न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 563, कुल 654 में से
संदर्भ में पढ़ेंसम्भवति, साधनोपालम्भलक्षणाथौवपि च पक्षप्रतिपक्षशब्दौ विषयमभिबदितुं
ननु शक्नुत इत्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ?”
उच्यते–पक्षप्रतिपक्षयोस्तु द्वयोरन्यतरत्रार्थेऽवधारणं भवति नोभयत्र,
स ऽएव च परमार्थतोऽर्थ इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्थपदोपादान-
म् । लक्ष्यमाणसाधनोपालम्भनिष्ठत्वात्तु पक्षप्रतिपक्षशब्दयोर्विषयनिर्देशार्थमर्थ-
पदमित्येके । “विमृश्येति किमर्थं” वस्तुस्वरूपकथनार्थमेव, अनुमानकरणको हि
निर्णय इह लक्ष्यते इत्युक्तम् , अनुमानं च संशयविषये प्रवर्तते इति तर्कान-
न्तरमप्यनेनैवाशयेनास्योपादानम् , संशयानन्तरं तर्कस्तर्कादूर्ध्वं च निर्णयो
दृष्टः प्रवर्तमानोऽतस्स तत्पूर्वक उच्यते ।
निर्णये तु समुत्पन्ने बुभुत्सा विनिवर्तते ।
अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ॥
“भवत्वेवमिदं तु चिन्त्यतां–क नियमः किं विमर्शे किं पक्षप्रतिपक्षयोः किं
निर्णय इति, त्रये ऽपि च नोपपद्यते इति, न विमृश्यैव निर्णयः अविमृश्यापि
भावात् , न पक्षप्रतिपक्षाभ्यामेवेन्द्रियादेरपि तदुत्पादात् , न निर्णय एव
तर्कस्यापि क चिद्विनिवृत्ते.” उक्तमत्रोद्देशसूत्रे तत्त्वज्ञानपदोपादानात्प्रमाणपदेन
च तत्फलाक्षेपान् निर्णयमात्रोद्दिष्टेन किमपि प्रयोजनं विशिष्टस्तु निर्णयो ल-
क्षणत्वेन विवक्षितः ।
परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः ।
नियमत्रयमप्येतत्तस्मिन्न हि न युज्यते ॥
न हि (न) विमृश्यैव भवन्ति विमर्शपूर्वकत्वात्परीक्षायाः, अनुमानं च
सन्दिग्धे विषये प्रवर्तते इति प्रायेण तद्व्यवहारः ।
यद्यपि कचिदसन्दिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमतलानर्थिता-
यामतर्किंतोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पनमिव, तथाऽपि
वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः, प्रकृतश्च
निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुमन्यथा
न्यायानुपरमादिति, शास्त्रे तु विनापि संशयादस्ति निर्णयः ।
यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशातिदेशा-
भ्यामभ्यधायि, तथापि नासौ शास्त्रीयो निर्णयः परीक्षाकार्यत्वात् , यस्तु शा-
स्त्रत एव क चिद्विषयनिर्णयः स विमर्शवर्जमुत्पद्यते, वादे ऽपि विमर्शरहिते
भवति निर्णयः, उभो निश्चितौ वादं कुरुतः सन्दिग्धस्य तत्रानधिकारात् ,
“कथं तर्ह्येष प्रवादः संशयच्छेदो वादस्य फलमिति ?” प्रथममुभयोरपि निश्चि-
तयोर्वादप्रवृत्तावन्तराले बलादापतति युक्तिद्वयोपनिपातवतः संशय इति वस्तु-
निर्णयावसानत्वाद्वादस्य संशयच्छेदफलत्वमाचक्षते ।