सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 566, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 566

१६२ न्यायमञ्जर्याम्
यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङ्कमानाः के
चन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते, इयतस्तु पूर्वसूत्रानुवृत्त्या-
ऽपि सिद्धेर्मन्दफलमेव यथोक्तोपपन्नवचनं भवेदिति समस्तातिदेश एव वरम् ,
न च तत्रापि वादजल्पयोः साम्यं गम्यमानार्थम् , अतिदेशाच्छ्रौत एवार्थो
ऽतिदिश्यते न गम्यमानः तत्कृत एव च तयोर्भेदः, तथा च प्रमाणतर्कसाधनोपा-
लम्भ इत्यत्र गम्यमानोऽर्थोऽभिप्रायनियमः स नातिदिश्यते, सिद्धान्ताविरुद्धः
पञ्चावयवोपपन्न इत्यत्रापि बुद्धिपूर्वजात्यादिप्रयोगप्रतिषेधतदुद्भावननियमरूपो
गम्यमानोऽर्थः सोऽपि नातिदिश्यत इति कुतस्तयोरविवेकः, अत एव च बुद्धि-
पूर्वकप्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम् । "भवत्वेवं
छलादीनां त्वसदुत्तरत्वात्कथमिव साधनोपालम्भहेतुत्वम् , परपक्षप्रतिषेधद्वार-
कमिति चेन्न। सदुत्तरत्वेन 'प्रतिषेद्धेऽपि तेषामसामर्थ्यादेवमपि च साधनग्रहणम-
नर्थकमेवेति" सत्यमेवं किन्तु कस्यांचिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्व-
ज्ञानरक्षायै तान्यपि व्याप्रियन्ते, यदा जानन्नपि परपक्षकृशिमानं स्वपक्षे द्रढि-
मानं च कचिदवसरे परप्रयुक्ते साधने दूषणं सपदि न पश्यति स्वपक्षसाधनं च
झगिति न स्मरति तदा छलादिभिरप्युपक्रम्य परमभिभवत्यात्मानं च रक्षतीति ।
"ननु यदि परश्छलादीनि जानीयात्तेषु चानुरूपमुत्तरमभिदधीत कथं
जीयेत प्रत्युत जयत्येव" सत्यं तथाप्येकान्तपराजयाद्वरं सन्देह इति युक्तमेव
तत्प्रयोगेण स्फुटाटोपकरणम् ।
"नन्वीदृशि प्रयोजनानि जिगीषतो जनस्य जनपदसदसि भवन्ति तस्यापि
न निपुणमतिसदसि मुमुक्षोस्तु दूरापेतेव कथेयमिति कथमिह मोक्षशास्त्रे
जल्पाद्युपदेशः"
नैतदेवम् , मुमुक्षोरपि क्वचित्प्रसङ्गे तदुपयोगात् , यथोक्तं तत्त्वाध्य-
वसायसंरक्षणार्थीनमनेकशिष्यगणोपास्यमानं रहस्यतत्त्वमुपदिशन्तं शान्त-
मानसमाचार्यमनार्यः कश्चिद्विपश्चिदाभासः कुतश्चिदागत्य दुरधिगतकतिप-
याक्षरपरिचयजनितगुरुतरगर्वगद्गदया गिरा भोस्तपस्विन्किमाख्यायते हू-
ङ्कारमान्वीक्षिकी सरलमतिप्रियेयं विद्या क्व वेदाः क्व वेदप्रामाण्यं क्वा-
त्मज्ञानं कापवर्ग इत्यादि मन्दं विहस्य सहस्यसहसाभ्रमेघ इव प्रकटितकाण्ड-
दण्डकाशनितम्भवित्रासिताश्रममृगवर्गमुद्ग्राहयन्नाकुलयति, तदा जगज्जालमि-
न्द्रजालपण्डितविलसितमिति जानन्नप्याशाभ्यो यदि तदुपेक्षते न तिरस्करोति
सद्यः सम्यक् साधनाप्रतिभासेऽपि यदि छलादिभिरेनं न शमयति तदा तस्मिन्
गते तत उत्थाय शिष्यगणा ब्रूयुः कष्टमस्थाने क्लिष्टाः स्मः,
यो ऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः ।
अद्य त्वागत्य सो ऽन्येन पण्डितेन पराजितः ॥