञाविषयीकृतं वाऽवसरान्तरव्य-
वस्थापितं वेत्येतत्संग्रहश्च कृतो भविष्यति, सिद्धान्तशब्दश्च न सङ्कोचितो भवि-
ष्यति, क्त्वाप्रत्ययस्त्वसङ्गतत्वादुपेक्ष्यते एव भिन्नकर्तृकत्वादानन्तर्यस्य गम्यमा-
नस्य चानुपयुक्तत्वादिति, तथा च भाष्यकारेण पूर्वाभ्युपगतसिद्धान्तानुगुण-
मेवोदाहरणमुक्तं-सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधादपेतोऽप्यस्ति
विनाशप्रतिषेधादिति, अत्र हि प्रतिषिद्धनित्यधर्मत्वादित्ययं हेतुर्व्यक्तेरपेतोऽपि
विकार

हेत्वाभासप्रकरणम् ।
१९६


शामनतिवर्तमानत्वात्प्रकरणसमो भवति-नित्यः शब्दः अनित्यधर्मानुपलब्धेरा-
काशवत्, अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदिति, सोऽयं सप्रतिपक्षो
हेतुरिह लक्ष्यो विद्यते, न च द्व्यात्मकानि वस्तूनि, प्रमातारस्तु रूपमेषां निय-
तमवधारयितुमशक्नुवन्त एव भ्राम्यन्तीति, तथा ह्येको विशेषाानुपलब्धेः पक्ष-
धर्मान्वयव्यतिरेकावपश्यंस्तत्तस्थेति साध्यं बुध्येत तथैव च परं प्रत्यायये-
दिति, इतरोऽपि द्वितीयविशषानुपलब्धेः साधनतां बुद्ध्वा प्रत्यवस्थां च करेा-
तीति सप्रतिपक्ष एवैष प्रकरणसमो हेत्वाभासः, तथा च न तावदयं सम्यग्
हेतुः प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थानसामर्थ्यशून्यत्वात् , हेत्वाभासो ऽपि च
भवन्न तावदसिद्धः साध्ये धर्मिणि शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः स-
द्भावात्, नापि विरुद्धः साध्यविपर्ययसाधननिमित्तभूतः सपक्षवृत्तवियोगानुप-
पत्तेः, नाप्यनैकान्तिकः पक्षद्वयसाधारणत्वानवधारणात् , संशयजनकत्वं तु न
तस्य लक्षणमित्युक्तमेव ।
“नन्वेकस्मिन्पक्षे नियत ऐकान्तिकस्तद्विपर्ययादनैकान्तिकः स चायं नि-
त्यानित्यपक्षयोरन्यतरत्रापि न नियत इत्यनैकान्तिक एव स्यात् , अपि चा-
हुः—अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैरिति, (श्लो० वा० २ सू ५५
श्लो०)तत्र यथेन्द्रियादेरबोधकत्वाद्वा संशयविपर्ययस्वभावावभाससमुत्पादनादौ-
रात्म्याद्वा भवत्यप्रामाण्यव्यवहार एवमनुमानमपि तथैव वर्त्मना प्रमाणाभास-
तामवलम्बते, तत्रासिद्धस्तावदलभमानो धर्मिणि वृत्तिं तत्र साध्यधर्मधियमाधा-
तुमनधिकृत इत्यज्ञानफलत्वादप्रामाण्यमनुभवति, विरुद्धस्तु विपर्ययसाधन
इति भवन्त एव प्रतिपन्नाः, संशयजनकत्वेनैकान्तिको भवितुमर्हति न तु
पारिभाषिकविपक्षवृत्तित्वमेव तस्य लक्षणमुचितमयमपि चान्यतरपक्षनियम-
विरहिततनुरिति किमिति न भवति विमर्शमुपदधदनैकान्तिक इति त्रय एव
हेत्वाभासाः”
उच्यते–न फलनियमेन लक्षणनियमः कतु शक्यते, यद्यपि द्विविधं त्रिविधं
वा भवत्यप्रमाणफलं तथापि न त्रिलक्षणके लिङ्गेऽविनाभावः परिसमाप्येत-
ऽपि तु पञ्चलक्षणक इति प्रसाधितोऽयमर्थः, तद्वैकल्याच्च हेत्वाभासानामपि
पञ्चत्वमेव, फलं तु द्विविधमस्तु त्रिविधं वा न ह्यप्रतिपत्तिजनकं किंचिल्लिङ्ग-
मुपलभामहे, न चाप्रतिपत्तिः प्रयत्नजन्या प्रागभावस्य निसर्गसिद्धत्वादित्यलम-
वान्तरचिन्तनेन, न फलापेक्षो लिङ्गलक्षणनियमः तत्र यथा पक्षधर्मरहितत्वम-
सिद्धलक्षणमेष च हेतुः पक्षधर्मान्वयव्यतिरेकाणामन्यतमेनापि रूपेण न विकल
इति कथमनेकान्तिकतां प्रतिपत्स्यते, व्यस्ततायां हि सर्वाण्येतानि सन्ति लक्ष-
णानि समस्तं वस्तु नोपन्यस्तमेव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति ।
“ननु यद्यस्य पक्षधर्मान्वयव्यतिरेका निरपवादाः सन्ति कथं तर्हि न हेतु-

Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari:

१६० न्यायमञ्जर्याम्
रेवायम्, इतरस्यापि पक्षधर्मान्वयव्यतिरेकाणां निरपवादानां सम्भवात्सोऽपि
न कथं हेतुरस्त्विति चेद्” न वस्तुतो त्रैरूप्यानुपपत्तेः, एवमिमौ हेतू पक्षद्वये-
ऽपि बुद्धि जनयन्तौ संशयमावहतौ नानैकान्तिकवद्विपक्षावृत्तित्वेनेति हेत्वाभा-
सान्तरत्वम्, एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि
क्रियते तदपि भवतु न पुनरनैकान्तिकप्रभेदतामवलम्बते तल्लक्षणासंस्पर्शादुभ-
यप्रतीतिजनको हीमौ हेतू भवत। नोभयपक्षावृत्तीति, नाप्ययं कालात्ययापदिष्टः
प्रत्यक्षागमायोरन्यतरस्यापि बाधकस्यातुलम्भात्, अनुमानं तु नानुमानस्य
बाधकं भवितुं क्षममित्युक्तम्, न चेतरेतरबाधापेक्षयाऽनयोरसिद्धत्वमभिधेयम्,
संशयजनकत्वेऽनुभवसिद्धे सति विशेषानुपलब्धेरप्रत्याख्येयत्वात् ।
“ननु निश्चितस्य साधनप्रयोगाधिकारात्कथं चिन्तावान्साधनं प्रयुञ्जीत, नि-
श्चितत्वं च तद्धर्मानुपलब्ध्योः परस्परमसिद्धत्वं स्थितमेव” नैतदेवम्, अन्य-
तरधर्मानुपलब्धेरेव पक्षधर्मान्वयव्यतिरेकान्पश्यन्नसौ निश्चिततां प्राप्तो न द्वि-
तीयधर्मानुपलब्धेरसिद्धतां बुध्यमानः, अत एवायं भ्रान्तिमूलहेत्वाभासः द्विती-
यधर्मानुपलब्धिसिद्धत्वनिश्चये तु सम्यग् हेतुरेव स्यात्, तदसिद्धत्वानवधारणे-
ऽप्यसौ स्वस्य हेतोस्त्रैरूप्यदर्शनान्निश्चितमतिर्भूत्वा साधनं प्रयुञ्जान इतरेण
तथैव निश्चितमतिना प्रतिप्रयोगे कृते तस्यापि त्रैरूप्यमुपलभमानः संशयमधि-
गच्छतीत्यलं प्रसङ्गेन, तदेवमसिद्धादिलक्षणवैपरीत्यात्प्रतीत्यनुगुणः प्रकरण-
समो नामाऽसिद्धो हेत्वाभासः ।
अपरे पुनरुदाहरणान्तरमस्य व्याहरन्ति-नित्यः शब्दः पक्षसपक्षयोरन्य-
तरत्वाद् आकाशवत्, अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात् घटवदिति ।
“ननु पक्षसपक्षयोरन्यतरः पक्षो वा स्यात्सपक्षो वा स्यान्न तृतीय। न हि
मित्रावरुणयोरन्यतरः सोमो भवितुमर्हति तत्र पक्षेऽन्यतरशब्दवाच्येऽनन्वयो
न हि शब्दाख्यः पक्षो धर्मी धर्म्यन्तरे वर्तते, सपक्षे त्वन्यतराभिधेये पक्षधर्मता
नास्ति न ह्याकाशादिः सपक्षः शब्दाख्ये धर्मिणि वर्तते”
उच्यते-न पक्षत्वादिति हेतुः प्रयुक्तः सपक्षत्वादिति वा येनैवं स्यात् किं
तु पक्षसपक्षयोरन्यतरत्वादिति, ततश्च द्वयोरपि किमपि साधारणरूपं न हि
वरुणेन यष्टव्य इति याहशी बुद्धिस्तादृश्येव मित्रावरुणयोरन्यतरो यष्टव्य इति,
विशेषनिष्ठतायां तु बलादापाद्यमानायां सकलानुमानोच्छेदः, न चान्यतरत्वं
शब्दमात्रारोपितरूपमवास्तवमिति वक्तुमुचितमर्थासंस्पर्शितायाः प्रतिक्षिप्त-
त्वात् ।
“अन्यतरत्वादित्यसिद्धो; हेतुरिति चेत्किल पक्ष एवायं न पक्षसपक्षयोरन्य-
तर” इति ।
तदयुक्तम्, यत एवायं पक्षस्तत एव पक्षसपक्षयोरन्यतरो न ह्यपक्षः पक्षस-