सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 574, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 574

Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari:

१६० न्यायमञ्जर्याम्
रेवायम्, इतरस्यापि पक्षधर्मान्वयव्यतिरेकाणां निरपवादानां सम्भवात्सोऽपि
न कथं हेतुरस्त्विति चेद्” न वस्तुतो त्रैरूप्यानुपपत्तेः, एवमिमौ हेतू पक्षद्वये-
ऽपि बुद्धि जनयन्तौ संशयमावहतौ नानैकान्तिकवद्विपक्षावृत्तित्वेनेति हेत्वाभा-
सान्तरत्वम्, एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि
क्रियते तदपि भवतु न पुनरनैकान्तिकप्रभेदतामवलम्बते तल्लक्षणासंस्पर्शादुभ-
यप्रतीतिजनको हीमौ हेतू भवत। नोभयपक्षावृत्तीति, नाप्ययं कालात्ययापदिष्टः
प्रत्यक्षागमायोरन्यतरस्यापि बाधकस्यातुलम्भात्, अनुमानं तु नानुमानस्य
बाधकं भवितुं क्षममित्युक्तम्, न चेतरेतरबाधापेक्षयाऽनयोरसिद्धत्वमभिधेयम्,
संशयजनकत्वेऽनुभवसिद्धे सति विशेषानुपलब्धेरप्रत्याख्येयत्वात् ।
“ननु निश्चितस्य साधनप्रयोगाधिकारात्कथं चिन्तावान्साधनं प्रयुञ्जीत, नि-
श्चितत्वं च तद्धर्मानुपलब्ध्योः परस्परमसिद्धत्वं स्थितमेव” नैतदेवम्, अन्य-
तरधर्मानुपलब्धेरेव पक्षधर्मान्वयव्यतिरेकान्पश्यन्नसौ निश्चिततां प्राप्तो न द्वि-
तीयधर्मानुपलब्धेरसिद्धतां बुध्यमानः, अत एवायं भ्रान्तिमूलहेत्वाभासः द्विती-
यधर्मानुपलब्धिसिद्धत्वनिश्चये तु सम्यग् हेतुरेव स्यात्, तदसिद्धत्वानवधारणे-
ऽप्यसौ स्वस्य हेतोस्त्रैरूप्यदर्शनान्निश्चितमतिर्भूत्वा साधनं प्रयुञ्जान इतरेण
तथैव निश्चितमतिना प्रतिप्रयोगे कृते तस्यापि त्रैरूप्यमुपलभमानः संशयमधि-
गच्छतीत्यलं प्रसङ्गेन, तदेवमसिद्धादिलक्षणवैपरीत्यात्प्रतीत्यनुगुणः प्रकरण-
समो नामाऽसिद्धो हेत्वाभासः ।
अपरे पुनरुदाहरणान्तरमस्य व्याहरन्ति-नित्यः शब्दः पक्षसपक्षयोरन्य-
तरत्वाद् आकाशवत्, अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात् घटवदिति ।
“ननु पक्षसपक्षयोरन्यतरः पक्षो वा स्यात्सपक्षो वा स्यान्न तृतीय। न हि
मित्रावरुणयोरन्यतरः सोमो भवितुमर्हति तत्र पक्षेऽन्यतरशब्दवाच्येऽनन्वयो
न हि शब्दाख्यः पक्षो धर्मी धर्म्यन्तरे वर्तते, सपक्षे त्वन्यतराभिधेये पक्षधर्मता
नास्ति न ह्याकाशादिः सपक्षः शब्दाख्ये धर्मिणि वर्तते”
उच्यते-न पक्षत्वादिति हेतुः प्रयुक्तः सपक्षत्वादिति वा येनैवं स्यात् किं
तु पक्षसपक्षयोरन्यतरत्वादिति, ततश्च द्वयोरपि किमपि साधारणरूपं न हि
वरुणेन यष्टव्य इति याहशी बुद्धिस्तादृश्येव मित्रावरुणयोरन्यतरो यष्टव्य इति,
विशेषनिष्ठतायां तु बलादापाद्यमानायां सकलानुमानोच्छेदः, न चान्यतरत्वं
शब्दमात्रारोपितरूपमवास्तवमिति वक्तुमुचितमर्थासंस्पर्शितायाः प्रतिक्षिप्त-
त्वात् ।
“अन्यतरत्वादित्यसिद्धो; हेतुरिति चेत्किल पक्ष एवायं न पक्षसपक्षयोरन्य-
तर” इति ।
तदयुक्तम्, यत एवायं पक्षस्तत एव पक्षसपक्षयोरन्यतरो न ह्यपक्षः पक्षस-