सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 562, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 562

[१४८] न्यायमञ्जर्याम्

मेव वचनमस्ति रथन्तरमुत्तरयोर्गायतीति तदभावेऽपि मन्त्रसंस्कारसमानयो-
गच्चेमत्वमेव ।
अपि च शब्दपृष्ठस्थितन्याये सहस्रव्युत्पादनात्मके मीमांसाशास्त्रे तन्न्याय-
लभ्योऽर्थश्चोदनार्थ एवेति स्थापितम्, अतश्च यथोक्तोहलभ्यस्यार्थस्य चोदनार्थ-
ता मा निर्वर्तिष्टेति सोऽयमूहः शब्द एवान्तर्भावणीयः प्रमाणान्तरगोचरो वा
धर्मः स्यात्, न्यायविशेषात्मकस्तुहो नानुमानादर्थान्तरं स्यात्, अग्नय इत्यस्य
स्थाने सूर्यायेतिपदस्य प्रयोग ऊहस्य फलं नोहः, इह तु पूर्वोक्तया नीत्या प्रमा-
णव्यतिरिक्त ऊह उपपादितः, श्रोत्रियास्तु तदनभिज्ञतया न्याये न्यायफले वो-
हशब्दमुपचरितवन्त इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः ।
तदेष मीमांसककल्प्यमानो नोहः प्रमाणव्यतिरेकमेति ।
प्रमाणसन्देहदशान्तरालवर्ती तु तर्कः कथितोऽत्र शास्त्रे ॥
इति (८) तर्कपदार्थः ।
तर्कानन्तरं निर्णयो भवति पठितश्चेति स लक्ष्यते—
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥ अ० १ आ० १ सू० ४१.
अवधारणमपि तथा स्यादित्यर्थग्रहणम्, इन्द्रियादिजनितमपि तदवधार-
णमस्त्येव न्यायोपरमहेतोस्तु निर्णयस्योद्देशात्स एवानुमानजन्यो लक्षणीय
इहेति पक्षप्रतिपक्षाभ्यामित्युक्तम् ,
एकाधिकरणौ धर्मौ तुल्यकालौ विरोधिनी ।
पृथक्परिग्रहौ पक्षप्रतिपक्षावुदाहृतौ ॥
"न हिताभ्यां निर्णयः तयोरन्यतरविषयो हि भवति न तत्करणक एवेति"
सत्यम्, इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयौ साधनतदुपालम्भौ लक्ष्येते, तौ च
तस्मिन्करणमेव । "किमर्थं पुनर्लक्षणा ऽऽश्रीयते साधनोपलम्भाभ्यामेवेति कथं
न सूत्रितम्" एवमभिधीयमाने पुनस्तयोर्विषयो मृग्यः लक्षणाप्रयोगे तु सोऽप्य-
वगती भवेत्, मुख्यमभिधाय तदितरो लक्ष्यते । "भवत्वेवं द्वाभ्यां कथं तु नि-
र्णयः एकमेव हि साधनं निर्णयाय कल्पते" एवमेतत् , न द्वितीयमपि साधनं
निर्णयनिमित्तमाचक्ष्महे किन्तु तदुपालम्भं साधनं चः साधनोपलम्भश्च साध-
नोपालम्भौ ताभ्यां निर्णयः ।
एतदुक्तं भवति—स्वपक्षं प्रमाता निर्णयतीति न खल्वेवं न जाने च दूष-
णमुत्प्रेक्षमाणः स्वपक्षे साधनमधिगच्छन्परपक्षसाधने च दूषणमुत्प्रेक्षमाणः
प्रमाता निर्णयतीति किं तूपालम्भस्य क इव निर्णयजन्मनि व्यापारः स हि
परपक्षसाधनमवच्छिनत्तीति, अस्त्वेतत् तदुच्छेदद्वारेण अपि तु स्वपक्षसाधन-
महिमानमाविष्कुर्वन्कल्पत एव निर्णयायेति युक्तो द्वयोरपि करणभावः ।
"नन्विदानीमर्थग्रहणमनर्थकमेवंविधसाधनाधीनजन्मा हि न निर्णयाभासः