सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पक्षयोरन्यतरः स्यान्न हवरुणो मित्रावरुणयोरन्यतर इत्युक्तमेव, पक्षो
ऽपि च भवन्नेष न पक्षत्वादित्यनेन रूपेण हेतूक्रियते किन्त्वन्यतरत्वादि-
तीत्थं च हेतुकरणे नैष दोष इति ।
सत्प्रतिपक्षस्योदाहरणान्तरम् ।
अपरमुदाहरणं सन्त्सर्वज्ञ इतरद्विपरीतविनिर्मुक्तत्वाद् घटवद् असन्त्स-
र्वज्ञ इतरद्विपरीतविनिर्मुक्तत्वात्खरविषाणवदित्यत्राप्याक्षेपप्रतिसमाधानप्रकारः
पूर्ववदनुसरणीयो धर्म्यसिद्धता च यत्नतः परिचिन्तनीया ।
सत्प्रतिपक्षोदाहरणान्तरदूषणम् ।
एवं जातीयकं तूदाहरणं नानुमोदन्ते मतिमन्तः यत्र हि हेतुना स्वय-
मर्थं सम्यगसम्यग्वा ऽनुमाय प्रमाता परप्रत्यायनाय तं हेतुं प्रयुञ्जीत स
प्रयुज्यमानो वस्तुबलप्रवृत्ततया हेतुर्भवति हेत्वाभासीभवति वा तथा आ-
रोहपरिणाहवति पुरो ऽवस्थिते धर्मिणि स्थाणुगतविशेषानुपलम्भादेकस्य
पुरुष इति भवति प्रतीतिरिरतरस्य तु पुरुषगतविशेषानुपलब्धेः स्थाणुरिति भ-
वति मतिः , एवं यदा ऽसावेकः पुरुषत्वसिद्धये परं प्रति स्थाणुधर्माग्रहणं हे-
तुत्वेन ब्रूयादितरो ऽपि पुरुषधर्माग्रहणेन स्थाणुतां प्रतिष्ठापयन्प्रत्यवतिष्ठते तदा
स्वप्रतीत्यनुसारणपुरःसरसाधनाभिधानाद् भ्रान्तिसंभवाच्च युक्तं तथाविधोदाहर-
णकीर्त्तनम् , एवं नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवत् अनित्यः शब्दो नि-
त्यधर्मानुपलब्धेर्घटवदित्यपि द्रष्टव्यम् , यस्तु न वस्तुमूलः केवलोत्प्रेक्षामात्रावल-
म्बनः स्वप्रतीतिषु न दृष्टपूर्वः किं तदुपन्‍यासेन, एतेन सद्वितीयप्रयोगा अपि
प्रत्युक्ताः , यथा क चित्साधनप्रयोगे कृते सति तत्रैव परः प्रत्यवतिष्ठते यथा
प्रस्तुतसाध्यधर्माधिकरणात्वशून्यधर्मिघटान्यतरसद्वितीयो घटः अनुत्पन्न-
त्वात्कुड्यवदिति , यथा प्रस्तुतेन सिषाधयिषितेन धर्मेण शून्यो यः प्रकृतो
धर्मो घटश्च तयोरन्यतरेण न सद्वितीयो ऽयं घटरूपो धर्मी तत्र हेतुरनुत्पन्न-
त्वं तस्य कुड्यादौ व्याप्तिरिति , सत्यं वदत यद्यस्ति लोके कचिदीदृशः प्रती-
तिक्रमः घटश्च धर्मो धर्मिघटयोरन्यतरेण सद्वितीय इत्यत्रान्यतरशब्दः सा-
मान्यवचनो ऽपि धर्मिणि व्याख्येयो न हि घट एव घटेन सद्वितीयो भवितुम-
र्हतीत्यलमलीककल्पनाकौशलप्रख्यापनेन ।
सम्यग्वा यदि वा ऽन्यथा विदधते ये हेतवः संविदं
दृष्टाः स्वात्मनि ते प्रयोक्तुमुचिताः कामं परज्ञप्तये ।
ये तु स्वप्रतिपत्तिमेव न तथा कर्तुं क्षमाः कल्पना-
सामर्थ्यस्थितवस्तुशून्यघटनाः किं तत्प्रयोगे फलम् ॥
ये तु सूक्ष्मोत्प्रेक्षणक्षमप्रज्ञातिशयाभिधानदुर्विदग्धास्तथाविधानपि प्रयुञ्जते।
२१

१६२ न्यायमञ्जर्याम्
कृतकवचनाचातुर्यं तैः प्रदर्शितमात्मनो
भवति न पुनः शुद्धिः का चित्प्रमेयदिशः कृता ।
क चिदवसरे त्वेवंप्रायाः परभ्रमकारिणः
किल सफलतां दध्युर्जल्पे यथा कथितं पुरा ॥
तत्र त्वेतानकथयति परः प्राज्ञमानी यदा वा
तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः ।
द्राघीयस्या तदलमनया तार्किकंमन्यगोष्ठ्या
हेत्वाभासः प्रकरणसमस्तेष्विह निर्णीत एव ॥
असिद्धलक्षणम् ।
साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥
गौ. सू. अ. १ आ. २ सू ८ ।
अन्यतरवादिप्रसिद्धमन्यतरं प्रति यत्साधयितुमुपादीयते तत्साध्यम् तद्-
विशिष्टो हेतुः साध्यसमः, कथं साध्येन तुल्यता हेतोरिति चेदाह साध्यत्वा-
दिति, यथा साध्यमसिद्धत्वात्साध्यं तथा तत्सिद्धयर्थमुपात्तो हेतुरपि यो ऽसि-
द्धत्वात्साध्यः स साध्याविशिष्टत्वात्साध्यसम इत्युच्यते,
एतच्चान्यतरासिद्धस्यैव लक्षणम् यथा मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वाद्
घटवदिति, न चाक्षुषत्वादेरुभयासिद्धस्य, न हि तस्य साध्यत्वं संभवतीत्यर्थः,
सकलासिद्धभेदसंग्रहाय साध्यत्वादित्येतत्पदसहितं साध्याविशिष्ट इत्येवासि-
द्धलक्षणमुपवर्णनीयम् , साध्यस्य च रूपद्वयस्यासिद्धत्वं साध्यत्वं च तत्रासिद्ध-
त्वमेव तद्विशिष्टत्वकारणमिहाश्रीयते सर्वांसिद्धभेदसाधारणं न तु साध्य-
त्वमेवान्यतरासिद्धैकलग्नमिति, एवं चासिद्धत्वमेवासिद्धस्य लक्षणमुक्तं भव-
ति, पक्षधर्मत्वं यस्य नास्ति साध्ये धर्मिणि यो न वर्तते हेतुः सोऽसिद्ध इति,
तस्य तु भूयांसो भेदा भवन्ति--हेतुस्वरूपे तावदन्यतरस्य वादिनो
द्वयोर्वा अज्ञानं संदेहो विपर्यय इति, तथा तदाश्रये अपि धर्मिण्येकस्य वा द्व-
योर्वा तथैवाज्ञानसंदेहविपर्यया इति, भूयसि च पक्षीकृते ऽर्थे तदेकदेशे क चि-
द्वृत्तिः तदितरत्रावृत्तिरिति, एकदेशवृत्तावपि द्वयोरेकस्य वा तथैवाज्ञानसंशय-
विपर्यया इति, एवं प्रकारभेदोदाहरणवर्णनमल्पप्रयोजनमिति न प्रस्तूयते,
“अन्यतरासिद्धेन विवदन्ते प्रमाणस्यापक्षपातित्वाद्यदि तावत्कृतकत्वं
शब्दे प्रमाणतो निर्णीतं तर्हि मीमांसकस्यापि तार्किकस्येव तत्सिद्धमेव,
अथ तत्र कृतकत्वनिश्चयनिपुणं नास्त्येव प्रमाणं तदा तार्किकोऽपि तूष्णी-
मास्तां द्वयोरप्यसौ चाक्षुषत्वादिवन्न सिद्धयेद् हेतुः , वाङ्मात्रेण त्वसिद्धिक-

थनमसांप्रतमतिप्रसङ्गादेव”
सत्यमेवं न सर्वथाऽन्यतरासिद्धस्य हेत्वाभासत्वमभिदध्महे किं तु कं चि-
त्कालमिति यदैकेन वादिना हेतौ प्रयुक्ते द्वितीयो वदति सम्प्रति न सिद्ध एष इति
तदा हेतोः प्रयोगाद्वादिना तत्साधनमभिधेयमनभिधानात्स पराजीयते साधने
तु तेनोक्ते तदसिद्धतोद्भावनवादी पराजीयते इति यावत्तत्सिद्धौ नोपन्यस्तं साध-
नं तावदेवासावन्यतरसिद्धश्चानन्तरं तु सम्यग् हेतुरुभयासिद्धो वा भविष्यतीति,
व्यधिकरणासिद्धस्तु यथोक्तभेदान्तर्गत एव, यथा नित्यः शब्दः काकस्य
कार्ष्ण्यादिति,
क्व चित्पुनश्च व्यधिकरणासिद्धोऽपि भवति गमक इत्येके, तद्यथा बह-
लबहलः प्रचलजलधरश्यामलवपुरम्बरतलमाक्रामन्धूमप्रबन्धः क्षोणीभृक-
न्दरादिविशेषधर्मत्वानवधारणेऽपि तत्र गमयितुमलमनलमिति,

माणावो निरवयवाः सिध्यन्ति, सावयवत्वे तदवयवाः परमाणवो भवेयुर्न ते,
तेषामप्यवयवान्तरपरिकल्पनायामप्यवयवानन्त्याविशेषात्सर्षपस्य मेरोश्च सा-
म्यमापद्यते, न च तदस्ति, तदेवं निरवयवेषु परमाणुषु निसर्गसिद्धमनाश्रि-
तत्वमतआश्रयविनाशावयवविभागादिविनाशकारणाभावान्स्वाभाविकविनाशवा-
दिनिराकरणाच्च कथं परमाणूनां नित्यतां स्पृशेत् , मूर्तत्वं तु वस्तुधर्मत्वाद्भवदपि
प्रमेयत्वादिवन्न प्रयोजकम् ,
इयांस्तु विशेषः-प्रमेयत्वमुभयपक्षस्पर्शादनैकान्तिकं भवदप्रयोजकम् इदं
तु मूर्तत्वमनित्यव्यतिरिक्तवस्त्वन्तरपरिचयविरहितमपि न प्रयोजकमिति ।
“नन्विदमपि प्रमेयत्ववद्विपक्षवृत्त्येव मूर्तत्वम्, क्व विपक्षे वर्तते ? परमाणु-
ष्वेव, ननु तेषां पक्षीकृतत्वात्कथं विपक्षता ? न पुरुषेच्छानुरोधेन वस्तु विपरि-
वर्तते विपक्षो हि नाम स उच्यते यः सिषाधयिषितधर्माध्यासिततया दृढप्रमाण-
सिद्धः परमाणवश्चैतेऽनन्तरनिर्दिष्टनीतिक्रमेण निर्णीतनित्यत्वाः परमार्थतो विपक्षा
एवानित्यत्ववादिनः, स तु रागद्वेषकलुषितहृदयतया यदि तान्पक्षतया अब्रवीति
ब्रवीतु नाम न तु सुस्पष्टासिद्धनित्यतानां परमाणूनां विपक्षभावो निवर्तते इति”
तदिदमनुपपन्नम् अनेन क्रमेण धूमानुमानस्याप्यनैकान्तिकत्वप्रसङ्गात् ,
धूमो हि महीभृति हुतवहविरहितवपुषि विपक्षे वर्तत एव, “न तत्र चित्रभानो-
रभावो निश्चित इति चेत्" किमु खलु सद्भावोऽस्य तत्र गृहीतः , तथा सति वा
कृतमनुमानेन,
“अथ सत्त्वमसत्त्वं वा नावधारितमेव धराधरे धूमकेतोः" तर्हि संदिग्धा
तत्र विपक्षता, निश्चितविपक्षवृत्तिवत् संशयितविपक्षवृत्तिरपि नानैकान्तिकताम-
तिवर्तत इति सर्वानुमानानामेव निवापाञ्जलिर्दत्तः स्यात् , न च वादिहृदय
परिकल्पनोपारूढस्थितेरपि पक्षो नाम नास्ति तदभावे किमपेक्षः सपक्षविपक्षव्य-
वहारः, बुद्ध्यारूढत्वपक्षेऽपि न सपक्षविपक्षयोः पक्षत्वं न च वस्तूनामुभया-
त्मकता भवेत् , किं तु कं चित्कालमन्यतरासिद्धबुद्धिमतिपथापतितस्य वस्तुनः
पक्षत्वमुपेयते, निर्णयजन्मना तु विमतिविरतौ नूनमन्यतरवर्गपतितो ऽसौ
भविष्यतीति सर्वथा न तस्यां दशायां तेनानैकान्तिकत्वोद्भावनं युक्तम् ,
“नन्वेनेन पथा पृथक्कृते सपक्षविपक्षाभ्यां पक्षे न तत्रान्वयव्यतिरेकयोरन्यत-
रस्र्यापि ग्रहणं भवेत् , सपक्षे ह्यन्वयो गृह्यते विपक्षे च व्यतिरेकः, एष तु ताभ्याम-
र्थान्तरमिति तत्रागृहीतान्वयव्यतिरेकात्मकनियमो हेतुः षण्ढ इव न पुत्रजन्मनि
समर्थ एव साध्यसाधने भवेत्” अलमनया डिम्भबिभीषिकया न हि सकलस-
पक्षविपक्षसाक्षात्कारणकेकोह्लासपुरःसरं व्याप्तिग्रहणमिति पूर्वमेव निर्णीतोऽय-
मर्थः, न च तद्धर्ममिति व्याप्तिग्रहणं भवति येन षण्ढसुतसाम्यचोदनावकाशः
स्यात् , सामान्येन हि व्याप्तिर्गृह्यमाणा तत्रापि गृहीता भवत्येव, येनापि च

[Header] हेत्वाभासप्रकरणम् । १४५

कालान्तरे सपक्षविपक्षान्यतरवर्गानुप्रवेशिना भवितव्यमेव, विमत्यवस्था यां तु
पृथगेव ताभ्यामसाविति न तत्र वर्त्तमानो हेतुरनैकान्तिकीभवति, एतेनेश्वरा-
द्यनुमानानामप्यनैकान्तिकत्वमपाकृतं वेदितव्यम् , तस्मान्नानेकान्तिकत्वेनाग-
मकं मूर्त्तत्वमपि त्वन्यथासिद्धत्वेनैवेति ।
“नन्वेवमपि परमाणुप्रसाधनानुमानमहिमहत्तशक्तितया मूर्त्तत्वमनित्यत्व-
सिद्धावक्षमं जातमिति ततश्च कालात्ययापदिष्टत्वान्नान्यथासिद्धत्वमधिगच्छेत्”
नैतदेवम् कालात्ययापदिष्टो हि प्रत्यक्षागमापहृतविषय उच्यते अनुष्णः
कृष्णवर्त्मा मदिरा द्विजैः पातव्येत्यादौ दर्शितो यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं
न्यायाभासः स इति, न च परमाणुषु परमाणुतयैव सततपरोक्षेषु प्रत्यक्षम्-
नित्यत्वविपर्ययग्राहि प्रवर्त्तितुं शक्तमागमस्तु नास्त्येवेति कुतः कालात्यया-
पदिष्टता ।
“ननु किमिदमवनिपतिवचनमुत वैदिकी चोदना यत्प्रत्यक्षागमयोरेव बा-
धकत्वमनुमानं प्रति नानुमानान्तरस्येति, परमाणुप्रसाधनानुमानं हि दृढमदृ-
ढस्य तदनित्यतानुमानस्य मूर्त्तत्वादेर्यदि बाधकं स्यात्को दोषः स्यादिति—
अथ मन्यसे—नियम एवैष प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षमेव बलीय इति
तदेवानुमानस्य बाधकमुचितं नानुमानान्तरमिति—
• तदसत् अलातचक्रादौ प्रत्यक्षमप्यनुमानेनानन्यथासिद्धेन बाध्यत एव ।
ननु भ्रमणविरतौ परिमितपरिमाणोल्मुकग्राहि प्रत्यक्षमेव तत्र प्रत्यक्षस्य
बाधकं नानुमानमिति,
मैवम् अनवरतपरिभ्रमणसमुद्भूतचक्रावभाससमय एवानुमानेन तद्भ्रा-
न्ततानिश्चयात् ,
पूर्वप्रवृत्तमचक्राकारतदलातपरिच्छेदि प्रत्यक्षं बाधकमिति चेन्न,
पूर्वप्रवृत्तत्वेनैवातिक्रान्तत्वात् , तस्मादनुमानमेव चक्रज्ञानबाधकम् एवं चा-
नन्यथासिद्धमनुमानमपि प्रत्यक्षस्य बाधकं भवति, यथानन्यथासिद्धतया मूल-
स्तम्भभूतमखिलानुमानप्रतिष्ठायतनं प्रत्यक्षमपि बाधते तदनुमानस्य तपस्विनः
कथं न बाधकम् , अतश्च प्रत्यक्षागमग्रहणस्योपलक्षणार्थत्वादनुमानं बाधित-
मपि कालात्ययापदिष्टमेवेति”
तदेतदसमीचीनम् अनुमानादेर्बाध्यबाधकभावानुपपत्तेः, सर्वत्र खलु
प्रमाणाभासरूपं बाध्यते न तु प्रमाणं नाम शक्यते बाधितुमलातचक्रा-
दावपि प्रत्यक्षाभासस्य बाधकमनुमानं न प्रत्यक्षस्य एवमत्राप्यनुमानाभासस्य
बाध्यता नानुमानस्य , तदिदानीमनुमानाभासत्वमस्य किंकृतमिति चिन्त्य-
ताम् , “स्वलक्षणवैधुर्यादिति चेत्” किमनुमानान्तरेण बाधकेन, तद्बाध्यतया
तु तदाभासत्वकथनमितरस्यापि तादृशमेव, “परमाणुषु प्रसाधनानुमानमनन्य-

थासिद्धमिदं तु मूर्तत्वमन्यथासिद्धमिति चेत्" आगतोऽसि मदीयं पन्थानमन्य-
थासिद्धत्वादेव च तदप्रामाण्ये सिद्धे किं तद्बाधया, "अन्यथासिद्धत्वमेव क-
थमिति चेत्" न घटादौ मूर्तत्वप्रयुक्तमनित्यत्वमपि तु कार्यत्वप्रयुक्तं कार्यस्य
कारणविभागाद्वा तद्विनाशाद्वा विनाशोपलब्धेः कार्यत्वमेवानित्यत्वप्रयोजकमुक्तं
न मूर्तत्वम्, मूर्तत्वे तु नित्यताक्षेपणि परमाणुतैव हीयेतेत्युक्तम्, तस्मान्न मूर्त-
त्वमनित्यतायाः कारकं ज्ञापकं वेति भवत्यन्यथासिद्धम्,
"भवत्वेवम् असिद्धवर्गे तु कथमेष हेतुर्गण्यते" साध्यधर्मप्रयुक्ता धर्मिणि
वृत्तिरस्य नास्तीति चेद्, यद्येवं पञ्चानामपि तत्प्रयुक्तवृत्तिरहितत्वादसिद्ध एवैको
हेत्वाभासः स्यात् ।
... अथ सत्यपि प्रयोजकत्वे विपक्षवृत्त्याद्यवान्तररूपभेदनिबन्धनान्नैकान्तिक-
त्वादिव्यपदेशपञ्चकभाज इमे हेत्वाभासा इष्यन्ते, हन्त तर्हि प्रकृतो ऽयं हेतुर्मू-
र्तत्वादिति किमनैकान्तिक उच्यतामथ कालात्ययापदिष्ट आहो स्विद्विरुद्ध उत
प्रकरणसम इति, नैषामन्यतमो ऽपि वक्तुं शक्यते एतल्लक्षणानुपपत्तेरिति चेत्,
काममसिद्धो ऽपि मा वादि

हेत्वाभासप्रकरणम् । १६७
हेत्वाभासकुटुम्बकस्य तदिदं सर्वस्य साधारणं
रूपं यद्यपि लक्षणान्तरकृतो भेदस्तथा नान्यतः ।
सामान्यं तु विशेषरूपरहितं नास्ति प्रमाणं यथा
मा भूत्तन्न तथेति नास्य विषयश्चोद्यस्य वस्तुस्थितिः ॥
अथ बाधितलक्षणम् ।
कालात्ययापदिष्टः कालातीतः ॥ गौ. सू. अ. १ आ. २ सू. ९ ।
यथाप्राप्तं हेतुप्रयोगकालमतीत्य यो हेतुरपदिश्यते स कालात्ययापदिष्टः
कालातीत इत्युच्यते ।
तत्र के चिदाचक्षते- "प्रतिज्ञानन्तरं हि हेतुः प्रयोक्तुं युक्तः तत्र यः प्रति-
ज्ञायाः पूर्वमेव दृष्टान्तवचनादेरूर्ध्वं वा प्रयुज्यते स कालात्ययापदिष्ट" इति ।
तदनुपपन्नम्-
अक्षतप्रतिबन्धस्य साध्यावगतिकारिणः ।
क्रमातिक्रममात्रेण न हेत्वाभासता भवेत् ॥
कियांश्चैष दोषः पदान्तरव्यवहितोच्चारणं नाम, व्यवहितमपि येन सह
समुचितसमयमन्वेतुमधिकृतमितरदतिनिकटपठितमपि पराणुद्य दवीयसा ऽपि
तेनैव संबन्धमनुभवति यथा-
अयसा पथि गच्छन्तीमौषधीं दीर्घलोचनाम् ।
दृष्टवानसि केदारं यो लुनासि मम प्रियाम् ॥ इति ।
अप्राप्तकालमेव तत्कथितं पृथगेव निग्रहस्थानम्, तच्च पुनरुच्यमानं न
कञ्चन स्वार्थमावहति तस्मादपव्याख्यानमेतत् ।
अपर आह- "सविशेषणस्य हेतोः प्रयुज्यमानस्य यस्य विशेषणं कार्यकाल
मत्येति न तत्पर्यन्तमवतिष्ठते स कालात्ययापदिष्ट इति, यथा कालान्तरस्थायी
शब्दः संयोगव्यङ्ग्यत्वाद्रूपवदिति, अत्र न व्यङ्ग्यत्वमात्रं हेतुत्वेन विवक्षित-
मपि तु सविशेषणं संयोगव्यङ्ग्यत्वं स चायं संयोगो व्यञ्जके दृष्टान्तधर्मिणि रूपे,
तदवगतिपर्यन्तस्थितिरुपलभ्यते दीपादिसंयोगः, साध्यधर्मिणि तु शब्दे न तद्व-
वस्थानमिति दूरतो हि दारुपरशुयोगविच्छिन्ने छेत्ता पुनरुद्यम्यमाने परश्वधे
श्रूयते शब्द इति तदुपलब्धिकाले तदत्ययात्कालात्ययापदिष्टो ऽयं हेतुरिति"
एतदपि न संगतमसिद्धत्वेनास्य हेत्वाभासान्तरत्वानुपपत्तेः ।
तस्मादयमर्थः हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमय एव
तमतीत्य प्रयुज्यमानः प्रत्यक्षागमबाधिते विषये वर्तमानः कालात्ययापदिष्टो
भवति तस्योदाहरणं पूर्वमेव प्रदर्शितम् ।
उष्णो न तेजोऽवयवी कृतकत्वाद् घटादिवत् ।
ब्राह्मणेन सुरा पेया द्रवत्वात्क्षीरनीरवत् ॥

१६८ . न्यायमञ्जरीम्
यच्च किं चिदभिधेयमत्र तत्सर्वमुक्तमनुमानलक्षणे ।
अप्रयोजननिरूपणे पुनः किंचनोदितमतो विरम्यते ॥
हेत्वाभासास्त एते ऽवगतिनियमितानन्यसङ्कीर्णरूपा
निर्णीताः पञ्च ये ऽर्थे विदधति महतीं शुद्धिमभ्यस्यमानाः ।
पञ्चादौ वृत्तिभेदात्कलनगुरुतरक्लेशनिष्पद्यमाना
नेयत्ता त्वेतदीया क्व चन फलवती नाहता तेन तज्ज्ञाः ॥
इति (१३) हेत्वाभासपदार्थः समाप्तः ।
अथ छलनिरूपणम् ।
तत्त्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम्, तदङ्गभूतानि
च्छलजातिनिग्रहस्थानानि, यद्यपि च वादे केषां चिदभ्यनुज्ञानमस्ति तथापि
जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदौपयिकतया तत्स्वरूपनिरूपणं
युक्तमित्युद्देशक्रमेण च्छलस्य तावल्लक्षणमाह—
वचनविघातो ऽर्थविकल्पोपपत्त्या च्छलम् ॥
गौ. सू

उच्यते प्रमाणे तर्हि प्रत्यक्षादिविशेषनिरपेक्षं कथं प्रमाणसामान्यं नोदाह-
तम्, न च तत्सामान्यादन्यत्रापि तथाऽस्त्विति वक्तव्यम् , न हि चाक्षुषेण प-
श्वाशङ्कितुमर्हति(?) तस्मान्नैवं वक्तुं शक्यम्, यथा विरुद्धादिविशेषरूपरहित-
मप्रयोजकत्वं हेत्वाभासे सामान्यरूपं दृश्यते तथा प्रमाणेष्वपि प्रत्यक्षादिविशे-
षरूपरहितं तद्दृश्यतां यथा वा प्रमाणेषु तन्न दृश्यते तथा हेत्वाभासेष्वपि मा
दर्शीति वस्तुस्वभावानामनुयोगक्षेत्रताऽनुपपत्तेः,
अपि चाप्रयोजकत्वं सामान्यं विरुद्धादिविशेषेष्विव तद्रूपरहितेषु स्वविशेषे-
ष्वाप संभवद् दृश्यते, अत एव तदपि स्वविशेषनिष्ठमेवोदाहृतम् अनित्याः प-
रमाणवो मूर्तत्वादिति न त्वाकाशवदनवलम्बनमेव किंचिदप्रयोजकत्वसा-
मान्यमिति, तस्मात्सुष्ठूक्तं न सामान्यलक्षणे शक्यमुदाहर्तुमिति ।
एवं सामान्यलक्षणमभिधाय च्छलस्य विभागमाह—
तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ॥
गौ. सू. अ. १ आ. २ सू. ११ ।
निगद्व्याख्यातं सूत्रम् , विभागसामान्यलक्षणयोश्चोपदेशपौर्वापर्यंनियमो
नास्तीति पूर्वमेवोक्तम् ।
वाक्छललक्षणम् ।
अथ विभागक्रमेण विशेषलक्षणान्याह—
तत्राविशेषाभिहिते ऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥
गौ सू. अ. १ आ. २ सू. १२ ।
सम्भवद्विशेष्यविशेषणसाधारणार्थसमर्पणकौशलशालिनि श्लेषालंकारता-
वति शब्दे प्रयुक्ते सति वक्तुरभिप्रतमर्थमपह्नुत्य ततोऽर्थान्तरं परिकल्प्य
तन्निषेधवचनं वाचि निमित्तभूतायां छलं वाक्छलम् ,
नवकम्बलो ऽयं माणवक इति नवः कम्बलो ऽस्य नव कम्बला अस्येति
च विग्रहदृशा दृश्यमानविशेषमपि समासपदमिदमर्थद्वये ऽप्यविशिष्टम् , तत्राभि-
नवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नं च निह्नुत्य नवसंख्यासम्बन्धमध्या-
रोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते कुतोऽस्य नव कम्बला इति, तदेवत्सा-
धारणशब्दे वाचि छलं वाक्छलमिति, यथा च कस्यांचिदवस्थायां जल्पादौ
छलादिप्रयोगो युक्त इति तद्व्युत्पादनमेवं परप्रयुक्तस्यापि सतश्छलादेः प्रति-
समाधानमभिधेयमिति तदपि व्युत्पाद्यते,
नव कम्बला अस्येति मम विवक्षितमिति कुतः प्रतिपन्नमायुष्मता, किमया-
मभिनवकम्बलयोगप्रतिपादको न भवत्येव बहुव्रीहिः पक्षद्वये ऽपि च सम्भ-
२२

on line 5: मामेवं.
Look at मेवाति:
Let's count the glyphs from वक्तु:

  1. व
  2. क्तु
  3. र
  4. भि
  5. म
  6. त
  7. म
  8. े on something?
    Wait, look at the word:
    वक्तुरभिमतमेवातिसामान्यहेतुतामारोप्य
    Let's check if it's वक्तुरभिमतमेवातिसामान्यहेतुतामारोप्य or वक्तुरभिमतत्वमेवाति...
    Wait, let's re-examine letter by letter:
    व
    क्तु
    र
    भि
    म
    त
    म
    े - wait, the top stroke of े is directly above म!
    Wait, what is the glyph after म?
    It is े? No, it's वा!
    Wait, is there a glyph between मे and वा?
    NO!
    Wait, why did I think there was मवेवाति?
    Ah! The म has े on top: मे. Then comes वा. Then ति.
    Wait, before मे, what is there?

छलप्रकरणम् । १७१
अत्रोत्तरम् केन ब्राह्मणत्वस्य हेतुत्वमभिहितं यदनैकान्तिकीकुर्वन्नन्य-
वस्थितोऽसि, सम्भावनावचनमिदं स्तुत्यर्थमुपन्यस्तम्, विद्याचरणसंपदः पात्रं
हि ब्राह्मणाः सति ब्राह्मणत्वे पूर्वजन्मोपचितसुकृतपरिणामाद्भवति विद्याचर-
णसम्पत्, न तु तदेव तस्या हेतुरिति, यथा सम्भवन्त्यस्मिन्क्षेत्रे शालय इति
क्षेत्रप्रशंसापरे वाक्ये प्रयुक्ते नैवं वक्तुमापद्यते यदि क्षेत्रमेव शालिसम्भवहे-
तुस्तत्र विनापि हलबलीवर्दादिसामग्र्यां महत्यवग्रहे ऽपि शालयो ऽस्मिन्सम्भ-
वेयुरिति, तदिदमर्थवादादिगत्यनभिज्ञस्य भवतो भाषितमित्यास्तामेतत्,
इदं तु भवन्तं पृच्छामि भो महात्मन्—
स्वभावशुद्धा परिनिश्चितार्थसंस्पर्शिनी पुण्यसहस्रलभ्या ।
केनेदृशी सर्वजनानुकूला कल्याणिनी ते निरमायि वाणी ॥
उपचारच्छललक्षणम् ।
धर्मविकल्पनिर्देशे ऽर्थसद्भावप्रतिषेध उपचारच्छलम् ॥
गौ. सू. अ. १ आ. २ सू. १४ ।
अभिधानस्य धर्मो ऽनेकप्रकारो मुख्यया वृत्त्या गौण्या वा लाक्षणिक्या
वा यदर्थं प्रत्यायनं तदनेन विकल्पमानेन धर्मेण गौणेन लाक्षणिकेन वा
निर्देशे प्रयोगे कृते यो ऽर्थसद्भावप्रतिषेधो मुख्यार्थनिषेधः स उपचारनिमित्तं
छलमुपचारच्छलम् ।
यथा मञ्चाः क्रोशन्तीत्युक्ते च्छलवाद्याह कथमचेतनाः काष्ठरचनात्मानो
मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषा एते क्रोशन्ति न मञ्चा इति ।
अत्र समाधिः-वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिः तत्र न केवलयैव मुख्यया
वृत्त्या शब्दाः प्रवर्तमाना दृश्यन्ते वृत्त्यन्तरव्यवहारस्यापि सुप्रवर्तितत्वात्, न
च निर्निमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयं सहचरणादिसूत्रनिवेदित-
निमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वादस्य प्रयोगस्य स्थानादयं तद्वदुपचारः,
“सत्यं गौणलाक्षणिकादिशब्दप्रयोगावगतिबाह्य एव य एवं प्रत्यवतिष्ठते,
गौणलाक्षणिकयोः कथं विशेष इति एतत् कथ्यताम्” सत्यं गोशब्दः स्वार्थ-
मभिधाय सास्नादिमन्तं तदीयान् गुणानेव जाड्यमान्द्यादीन् समुल्लास-
यति न तावत्येव विरमति स तु सामानाधिकरण्येन वाहीकेऽपि प्रवर्तते,
गौर्वाहीक इत्येवं प्रयुज्यमानः स गौणो भवति, यस्तु स्वार्थाभिधानानन्तरं त-
वितरमर्थं गुणमगुणं वा लक्षयत्येव न सामानाधिकरण्येन परत्र प्रयुज्यते श-
ब्दः स लाक्षणिको भवति गङ्गायां घोषः प्रतिवसतीति, तथा चोक्तं । गौणे
ऽपि प्रयोगे न लक्ष्णोत्य(यमित्य)लं शास्त्रान्तरोद्गारगहनाभिः कथाभिः—

्तौव? No, it's सत्तैव. Let's look at कुतो ऽस्य`: space before avagraha.

  • Line 20:
    क्रोशनशक्तिर्निषिध्यते ।

  • Line 21:
    समाधिरपि साधारणशब्दानभिज्ञतां परस्य दर्शयता वाक्छले वाच्यः
    Wait, is it दर्शयता or प्रदर्शयता?
    Look at the word before दर्शयता:
    प र स्य then प्र दर्शयता?
    Wait! Look before दर्शयता: there is a प्र!
    प्रदर्शयता! Yes, प्र दर्श य ता.
    Wait, let's re-read:
    समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले वाच्यः - wait, is there a danda or colon after वाच्यः?
    There is a colon-like mark or visarga: वाच्यः (visarga).

  • Line 22:
    उपचारच्छले तु गौणादिशब्दवृत्त्यनभिज्ञतामिति महान्विशेषः ।

  • Line 23:
    `अविशेषे वा किंचित्साधर्म्यादे

सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथगिष्यते तर्हि वागुपचारच्छले अपि
भिद्येते एवेति दर्शितमतो युक्तं भवत्विदम्, न चानन्त्यमियत्तानियमकारिणो
निमित्तत्रयस्य दर्शितत्वात्—अवान्तरभेदकृतं तु तदानन्त्यमिष्यते एव जाति-
वदित्यलं प्रसङ्गेन ।
तस्मात्परस्परविविक्तनिजस्वरूपमीदृक् छलत्रितयमेतदिहोपदिष्टम् ।
तस्य क्वचित्स्वयमपि क्रियते प्रयोगो वाच्यः परैरभिहितस्य तथा समाधिः ॥
इति (१४) छलपदार्थः ।
इति श्रीमद्भट्टजयन्तकृतौ न्यायमञ्जर्यामेकादशमाह्निकम् ॥ ११ ॥
अथजातिप्रकरणम् ।
छलानन्तरं जातेरुद्देशात्तस्याः सामान्यलक्षणं तावदाह—
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥
गौ. अ. १ आ. २ सू. १८ ।
अत्र त्रैकाल्यसमादिसकलविशेषसंग्रहाय साधर्म्यवैधर्म्यादिनिरपेक्षमेव प्र-
त्यवस्थानपदं जातिसामान्यलक्षणप्रतिपादकमाहुः, प्रतीपमवस्थानं प्रत्यवस्थानं
तावन्मात्रमेव च यत्किं चिदुत्तरं परप्रयुक्ते हेतौ जायमानत्वाज्जातिरित्यु-
च्यिधीयते,
तच्चानुपपन्नम्—प्रत्यवस्थानमात्रस्य साधर्म्यादिनिरपेक्षस्य जातित्वे हेत्वा-
भासोद्भावनमपि जातित्वमश्नुवीत ।
अथ तस्य सम्यगुत्तरत्वाद्विदुषश्च निर्विशेषणप्रत्यवस्थानमात्रोपादानात्फ-
ल्गुप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते, तथापि छलस्य जातित्वप्रस-
क्तिरपरिहार्यैव, तद्व्युदासाय तु तदन्यत्वे सतीत्यादिकं यदि किं चिदध्या-
ह्रियते तन्मुख्य श्रयमाणस्य साधर्म्येण वैधर्म्येण वा प्रत्यवस्थानमस्तीति नैष
दोषः साधर्म्यवैधर्म्याभ्यामित्यसमासकरणेन दिक्प्रदर्शनस्य सूचनात् । सा-
धर्म्येण वैधर्म्येण वा कथमेष हेतुर्हेतुर्भवतीति वा किमनेन क्रियते इति वा यदेवं-
प्रकारप्रत्यवस्थानं हेतुप्रतिबिम्बवर्त्मना क्रियते सा भविष्यति जातिरित्युच्यमा-
ने सकलविशेषसंग्रहः त्रैकाल्यसमादिष्वपि यादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्र-
कारस्य योजयितुं शक्यत्वात् , न ह्युदाहरणसाधर्म्यं साध्यसाधनमिह विवक्षि-
तं तद्वैधर्म्यं वा साधर्म्यादिमात्रं तु तत्रापि नात्यन्ताय दूरगमिवि यथाश्रुतं सा-
धर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम् ।
अथ भेदवत्त्वाज्जातेश्चतुर्विंशविधा विभागमाह—
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यवर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्र-

१७४ न्यायमञ्जरी
· तिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्य-
नुपलब्धिनित्यानित्यकार्यसमाः ॥
गौ. अ. ५ आ. २ सू. १ ।
अत्र समा इति स्त्रियां पुंसि च तुल्यत्वान्निर्देशस्य जात्यपेक्षया स्त्रीनिर्देशो
वा प्रतिषेधापेक्षया वा पुंनिर्देशो वर्णनीयः, विशेषलक्षणसूत्रेषु पुनः प्रायेण पुं-
लिङ्गनिर्देशो दृश्यते स तु प्रतिषेधापेक्षया तेषु व्याख्येय इति तद्व्याख्यानावसर-
एव वक्ष्यामः ।
जातिव्युत्पादनपरीक्षा—
“नन्वास्तां तावद्विशेषलक्षणवर्णनम् इदमेव तावदौ चिन्त्यताम्--किमर्थ-
मेवंविधमसदुत्तरजातं शास्त्रे व्युत्पाद्यते,
एवंप्रकाराणां च धूलिप्रक्षेपसदृशानां सारेतरपरीक्षणक्षमविचक्षणोपेक्षणी-
यानामसदुत्तराणामानन्त्याच्चतुर्विंशतिसंख्याऽपि कथमिति मनसि महान्वि-
स्मयो ऽस्माकम् ,
यदपि च तत्त्वाध्यवसायसंरक्षणं तत्प्रयोजनमभिधीयते तदपि न हृद्यंग-
मम् , असदुत्तरोपन्यासेन तत्त्वाध्यवसायस्य संरक्षितुमशक्यत्वात् ,
अथ विकटाटोपप्रकटनपाटवोपहितापरसंमोहनद्वारेण तद्रक्षणमास्थीयते
तर्हि ष्ठीवितहसितांसमर्दनकौपीनावरणविदारणचरणावस्फोटनाद्यपि व्युत्पाद्य-
तामिह मोक्षविद्यायाम् ,
तथा ऽपि चेदं विचार्यताम् क्व जातिप्रयोगैः प्रत्यवस्थेयम् , सम्यक्साधने
परेण प्रयुक्ते तदाभासे वा, न तावत्साधनाभासे तस्य हि येन निमित्तेनासिद्ध-
त्वादिना साधनाभासत्वमुपगतं तदेव तत्र प्रयोक्तुमुचितं न जातयः, तेनैव च
परः पराजीयते, नापि सम्यक्साधने तत्र प्रयुक्तानामपि तासामकिंचित्कार्यकर-
त्वात् , न हि जातिप्रयोगकलुषितमपि सम्यक्साधनमसाधनीभवितुमर्हति ।
अथैकान्तपराजयाद्वरं संदेह इति ताभिरुपक्रमते तत्रापि स तथोपक्रममाणः
कमेव प्रत्याययेत्, नीतिविदस्तावज्जानन्त्येव सोऽयं यथोचितमभिभवितुमपार-
यन्किमप्यालजालमालपितुं प्रवृत्त इति, शाकटिकादिप्रत्यायनार्थं तु प्रत्यन्तगह-
रजनपदेषु

‘छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थ उपलक्षितानां स्ववाक्ये परि-
वर्जनं परवाक्ये च पर्यनुयोगः जातेस्तु परेण प्रयुज्यमानायाः सुवचः समाधिः
स्वयं च सुकरः प्रयोग’ इति, यदा हि मुमुक्षोरगमाद्वा युक्तितो वा तत्त्वज्ञानमु-
त्पन्नं न चाद्यापि भावनाभ्यासप्रसादसमासादितद्रढिमातिशयं वर्तते तस्यामव-
स्थायां यदि केन चित्किमप्यनुमानप्रायमभिधाय तदा व्याकुलीक्रियते तदासौ
विदितयुक्त्यागमगौरवो ऽपि सपदि तदुत्पादिते तत्त्वज्ञाने मनागसंभावनालेश-
मिवाधिगच्छेत् , तस्मिन्वा दृढप्रत्यये ऽपि तत्पार्श्ववर्तिनः शिथिलास्था भवेयुः,
अतो झगिति स दूषणमपश्यन्प्रतिपक्षं जातिप्रयोगैरप्यसौ शमयेदेव नोदासीते-
त्युक्तं जल्पलक्षणे, परोदिता वा जातीः प्रत्यभिज्ञाय तत्क्षणमेव परिहरेदिति
सफलं जातिव्युत्पादनम् , यथा क चिच्चिरव्युप्तस्य संप्रत्युद्भिद्यमानकोमलाङ्कु-
रनिकरदन्तुरितसीमनि केदारे तदुपद्रवो द्रुततरगामिनो यतः कुतश्चन चतुष्प-
दाद् द्विपदाद्वा ऽभिशङ्क्यते इति तत्परिहाराय समन्ततो निरन्तरकटकशाखा-
संततिपरिचरणमाधीयत एवमिहापि जात्यादिप्रयोगः, तद्द्वारकं तत्त्वाध्यवसा-
यसंरक्षणं कर्तव्यम् ।
यत्तु विकल्पितं क्व जातेः प्रयोगः सम्यक्साधने तदाभासे वेति, तदुच्यते-
सम्यग् दूषणमपश्यता किल जात्यादि प्रयोक्तव्यं तच्च सम्यक्साधने तदभावा-
देव भवतु साधनाभासे वा प्रमादादिना वेति को ऽत्र विशेषः, मुमुक्षोस्तु ज्ञात-
तत्त्वस्य तत्प्रतिकूलवादिना केन चिदाक्षिप्तस्य तत्प्रयुक्ते तत्त्वप्रतिक्षेपबलात्सा-
धनाभास एव सम्यग् दूषणमपश्यतो जातिप्रयोगावसरः, ज्ञात्वाऽपि साधनाभा-
सतां यथा तथा सत्वरमेव निर्भर्त्स्यतामयं दुराचार इति पार्श्वस्थितसुकुमारम-
तिशिष्यजनोत्साहजननाय जात्याद्याडम्बरविरचनमुचितमेव मुमुक्षोः, मुमुक्षुं
प्रति च शास्त्रारम्भादाक्रम्येन तदपेक्षया साधनाभासविषय ःएव जातिप्रयोगः,
अत एव च भाष्यकृता प्रथमं साधनाभास एव जात्युदाहरणं दर्शितम् , लाभा-
दिकामानां तु सम्यक्साधने ऽपि प्रयुक्ते युक्त एव जात्याद्युपक्रमः, इतरथा हि
निःसंशय एव पराजयः स्यादित्येतच्चानुषङ्गिकं प्रयोजनमित्युक्तम् ।
यत्पुनरभिहितमसदुत्तरकथने कथं न चपेटादिकं प्रयुज्यते इति, तदप्यसत्-
ह्यासत्यन्तमलौकिकत्वात् , लोको हि तदैवं मन्यते--
नूनमेष न जानाति वक्तुं सदृशमुत्तरम् ।
अन्यथा वाचमुत्सृज्य पाणिना प्रहरेत्कथम् ॥
खेदयेद्वादिनं यस्तु हस्तपादादिचापलैः ।
स संसद्युच्यते सद्भिर्मण्ड एव न पण्डितः ॥
जात्योपक्रममाणस्तु न तथैव विहस्यते ।
न हि संदूषणच्छाया तत्रात्यन्तमसंगता ॥

१७६ न्यायमञ्जर्याम्
तन्न कौपीनवसनापासनादिसाम्यं जात्युत्तराणामिति, यत्तु कस्तैः प्रत्याय्य-
त इति न सर्वः सर्वज्ञकल्पो भवति न च शाकटिकतुल्यः सन्ति हि मध्यमद-
शावर्तिनो जनास्त आराधयिष्यन्त इत्यलं प्रसङ्गेन ।
यत्पुनरसदुत्तराणामानन्त्यात्कथं चतुर्विंशतिसंख्येति, तत्राप्युच्यते—सत्य-
म्थानन्त्ये जातीनामसंकीर्णोदाहरणविवक्षया चतुर्विंशतिप्रकारत्वमुपवर्णितं न
तु तत्संख्यानियमः कृत इति ।
तदत्र साधर्म्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतोः तत्साधर्म्यस-
मा जातिः, सा च साधर्म्यहेतौ वैधर्म्यहेतौ च प्रयुज्यते, वैधर्म्येण प्रत्यवस्थानं
वैधर्म्यसमा जातिः, उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती इत्येवं
सर्वत्र योज्यम्, स्थापनहेतुतश्चाविशेष्यमाणत्वं जातिवाद्यभिप्रायेण तासां द्रष्ट-
व्यम्, जातिवादी ह्येवं वदति यथा भवत्प्रयुक्तं साधनं तथैदमपि किमिति न
भवतीति, अत एव हेतुप्रतिबिम्बनद्वारक एव जात्युपन्यास इत्युक्तम् ।
साधर्म्यवैधर्म्यसमयोर्लक्षणे ।
अथ विशेषलक्षणान्याह, तत्र—
साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ॥
गौ. अ. ५ आ. १ सू. २ ।
प्रतिषेधापेक्षया पुंलिङ्गनिर्देश इति तत्र तत्र द्रष्टव्यम्, साधर्म्येण वैधर्म्येण
वा साधनमभिधाय सिषाधयिषितपक्षोपसंहारे साधनवादिना कृते साध्यधर्मवि-
पर्ययोपपादनाय साधर्म्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्य-
समः प्रतिषेधः, तत्रैव साधर्म्येण वैधर्म्येण वोपसंहारे तथैव वैधर्म्येण प्रत्यव-
स्थानं वैधर्म्यसमः प्रतिषेधः ।
उदाहरणं तु अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यत्प्रयत्नानन्तरीयकं त-
दनित्यं दृष्टं यथा घट इति साधर्म्येण हेतौ प्रयुक्ते जातिवादी साधर्म्येणैव प्रत्य-
वतिष्ठते—नित्यः शब्दो निरवयवत्वाद् निरवयवं द्रव्यमाकाशादि नित्यं दृ-
ष्टमिति, न चात्र विशेषहेतुरस्ति घटसाधर्म्यात्प्रयत्नानन्तरीयकत्वाद नित्यः शब्दो
न पुनराकाशसाधर्म्यान्निरवयवत्वान्नित्य इति, वैधर्म्यहेतावपि साधनादिना प्रयु-
क्ते अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यदनित्यं न भवति तत्प्रयत्नानन्तरी-
यकमपि न भवत्याकाशादिवदित्यत्रैतदेव पूर्वोक्तं साधर्म्यवैधर्म्यप्रत्यवस्थानद्व-
यमुदाहर्तव्यमिति ।
यथा च क्वचिदवसरे स्वयं प्रयोगो जातीनामुपयुज्यत इति तत्स्वरूपव्युत्पा-
दनमुपक्रान्तमेवं परप्रयुक्तानां तासामुत्तरमपि वक्तव्यमतस्तद्व्युत्पादनार्थमाह—
गोत्वादप्रसिद्धिवत्तत्सिद्धिः॥ गौ. अ. ५ आ. १ सू. ३।

जातिप्रकरणम् । [पृ. १७७]


साधर्म्यवैधर्म्ययोरिदुमुत्तरम् , यदि साधर्म्यमात्रं वैधर्म्यमात्रं वा साध्यसा-
धनं प्रतिज्ञायेत स्यादियमव्यवस्था भवेच्च भवत्प्रयुक्तानामीदृशामपि स्थापनहेतो-
रविशेषः, विशिष्टं तु साधर्म्यं वैधर्म्यं वा प्रयोजकमुच्यमानं नैवंविधैः प्रत्यवस्था-
नैरुपहन्यते, यथा सत्यपि सत्तादिसामान्यसंबन्धे सत्यपि शुक्लादिगुणसंबन्धे स-
त्यपि चलनादिकर्मयोगे न गौस्तथा तत्साधर्म्यात्सिद्ध्यति अश्वादिवैधर्म्याद्वा किं
त्वव्यभिचारिणो गोत्वादिसंबन्धादेव तथेहाप्यस्खलितनियमं साधर्म्यं वैधर्म्यं
वा साध्यसिद्धिनिबन्धनं न साधर्म्यादिमात्रमिति ।
उत्कर्षसमादीनां षष्णां लक्षणानि—
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षव-
र्ण्यावर्ण्यविकल्पसाध्यसमाः ॥ गौ. अ. ५ आ. १ सू. ४ ।
दृष्टान्तधर्म साध्ये धर्मिणि योजयन्नसन्त मध्यारोपयन्नुत्कर्षेण प्रत्यवस्थानं
यत्करोति स उत्कर्षसमः प्रतिषेधः, यथा अनित्यः शब्दः प्रयत्नानन्तरीयक-
त्वाद् घटवद् अनित्यः शब्दो घटवदेव मूर्त्तोऽपि भवति न चेन्मूर्त्तो घटवदनित्यो-
ऽपि तद्धर्मो मा भूदिति मूर्त्तस्य धर्मान्तरस्य प्रसञ्जनमुत्कर्षः ।
दृष्टान्तधर्मविकल्पेनैव साध्यधर्मिणि सिद्धस्यापि धर्मस्यापकर्षेण प्रत्यव-
स्थानमपकर्षसमः, पूर्वस्मिन्नेव प्रयोगे घटः खलु प्रयत्नानन्तरीयकत्वादश्रा-
वणोऽस्तु न चेदश्रावणो घटवदनित्योऽपि मा भूदिति सतः श्रावणत्वस्याप-
सरणमपकर्षः ।
ख्यापनीयो वर्ण्यः प्रतिपिपादयिषितः साध्यधर्मः तद्विपर्ययादवर्ण्यः सिद्धो
दृष्टान्तधर्मः तावेतौ वर्ण्यावर्ण्यसमौ प्रतिषेधौ भवतः, यदि शब्दो नित्यत्वेन
वर्ण्यते साध्यते घटो ऽपि वर्ण्यतामिति वर्ण्यसमः, घटश्चेन्न वर्ण्यते शब्दो
ऽपि मा वर्णीत्यवर्ण्यसमः ।
धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमः प्रतिषेधः, तत्रैव प्रयोगे प्रयत्ना-
नन्तरीयकं किं चिन्मृदु दृष्टं दुकूलराङ्कवशय्यादि किं चित्कठिनं कर्परपरश्वधादि
एवं प्रयत्नानन्तरीयकं किं चिदनित्यं भविष्यति घटादि किं चिन्नित्यं शब्दादीति ।
उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्यसमः
प्रतिषेधः, यदि यथा घटस्तथा शब्दः प्राप्तं तर्हि यथा शब्दस्तथा घट इति
शब्दस्यानित्यतया साध्य इति घटोऽपि साध्य एव स्यादन्यथा हि न तेन
तुल्यो भवेदिति ।
अत्र पञ्चानामुत्तरम्—
किंचित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥
गौ. अ. ५, आ. १, सू. ५ ।
२३

१७८ न्यायमञ्जर्याम्
किञ्चित्साधर्म्यादुपसंहारः सिध्यति यथा गौरवेमयं गवय इति न तु स-
र्व्वथा रूपभेदस्तयोः कर्त्तुं शक्यः, प्रमाणावगतस्वभावभेदानां भावानामितरे-
तररूपसंकरस्य कर्तुमशक्यत्वात्, एवं स्वप्रतिबिम्बसामर्थ्यसुस्थिते स्वसाध्य-
मुत्थापयति स्थापनाहेतौ साध्यदृष्टान्तयोर्धर्मविकल्पमापादयता वैधर्म्यं च किं-
चिदभिदधता प्रतिषेधः कतु लभ्यत इति ।
अथ षष्ठस्योत्तरम्—
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ गौ. अ. ५ आ. १ सू. ६ ।
यदुच्यते घटो ऽपि शब्दवत्साध्यो भवतीति तन्नैवम्, लौकिकपरीक्ष-
काणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः तेनाविपरीततया शब्दोऽतिदिश्यते
यथा घटः प्रयत्नानन्तरीयकः सन्ननित्यः एवं शब्दो ऽपीति, एवं साध्याति-
देशाद् दृष्टान्त उपपद्यमाने न तस्य साध्यत्वाभिधानमुपपद्यते ।
प्राप्यप्राप्तिसमयोर्लक्षणे—
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्याऽसाधक-
त्वाच्च प्राप्यप्राप्तिसमौ ॥ गौ. अ. ५ आ. १ सू ७ ।
प्राप्यप्राप्तिविकल्पनपूर्व्वकमुभयत्रापि दोषापादनं प्राप्यप्राप्तिसमौ प्रतिषेधौ
भवतः, हेतौ साधनवादिना प्रयुक्ते पर आह—सो ऽयं हेतुः प्राप्य वा साध्यं
साधयेदप्राप्य वा ? प्राप्य चेद् द्वयोर्लब्धस्वरूपयोरप्राप्तिर्भवतीति किं कस्य साध्यं
साधनं वेत्यविशेषः, अप्राप्य तु साधकत्वमनुपपन्नमतिप्रसङ्गात् , न ह्यप्राप्य
प्रदीपः प्रकाश्यं प्रकाशयतीति ।
अनयोत्तरम्—
घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥
गौ. अ ५ आ. १ सू. ८ ।
नायं प्रतिषेध उपपद्यते उभयथाऽपि कारणस्य भावदर्शनात् दण्डचक्रसू-
त्रादिकारकाणि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति दृश्यन्ते अभिचारकर्मणा
च श्येनादिना दूरस्थस्यापि शत्रोः पीडनं सम्पाद्यत इति ।
प्रसङ्गप्रतिदृष्टान्तसमयोर्लक्षणे—
दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्ते प्रसङ्ग-
प्रतिदृष्टान्तसमौ ॥ गौ. अ. ५ आ. १ सू. ९ ।
अत्र प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः, पूर्वोदाहृत एव हेतौ
यद्यनित्यत्वे प्रयत्नानन्तरीयकत्वं साधनं प्रयत्नानन्तरीयकत्व इदानीं किं साधनं
तत्साधने किमिति दृष्टान्तस्य घटादेरनित्यतायां कारणं किं चिदुपदिश्यते तेन

जातिप्रकरणम् । १०६
तत्कारणान्वेषणातिप्रसङ्गात्प्रसङ्गसमो ऽयं प्रतिषेधः, प्रतिदृष्टान्तेन प्रत्यवस्थानं
प्रतिदृष्टान्तसमः ।
यथा घटः प्रयत्नानन्तरीयकः सन्ननित्यो दृष्ट एवमाकाशं प्रयत्नानन्तरीयकं
नित्यं दृश्यते तद्वच्छब्दो ऽपि नित्यः स्यादिति, कः पुनराकाशस्य प्रयत्नानन्तरी-
यकत्वं वदेत् कूपखननादिना ऽऽकाशकरणं मन्वान एवं ब्रूयादपि कश्चित् ।
“नन्वेवमपि व्यभिचारोद्भावनमेतत्सम्यगुत्तरं नासदुत्तरप्रकारो जातिप्रयोगः”
नैतदेवम्, न हि हेतोरनैकान्तिकत्वमुद्भावयन्नसौ साधुरिव जातिवादी प्रत्यव-
तिष्ठते ऽपि तु दृष्टान्तबलेन नित्यत्वमेव साधयन्नुत्थित इति जातिप्रयोग एवा-
यम्, हेत्वाभासा अपि स्वरूपनिमह्नपुरःसरमपरहेतुप्रतिबिम्बवर्त्मना प्रदर्श्य-
माना जातितां प्रतिपद्यन्त एव ।
अत्र प्रसङ्गसमस्य तावदुत्तरमाह—
प्रदीपोपादानप्रसङ्गविनिवृत्तिवत्तद्विनिवृत्तिः ॥ गौ. सू. ५ आ. १ सू. १०।
असिद्धं हि नाम साध्यते न सिद्धं प्रयत्नवैफल्यात्, सान्धकारे सद्मनि-
पिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिका न दीपदर्शनार्थं दीपान्तरपर-
म्परामाहरन्तीति, अन्तरेणापि हि दीपान्तराणि दृश्यत एव प्रदीपः, एवं लौ-
किकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य सिद्धत्वात्तत्र कारणापदेशो
निष्प्रयोजन इति तस्मान्नायमतिप्रसङ्गापादनस्य विषयः ।
अथ प्रतिदृष्टान्तसमस्योत्तरम्—
प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥
गौ. अ. ५ आ. १ सू. ११ ।
प्रतिदृष्टान्त एव साधकबुद्ध्या यदि त्वयोपन्यस्तस्तर्हि विशेषहेतुर्वक्तव्यो
ऽनेन हेतुना प्रतिदृष्टान्त एव साधको न दृष्टान्त इति न चासौ विशेषे हेतुरुच्यते
तस्मान्न प्रतिदृष्टान्तः सिद्धिहेतुरिति दृष्टान्त एव साधको भवति, प्रतिदृष्टान्त-
हेतुत्वेऽपि स्थिते सत्यहेतुर्दृष्टान्तो न हि साधकः स्यात्, न च तदस्तीत्युक्तमतो
न हेतुर्दृष्टान्तः,
अथ यथा प्रतिदृष्टान्तो न साधक एवं दृष्टान्तोऽपि मा भूदित्यनया
नीत्या प्रत्यवतिष्ठसे हन्त तर्हि प्रतिदृष्टान्तस्य तावदहेतुत्वं स्वकण्ठेन कथित-
मिति तस्मिन्नसाधके दृष्टान्त एव साधक इति ।
अनुत्पत्तिसमस्य लक्षणम्—
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥
गौ. अ. ५ आ. १ सू. १२।
अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः प्रतिषेधः, प्राक्तन एव प्रयोगे जाति-

१८० न्यायमञ्जर्याम्
वाद्याह अनित्य इत्युत्पत्तिधर्मक उच्यते यश्चोत्पत्तिधर्मकः तस्योत्पत्तेः पूर्वमनु-
त्पत्त्या भवितव्यमनुत्पन्ने च शब्दाख्ये धर्मिणि प्रयत्नानन्तरीयकत्वं धर्मः क्व
वर्त्ततामलब्धपञ्चवृत्तेश्च कथम नित्यत्वं साधयत्वसिद्धे चानित्यत्वे शब्दस्य बला-
न्नित्यत्वमेव भवति कारणाभावादित्यनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकं-
त्वस्याभावादित्यर्थः, तथा च शब्दोत्पादककारणाभावान्नुत्पन्ने शब्दे निराश्रयो
हेतुरिति ।
अस्योत्तरम्—
तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥
गौ. अ. ५ आ. १ सू. १३ ।
शब्दाख्यधर्मिणः सिद्धस्य सतो नित्यत्वमनित्यत्वं वा विचार्यते तदसिद्धौ
हि नित्यत्वमपि कस्य भवानभिदधीत, उत्पन्नस्य चास्य तथाभावो भवति नानु-
त्पन्नस्य, उत्पन्नः खल्वयं शब्द इति भवति नानुत्पन्नः, प्रागुत्पत्तेरलब्धात्मनः
किमुच्यते, लब्धस्वरूपस्य पुनरनित्यत्वकारणप्रयत्नानन्तरीयकत्वसद्भावादयुक्त
एवायं प्रतिषेधः ।
संशयसमस्य लक्षणम्—
नित्यानित्यत्वसाधर्म्यात्संशयसमः ॥ गौ. अ. ५ आ. १ सू. १४ ।
नित्यानित्यसाधर्म्योपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशयसमः
प्रतिषेधः, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यस्मिन्नेव हेतौ अस्ति श-
ब्दस्यानित्यत्वसाधर्म्यं प्रयत्नानन्तरीयकत्वमस्ति च नित्येन सामान्येन साध-
र्म्यमैन्द्रियकत्वमतः किमनित्यसाधर्म्यात्प्रयत्नानन्तरीयकत्त्वादनित्यः शब्द उत
नित्यसाधर्म्यादैन्द्रियकत्वान्नित्य इति संशय एवं परः प्रत्यवतिष्ठते, न च साध-
र्म्यसमप्रयोग एवायमाशङ्कनीयः संशयापादनप्रवणत्वादस्येति ।
अस्योत्तरम्—
साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त-
संशयो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥
गौ. अ. ५ आ. १ सू. १५ ।
स्थाणुर्वा पुरुषो वेति स्थाणुपुरुषयोश्च साधर्म्यादूर्ध्वत्वादेः संशयो भवति
न तु शिरःपाण्यादिवैधर्म्यात्प्रत्युत ततो ऽसौ निवर्त्तते यदि पुनरुभयथापि सा
धर्म्यादिव वैधर्म्यादपि संशयः स्यात्तथा सत्यनन्तसंशयः प्राप्नोति, इह च वि
शेषदर्शनस्थानीयमनित्यतासाधनं शब्दे प्रयत्नानन्तरीयकत्वमस्तीति नित्यत
सामान्यगतं संशयकारंणत्वमिति नाभ्युपगम्यते तस्मादप्रतिषेधो ऽयं नित्यस।
मान्यसाधर्म्यनिबन्धनसंशयापादनरूपः ।