न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 560, कुल 654 में से
संदर्भ में पढ़ेंपदार्था एवं भवत्वैवं मा भूतेति, यथा च देशान्तरे स्पर्धमान एव स्थाणुपक्ष
आस्ते न तथा वाहकेलिभूमावपि तु शिथिलोभवति संभवत्प्रमादत्वाच्च न स-
र्वात्मना निवर्तते ।
“ननु यदि न निवर्त्तते तर्हि स्पर्धतां मा वा स्पर्धिष्ट स्थितस्तावत्स्थाणुपक्ष
इति संशय एवायमिति”
मैवम् स्थाणुपक्षः सर्वात्मना (न) निवर्तते नाप्यास्ते एवमेवायं त्रिशङ्कुरि-
वालम्बमानः प्रत्ययान्तरनिवृत्तये प्रभवतीति तथा प्रत्ययानुभवादेव परिकल्प्यते,
वाहकेलिप्रदेशदर्शने हि यथा पुरुषविशेषाः स्मरणपथमवतरन्ति न तथा स्थाणु-
विशेषाः उभयविशेषस्मरणजन्मा च संशय इति सोऽयं वाहकेलिप्रदेशविशेषः
शिथिलयति स्थाणुपक्षं न सर्वात्मनोच्छिनत्तीति तद्दर्शनात्कृतकतत्कारणप्रत्यय
इति न तद्धृद्यंगमं तेन क्रमेण निर्णय एवासौ तत्कारणतथात्वं न तर्क इति ।
अथ वा कार्योदाहरणत्वादस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययो द्रष्ट-
व्यः स उदाहरणं भविष्यति ।
“ऊह इति पर्यायाभिधाने किं प्रयोजनं” लक्षणप्रतिपादनमेव, तदेव हि
तर्कस्य लक्षणं यदूहरूपत्वं इतरस्तु सूत्रे कारणविशेषाय फलनिर्देशः, कार-
णोपपत्तित इति कारणनिर्देशः, अविज्ञाततत्त्वेऽर्थे इति विषयनिर्देशः, तत्त्व-
ज्ञानार्थ इति फलनिर्देशः ।
अपि च तर्कशब्दं के चिदनुमाने प्रयुञ्जते, यथा स्मृतिकाराः पठन्ति—
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ।। इति ।।
तदिहापि तर्कोऽनुमानं मा विज्ञायीत्यूहग्रहणम् , ऊहोऽत्र तर्क उच्यते नानु-
मानं तत्त्वज्ञानार्थताऽप्यस्य प्रमाणानुग्राहकत्वेन न साक्षात्, तथैव चार्थं साध-
यितुमेष वादे प्रयुज्यते हृदयशुद्धिप्रकाशनाथम् ।
कापिलास्तु बुद्धिधर्ममूहमाहुः, स तत्सिद्धान्तप्रसिद्धसत्त्वरजस्तमोरूपप्र-
कृतिप्रभवभुवनसर्गादिव्यवहारनिराकरणवर्त्मना पूर्वमेव निरस्तः ।
जैमिनीयास्तु ब्रुवते–युक्त्या प्रयोगनिरूपणमूह इति, इह हि किंचिदु-
पदिष्टदृष्टादृष्टस्वभावसकलेतिकर्त्तव्यताकलापं कर्म भवति यथाऽऽग्नेयोऽष्टा-
कपाल इति दर्शपूर्णमासकाण्डे पठितम् , क चित्पुनः प्रधानकर्ममात्रमुप-
दिश्यते इतिकर्तव्यता तु काचन नाम्नायते, यथा—'सौर्यं चरुं निर्व-
पेद् ब्रह्मवर्चसकाम' इति, तत्र विचार्यते–किमितिकर्तव्यताविरहितयथाश्रुतप्र-
धानमात्रसंपादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते उत तदपि सेतिकर्तव्यताकं
प्रधानमनुष्ठेयमिति, तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते निरङ्गस्य
प्रधानस्याननुष्ठेयत्वाद्विध्यन्ताधिकरणसिद्धान्तन्यायेन प्राकृतवद्वैकृतं कर्म कर्तव्य-